मूलम् - 4.2.4
संवादो नाम ज्ञानजात्यन्तरम्, इति केचित्; तदयुक्तम्, संख्यान्तरासंभवात् । यत्तु वरदविष्णुमिश्रैरुक्तम्- “गृहीतार्थविषयं शब्दकारणकं ज्ञानं संवादः” इति, तदपि शाब्दावान्तरभेदे संज्ञाविशेषनिवेशमात्रपरम्; “न हि गृहीतार्थविषयत्वे शब्दशक्तिप्रसूतत्वमपैति; गृहीतमात्रगोचरप्रमाणान्तरेपि तदन्यत्वप्रसङ्गात्; भवति हि पर्वतोयमग्निमानिति शब्दश्रवणानन्तरं धूमं परामृशतोपि तादृशी बुद्धिः । तथा द्वितीययोगिप्रत्यक्षादावपि द्रष्टव्यम् । अनपेक्षितत्वादिकमपि श्रुतविष्ायानुमानादौ समम् । न चापेक्षायुक्तं प्रामाण्यं भेदोभेदो वा, तृणादिप्रत्यक्षस्यापि तथा प्रसङ्गात्” इत्युक्तम् । किमर्थं तर्हि वेदानां वेदान्तानां चाप्राप्तविषयत्वं समर्थ्यते ? इति चेत्, अतथाप्राप्तौ साक्षादप्रामाण्यप्रसङ्गात्; तथाप्राप्तावपि अनपेक्षिततया प्रेक्षावद्भिर्निरर्थकप्रयासभीरुभिस्त्याज्यत्वापातेन फलतोप्रामाण्यप्रसङ्गात्, इति पश्य ॥