19 वैखानसप्रामाण्यम्

मूलम् - 3.2.10

एवं स्थिते केचिद् बाह्लीकप्रायाः आगमबाह्याः श्रीमद्वैखानसप्रामाण्ये विशेरते । तत्र तावत् कल्पसूत्रं नाप्रमाणम्, इतरवदेव कल्पसूत्रत्वात्, तत्कर्तुश्च कल्पसूत्रकारत्वप्रसिद्धेः, वेदाविरुद्धत्वात्, वैदिकमन्त्रैरेव सकलधर्मविधानात्, सूत्रान्तराणामपि कुण्डसन्निवेशलक्षणादिषु क्वचित् क्वचित् तदुपजीवनात्, वर्णाश्रमधर्माणामनुकूलं नारायणपरत्वप्रतिपादनादेरपि सत्त्वमूलत्वेन प्रामाण्यैकहेतुत्वात्,
“हरिमेव स्मरेन्नित्यं कर्मपूर्वापरेष्वपि ।
ध्यायेन्नारायणं देवं स्नानादिषु च कर्मसु ॥” इत्यादिना शौनकादिभिरपि तथैव विधानात्, वंशपरम्परया च वैखानसैरधीयमानतया विप्लवस्याप्यनवकाशत्वात् । अस्तु किमपि तत्, इदं तदिति किं नियाकममिति चेत्, इतरानुपलमः तदुपलम्भश्च, अन्यथा सर्वत्र श्रुतिस्मृत्यादीनां तथा तथा संशयप्रसङ्गात् । अस्त्विदमेव तत्, प्रमाणं च, तथापि भार्गवादिचतुष्कस्य कथं प्रामाण्यम् ? इति चेन्न, उक्तोत्तरत्वात्, महर्षिप्रणीतत्ववेदाविरुद्धत्वादेः समत्वात् । पञ्चरात्रविरोधोस्तीति चेन्न, तत्त्वे तदभावात्, कर्तव्यक्रियादिभेदस्यापि प्रतिनियताधिकारिविषयत्वेनैवोपपत्तेः, कल्पसूत्रप्रक्रियाभेदवत्, आगमदिव्यतन्त्रतन्त्रान्तररूपपञ्चरात्रावान्तरचतुष्कक्रियादिविभागवच्च । आश्वमोधिके श्रीवैष्णवधर्मशास्त्रे द्वितयमपि समप्रामाण्यतयोपात्तम् । द्वयोरपि परस्परप्रामाण्यम् “विष्णोस्तन्त्रं द्विधा प्रोक्तम्” इत्यादिषु व्यञ्जितम् । परस्पराक्षेपवचनानि तु इक्षुभक्षकृतिचिकीर्षुभिरसहिष्णुभिरुपक्षिप्तानि वा स्वशास्त्रप्रशंसार्थवादरूपाणि वेति न ततो विरोधः ॥
न्या. प. श. 46
ननु भार्गवादीनि न तावत् कल्पसूत्राणि, तथानभ्युपगमात्, अप्रसिद्धेः, अयुक्तेश्च, । न स्मृत्यन्तराणि, मन्वादिष्वपाठात् तद्वत् तत्प्रसिद्ध्यभावाच्चान च स्वतन्त्रतन्त्रान्तराणि, सांख्ययोगादिसहपाठादर्शनात्, वैखानसानुवर्तनाच्च । तत् कतमां विधामवलम्ब्यामीषां प्रामाण्यमुच्यते ? । मन्वत्रिभार्गवादिवत् नारदीयादिवच्च धर्मशास्त्रतयैव तेषामपि प्रामाण्यम्, अष्टादशादिपरिगणनस्य उपलक्षणतायाः प्रामाणिकैरभ्युपगमात् । स्मृत्यन्तरेषु देवोत्सवादिप्रपञ्चनं नास्तीति चेत्, मा भूत् प्रपञ्चनम्, स्वरूपं तावदनुज्ञातं तत्प्रपञ्चपराणाम् । तथापि जीवानामन्ततोन्योन्यवैषम्यमात्रस्य च सार्वत्रिकत्वान्निकृष्टाधिकारिकाणि तानीति चेन्न, तेष्वन्येषु च ब्राह्मण्यैकप्रधानत्ववचतात्, तथोपलब्धेश्च । कथं तेषां ब्राह्मण्यमिति चेत्, शान्तं पापम् । श्रवसी पिदधीमहि । तथापि वक्तव्यम् । दृश्यन्ते ह्येते वंशपरम्परया वेदमधीयाना वेखानससूत्रोक्तवैदिकसकलसंस्कारशालिनो वर्णाश्रमधर्मकर्मठा भगवदेकान्ता ब्राह्मणाः । नूनममीषां ब्राह्मण्यैककारणेन भागवतत्वेनैव विपरीतं बम्भ्रमीति ब्राह्मणगर्दभः; अन्यथा वैखानसकल्पस्यापि निरधिकारित्वेनाप्रामाण्यप्रसङ्गः । अस्तु तत्प्रामाण्यम्; सन्तु च देशान्तरे कालान्तरे वा तदधिकारिणः; अमी तु कतमे ? इति चेत्, देशान्तरादावप्येवं वक्तुं शक्यत्वात्; विपरीतं वा कस्मान्न स्यात् ?; एवं च सति सूत्रान्तरादिष्वपि कः समाश्वासः ? । वैखानसानां निकृष्टजातित्ववचनविवादाभ्यां सन्देहविषयत्वमिति चेत्,
आप्तग्रन्थस्थतादृशवचनाभावात्; भावेप्येतेषां निकृष्टजातित्वे प्रमाणाभावात्; आगमप्रामाण्योक्तसात्वतादिसमाख्यानिर्वाहसमत्वात्; न ह्यनेकार्थः शब्दो नास्ति, न च शब्दैक्यादर्थैक्यम्, शब्दभेदेनार्थभेदो वा; अन्यथा विलीनं तृतीयाश्रमेणापि; विवादस्य तु भवादृशजिह्वास्पन्दमात्राधीनस्य सूत्रगोत्रादावपि सुशकत्वात् । इतः पूर्वं तावन्नास्तीति चेन्न, अस्यापि विवादस्यानादित्वायोगात्, ततः पूर्वमभावात; तथा च भवतो भविष्यतो वा विवादस्य विवादत्वाविशेषात् ततः परं तेषामनाश्वासप्रसङ्गात् । अस्माकं तावत् तेषु संशयो नास्तीति चेत्, अस्माकं वा किमस्त्यमीषु ? । क्व तर्हि निकृष्टजात्यन्तरम् ? । किमस्मासु तन्न्यासीकृतम् ?; येनास्माभिः प्रदर्शनीयम् । न चास्माभिरनन्ता देशा द्रष्टुं शाक्याः । सम्भवति चोच्छेदः, इदानीं क्षत्रियवैश्यमाहिष्यादिवत् । तेषां केषां चिन्नामसाम्यमात्रादत्रानुप्रवेशः संभवतीति चेन्न, कस्या अपि शङ्कायाः सर्वत्र सुलभत्वात्; अस्ति च वर्णित्वभिक्षुत्वादीनां साम्यमन्यत्रापि । यश्चैवमतिशङ्कया दूयते, स तु स्वमातापितृचरितानवधारणेन स्वब्राह्मण्यमपि यथार्हमतिशङ्केतेति जितं लोकायतेन ।
उक्तं च भगवता-
“अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति ।
नायं लोकोस्ति न परो न सुख संशयात्मनः ॥” इति ।
तत् सिद्धं विशिष्टाधिकारिकं वेदाविरुद्धं वैखानसादिस्मरणं प्रमाणमिति । यच्च धर्मशास्त्रादिषु अष्टादशादिपरिसंख्यानम्, न तदधिकसंख्याव्यवच्छेदपरम्, अन्येषामपि शिष्टपरिग्रहादेरविशिष्टत्वात्, अनुक्तांशदर्शनादिना उपजीव्यत्वाच्चेति ।