मूलम् - 4.2.3 प्रतिसन्धानमप्यात्मगोचरं प्रत्यभिज्ञाविशेष एव; योहमद्राक्षं स एव स्पृशामि, इत्येवमादिरूपत्वात् । प्रतिसन्धिरर्थद्वयविषयैकबुद्धिरित्येके । तत्रापि पृथगनुभूतानेकार्थगोचरैककर्तृकैकबुद्धिरिति पूरणीयम्, इति ।