मूलम् - 4.2.2
प्रत्यभिज्ञा तावत् ग्रहणात्मिकैवेत्येके; तथाहि- “प्रत्यभिज्ञायामपि स्मृतिरनुभव इत्यंशभेदोस्ति चेत्” इत्याशङ्क्य प्रत्युक्तं श्रीविष्णुचित्तैः- “यदि विषयभेदः, तदा अंशभेदः संभवेत्; ऐक्यमेव हि निरंशं प्रत्यभिज्ञाप्रत्यक्षविषयः । कथं संस्कारः अपरोक्षधीजनकः इति चेत्, न, चक्षुरादीन्द्रियसहकृतस्य संस्कारस्य ज्ञातुरैक्यात् तदिदमित्यपरोक्षधीहेतुत्वोपपत्तेः ।
अपरोक्षार्थैक्यसाधिका ।
सा प्रत्यभिज्ञा सोयं वै पुमानित्येवमात्िमका ।
संस्कारमात्रजन्यत्वान्न स्मृतिर्मानमेव तत् ॥” इति ।
दीपे च ‘अनुस्मृतेश्च’ इति सूत्रे भाषितम्- “प्रत्यभिज्ञानाच्च न पटादेः क्षणिकत्वम्; तदेवेदमिति प्रत्यभिज्ञायते; प्रत्यभिज्ञा हि नामातीतवर्तमानकालवर्त्येकवस्तुविषयमेकं प्रत्यक्षज्ञानम् । तस्य कालद्वयसम्बन्धाविशिष्टमेकमेव वस्तु विषयः । न च तदित्यंशः स्मरणम्, इदमंशश्च ग्रहणम्, अतीतसम्बन्धिनीन्द्रियसंप्रयोगाभावात् इति वाच्यम्, तदिदमिति सामानाधिकरण्येन ग्रहणस्यैकत्वस्फुरणात् । पूर्वानुभवजनितसंस्कारसचिवेन्द्रियसंप्रयोगयुक्तस्य पुरुषस्य तथा ग्रहणमुपपद्यत एव; अन्वयव्यतिरेकाधीनं हि सर्वत्र सामग्रीपरिकल्पनम्” इति । अन्ये तु अत्र धीभेदबाद्ध्यपरिहारौ मत्वा तदिदमंशयोस्तदंशे संस्कारान्वयव्यतिरेकानुविधानदर्शनात् परोक्षरूपतया इदमंशे च पत्यक्षरूपतया चोभयात्मकत्वमाहुः । तन्मते संस्काराधीनप्रकाशा स्मृतिरिति लक्षणम्, अपरोक्षज्ञानं प्रत्यक्षम्, उभयलक्षणयोगात् प्रत्यभिज्ञायामुभयात्मकत्वम्, इति । अभ्युपगन्तव्यं चास्मत्सिद्धान्तिभिः सर्वैः प्रत्यक्षेतरज्ञानानां परोक्षापरोक्षरूपत्वम्, स्वयंप्रकाशत्वात्, सर्वज्ञानानां वे़द्येतरांशापेक्षया च प्रत्यक्षत्वात् । उक्तं चेदं श्रीविष्णुचित्तैरपि - “स्वप्रकाशकं विषयप्रकाशकं चैकमेव ज्ञानम्; तत्र स्मृत्रिरनुभूतिरिति कुतो भेदः ?” इति परिचो़द्य, “प्रकाशमानभेदात्, इति ब्रूमः; यथा- गौरयमित्येकस्मिन्नेव ज्ञाने प्रकारिप्रकारविषयभेदेन ज्ञानांशभेदः; यथा- गौरयमित्येकस्मिन्नेव ज्ञाने प्रकारिप्रकारविषयभेदेन ज्ञानांशभेदः; यथा च घटपटावित्येकस्मिन्नेव ज्ञानेंशभेदः; यथा वा पराभ्युपगतभ्रमज्ञानेष्वधिष्ठानांशे प्रामाण्यम्, इतरत्राप्रामाण्यं च” इति परिहारात्; तथा “स्मृतेः स्वप्रकाशांशोपि संस्कारमात्रज एव, इन्द्रियादिप्रतिनियतकारणान्तराभावात्” इति परिचोद्य “नैवम्, ज्ञानानां प्रकाशमानत्वस्य स्वाभाविकत्वात्” इति परिहाराच्च । तस्मात् सर्वत्र विषयापेक्षयैव अपरोक्षत्वानुमितित्वस्मृतित्वादिविभागः । जातिसंकरासंकरादि तु दर्शनादर्शनाभ्यां व्यवस्थाप्यम्, औपाधिकसंकरादिवच्च । तदेवमुभयात्मकत्वोपपत्तेः प्रत्यभिज्ञाप्युभयात्मिका इति ॥
न्या. प. श. 52
प्रत्यभिज्ञाप्यभिज्ञावत् त्रिधा चाक्षादिभेदतः ।
तत्तत्संस्कारसंभेदमूलत्वान्नवधा भवेत् ॥
प्रत्यक्षतोक्तिर्दीपादौ प्रदर्शनपरेष्यताम् ।
न हि लिङ्गादिभिः सोयमिति ज्ञानं न जायते ॥
शब्दजं प्रत्यभिज्ञानमुपजीव्य प्रवर्तते ।
शाखान्तराधिकरणन्यायश्च क्रतुविद्ययोः ॥
दीपादिष्विव सर्वत्र बाधकादेरसंभवात् ।
विगीतं प्रत्यभिज्ञानं प्रमाणं सविकल्पवत् ॥
करणाकरणादीनां कालभेदाद्युपाधितः ।
अविरोधान्न बीजादौ शक्यते भेदकल्पनम् ॥
अन्यथा देशभेदेन करणाकरणादिभिः ।
एकं जगति नैव स्यादिति स्यात् सर्वशून्यता ॥
तस्माद् विरुद्धसंस्पृष्टविषयप्रत्यभिज्ञया ।
स्थिरत्वमात्मनां सिद्धं बाह्यानामपि वास्तवम् ॥