मूलम् - 3.2.11
एवं सपरिकरो वेदः प्रमाणमिति सिद्धम् ॥
“छन्दः पादौ शब्दशास्त्रं न वक्त्रं
कल्पः पाणी ज्यौतिषं चक्षुषी च ।
शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं
वेदस्याङ्गान्याहुरेतानि षट् च ॥”
एवं सपरिकरवेदार्थतत्त्वनिर्णयविषया “अथातो धर्मजिज्ञासा” इत्यारभ्य “अनावृत्तिः शब्दादनावृत्तिः शब्दात् इत्येवमन्ता विंशतिलक्षणी मीमांसा । “तत्र च संहितमेतच्छरीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिः” इति भाष्योपात्तो वृत्तिग्रन्थः ॥
न्या. प. श. 47
तत्त्वरत्नाकरे त्वेवमुक्तम्-
“कर्मदेवताब्रह्मगोचरा सा त्रिधोद्भभौ सूत्रकारतः ।
जैमिनेर्मुनेः काशकृत्स्नतो बादारयणादित्यतः क्रमात् ॥”
इति । अनयोर्देवताकाण्डस्य जैमिनीयत्वकाशकृत्स्नीयत्वोक्ती तादधीन्यादिविवक्षय समानार्थे गमयितव्ये । तत्र कर्मकाण्डार्थमेवं संजगृहुः-
“धर्मधीर्मानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः ।
सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः ॥” इति ।
“वेदार्थे न्यायचिन्त्ये प्रथममवसितं कर्म तद्देवता चा-
थातः शारीरकांशे निरवधिकफलब्रह्मचिन्ता त्वसूत्रि ।
तत्राध्याये परस्मिन् स्वयमुपनिषदामन्वयोस्याविरोधो
मोक्षोपायोथ मुक्तिर्विषयविषयिणौ सिद्धसाध्यौ द्विकार्थौ ॥”
“तत्राद्येत्यन्तगूढाविशदविशदतच्छायजीवादिवाचः
पश्चात्स्मृत्यादिकैरक्षतिरहितहतिः कार्यताभ्रेन्द्रियादेः ।
दोषादोषौ तृतीयेप्यवरपरगतौ भक्तिरङ्गानि चाथो-
पासानुष्ठाप्रभावोत्क्रमसरणिफलान्यन्तिमे चिन्तितानि ॥”
विचारात् पूर्वमेवात्र प्राप्तमध्ययनं विधेः ।
अतोनधीतवेदस्य विचारः शास्त्रबाधितः ॥
क्रमो विंशतिलक्षण्या न वैधः किंतु यौक्तिकः ।
अतो व्युत्क्रमचिन्तायामनौचित्यं प्रशिष्यते ॥
न्या. प. श. 48
एवं विंशतिलक्षणीश्रवणमननाभ्यां सुप्रतिष्ठितसमस्तशास्त्रार्थस्य मोक्षसाधनतया विधेयं निदिध्यासनं न वाक्यार्थज्ञानमात्रम्, तस्य रागप्राप्तश्रवणादिसिद्धत्वात् । अत एव च तस्मिन् विशेषे वेदनादिसामान्यशब्दपर्यवसानम् । न च निदिध्यासनादिकं निषिद्धम्, वरणीयत्वमेव विहितमिति वाच्यम्; स्वतन्त्रान्यकर्तृकवरणकर्मीभावस्यापुरुषतन्त्रेत्वेनाविधेयत्वात् । अतस्तद्धेतुना प्रीतिरूपत्वेन उपासनमेव विशिष्यते; तथा सति “भक्त्या त्वनन्यया” इति स्मृत्यविरोधश्च । तदेव च निदिध्यासनं प्रीतिरूपं प्रकरणविशेषात् समाधिः । च चाष्टाङ्गः शास्त्रेषु शिष्यते । तावति च पातञ्जलप्रामाण्यमपि । आगमशीलनं च आफलान्मात्रया अनुवर्तनीयम् । स्मरन्ति च-
“स्वाध्यायाद्योगमासीत योगात् स्वाध्यायमाविशेत् ।
स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥” इति ।
यत् पुनः श्रूयते-
“ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
पलालमिम धान्यार्थी त्यजेद् ग्रन्थमशेषतः ॥” इति,
तत् कोशत्यागाभिप्रायम्; न च सादरपटुसंस्कारप्रचयसंसिद्धमेधासंपदः पुरुषस्य कोशेन किंचित् साद्ध्यम् । मेधावीति च विशेष्वते । “धीर्धारणावती मेधा” इति च नैघण्टुकाः । अधीमहे च– “मेधामनीषे मा विशतां समीचीन भूतस्य भव्यस्यावरुद्ध्यै” इति । यद्धा मुक्तप्रायात्यन्तनिष्पन्नयोगपुरुषविषयमेतत्; न हि तस्य शास्त्रेण ज्ञातव्यं तदानीमस्ति, साक्षात्कृतसमस्ततत्त्वार्थत्वात् । यत्तु स्मर्यते-
शास्त्रज्ञानं बहुक्लेशं बुद्धेश्चलनकारणम् ।
उपदेशाद्धरिं बुद्ध्वा विरमेत् सर्वकर्मसु ॥” इति,
इदं तु तीव्रसंवेगिनामलसास्तिकानां च ग्राह्मम्; बुद्धिचलनहेतूनामसच्छास्त्राणां त्यागार्थं वा; तदा विशेषणसाफल्यम्; धर्मविद्यास्थानेष्वपि हि बहिर्दलेष्वतिसंरम्भो मुमुक्षोरपोद्यते-
“न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्यावसथप्रियस्य ।
न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे रतस्य॥”
इति, तत् शाब्दं प्रमेयतत्त्वमधिजिगमिषतां प्रमाणेषु सारम्, तदभावे पुंसः पशुभिः समत्वप्रसङ्गात् इति ॥
यस्याज्ञा निगमैकहर्म्यवलभीवास्तव्यपारावती
यद्भ्रूलास्यवशंवदा विधिशिवस्वस्थानसुस्थासिका ।
यः सर्वत्र यथापुरं वितनुते नामानि विश्वाकृति-
र्नित्यं नः प्रतिभातु सर्ववचसां निष्ठा स नारायणः ॥
इति
श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्तानचार्यस्य कृतिषुन्यायपरिशुद्धौ
शब्दाध्याये द्वितीयमाह्निकम् ॥
समाप्तश्च तृतीयोध्यायः ॥