02 प्रमाणसंख्या

मूलम् - 4.2.1

॥ द्वितीयमाह्निकम् ॥
न्या. प. श. 51
एवं तावद्विवेचितं प्रमाणम् । चार्वाकास्तु प्रत्यक्षमेकं प्रमाणमित्याहुः । तेष्वेव केचित् अनुमानस्य प्रत्€यक्षेन्तर्भावमिच्छन्ति; केचित्तु अप्रामाण्यम्; प्रत्यक्षमनुमानं च काणादाः सौगताश्च । तत्र पूर्वे शब्दस्यानुमानेन्तर्भावमाहुः; परे तु केचित् अन्तर्भावम्; केचिदप्रामाण्यम्; ते चागमं च सांख्याः, भूषणमतानुवर्तिनश्च । तत्र वेदस्यानादित्वं पूर्वे परिजगृहुः; उत्तरे त्वीश्वरसृष्टताम्; तानि च स्मृतिं च वैशेषिकैकदेशिनोस्म€त्सिद्धान्तैकदेशिनश्च; तान्येव सार्थापत्तिकानि प्राभाकराः; अनुपलब्धिषष्ठानि तान्येव तौतातिताः, तत्प्रलोभनरुचयो मायावादिनश्च; तान्येव संभवतिह्ययुक्तानि पुराणशरणाः । अद्यतनप्रमाणपरिग्रहोपलम्भप्रक्रियेयम् । अनन्ते पूर्वापरकाले कः किमङ्गीकुर्यात्, किं वा बहिष्कुर्यात्, इति को जानात्यन्यत्र कल्पसाक्षात्कारिणस्तस्मादेकस्माद्देवात् । इह च न्यूनवादिनस्तदवसरे निरस्ताः । अधिकतया पराभिमतानां तु अर्न्तभावो वक्तव्यः । तत्र यथा प्रत्यभिज्ञादीनां प्रत्यक्षादिष्वेव निवेश इष्यते, एवमन्येषामपि ।