मूलम् - 3.2.9
चतुर्विधं चेदं पञ्चरात्रम्- आगमसिद्धान्तः, दिव्यसिद्धान्तः, तन्त्रसिद्धान्तः, तत्रान्तरसिद्धान्तश्चेति । चतुर्विधं चेदं वेदमूलभूतांशस्य उपबृंहणम्; तदभिप्रायेण ह्युक्तं महाभारते-
“महतो वेदवृक्षस्य मूलभूतो महानयम् ।” इत्यादि ।
चतुर्णां चैषां लक्षणादिकं श्रीपौष्करादिषु भगवतैव दर्शितम् । यच्च तेषु चतुर्षु साधारण्यासाधारण्यार्चोपसंहार्यानुपसंहार्यादिकं वक्तव्यम्, तत् सर्वं श्रीपाञ्चरात्ररक्षासिद्धान्तव्यवस्थायां सर्वपरामर्शेन साधितमस्माभिरिति तत्रैव तद्विस्तरः सात्त्वतधर्मगोप्तुरनन्यैरनुसन्धेय इति नात्र प्रब्रूमः ।