15 स्मृतिः

मूलम् - 3.2.6

एवं श्रुतिस्तावदीश्वराज्ञा, तदनुविधानात् स्मृतिरपि । ब्राह्मणमन्त्रार्थवादमया ह्यनन्ता वेदाः सङ्कीर्णा विकीर्णाः क्वचित् कदाचिदुत्सन्नाश्च । तत्र कृत्स्नवेदिनो मन्वादयस्तत्तद्देशकालविशेषेष्वकृत्स्नवेदिनां तत्त्वानुष्ठानविप्लवप्रशमनाय स्वानुभूतान् वेदार्थान् यथावन्निबध्नन्ति; अतस्तन्मूलोनादिवाचामर्थनिर्णयः । श्रुतिस्मृतिविरोधे तु स्मृत्या मूलान्तरानुमानादनुष्ठानविकल्पं केचिदाहुः । सर्वेषां गुणत्रयवतामाप्ततमत्वेपि क्वाचित्कभ्रमसंभवाच्छ्रुत्या स्मृतिबाधः, इत्यपरे । तत्त्वविषनये तु विरोधे बाध एव, आन्यपर्यं वा, वस्तुनि विकल्पासंभवात् । स्मृतिद्वयविरोधे तु परिग्रहतारतम्यादिभिर्व्यवस्था । न च क्वचित् स्मृतीनामप्रामाण्ये
सर्वत्रानाश्वासः, बाधकादर्शनात्, कारणदोषक्लृप्तेश्च नियतलिङ्गाभावात्, संवादभूयस्त्वादिभिः परिग्रहान्€यथानुपपत्त्या च श्रुतेरेव मूलत्वकल्पनोपपत्तेः; अन्यथा पौरुषेयवाक्यस्य सर्वस्याप्रामाण्यप्रसङ्गे विलीनमागमेन । न चैतन्नानिष्टमिति वक्तुं शक्यम्, पित्राद्याप्तवाक्यं प्रमाणीकृत्य चावार्कस्य प्रवृत्तिदर्शनात् । न च क्वाचित्कसंवादमात्रेण बाह्यागमेष्€वपि विस्रम्भावकाशः, प्रत्यक्षश्रुतिविरोधभूयस्त्वेन वैदिकपरिग्रहाभावेन वेदबाह्यत्वप्रसिद्ध्या वेदप्रतिक्षेपाच्च वेदाख्यमूलकल्पनस्याशक्यत्वात् । न चालौकिकं प्रत्यक्षादिमूलत्वसंभवः । योगजसाक्षात्कारमूलत्वकॢप्तिरपि वेदाविरुद्धस्थले स्यात्; न च तत्रापि निश्चयः, विपरीतोपलम्भस्यापि संभवादिति । 3.2.7
ततश्च वेदमूलाः स्मृतयस्निविधाः-धर्मशास्त्रेतिहासपुराणभेदात् । तत्राद्ययोरदूरविप्रकर्षादेकविद्यास्थाननिवेशः । अत्र चाधिकृतानधिकृतविभागेन बलाबलनियतिराभासाह्निके दर्शिता; पुराणेष्वपि सात्त्विकराजसादिविभागश्च ॥
न्या. प. श. 42
यानिपुनः सांख्ययोगपाशुपतपञ्चरात्राणि, तान्यपि धर्मशास्त्रभेदा एव; परिशुद्धात्मचिन्तनरूपज्ञानयोगप्रदर्शनाधिकृतं शास्त्रं सांख्यम्; समाधिपर्यन्तकर्मयोगनिष्ठं शास्त्रं योगः; प्रतिबुद्धेतरविषयपशुपतिभजनप्रतिपादकं पाशुपतम्; प्रतिबुद्धविषयभगवदनन्यभजनोपदेशप्रवृत्तं तु शास्त्रं पञ्चरात्रम् । एतानि च क्वचित् क्वचिदंशे परस्परोपजीवीनि । परस्परविरोधे तु वेदानुसारेण बलाबलव्यवस्था, वेदविरुद्धे त्वंशे बाधः । प्रमादस्यानीश्वरेषु सर्वेषु संभवात् । विप्रलम्भस्य तु असुरादिव्यामोहनोद्यते साक्षादीश्वरेऽपि; यथोक्तं भगवतैव-
“त्वं हि रुद्रप महाबाहो मोहशास्त्राणि कारय ।
अल्पायासं दर्शयित्वा फलं शीघ्रं प्रदर्शय ॥
अहं मोहं करिष्यामि यो मनं मोहयिष्यति ।” इति ॥
अतो यत् सांख्य ईश्वरानधिष्ठितप्रधानादिप्रतिपादनम्, यच्चेश्वरमभ्युपगम्य केवलनिमित्तकारणत्वप्रतिफलनकल्पैश्वर्यवर्णनं योगे, यच्च पाशुपते परावरतत्त्वव्यत्ययवेदविरुद्धाचारादिकल्पनम्, तत् सर्वं व्यपोह्य शिष्टेंशे प्रामाण्यं ग्राह्यम् । न चैतत् तुषतण्डुलविभागवदल्पज्ञैः शक्यम् । अतो हि शारीरके त्रयाणां निरासः । 3.2.8
पञ्चरात्रं तु कृत्स्नं श्रुतिवत् स्मृतिवद्वा प्रमाणम्, प्रत्यक्षश्रुत्यादिविरोधाभावात् । महाभारते च आप्ततम मानवधर्मशास्त्रस्यापि तन्मूलत्वोक्तेरत्यादरेण व्यासदिपरिग्रहविशेषादीश्वरदयामूलत्वेन च कारणदोषप्रसङ्गाभावात् ।
“वेदान्तेषु यथासारं संगृह्य भगवान् हरिः ।
भक्तानुकम्पया विद्वान् संचिक्षेप यथासुखम् ॥”
इति च तत्रैव व्यक्तेः । वेदप्रामाण्याङ्गीकारतदर्थोक्तिभूयस्€त्वतद्वैशद्यहेतुत्ववचनसाधुपरित्राणार्थत्वसत्त्वोत्तरनारदादिश्रोतृकत्वादिनिबन्धनस्पष्टप्रामाण्यत्वात् । न च विप्रलम्भार्थं तथा निबन्धः, अन्यत्रापि प्रसङ्गात्; “अधीता भगवन् वेदाः” इत्यादेर्दुर्ग्रहत्वमात्रतात्पर्येण वेदनिन्दादिरूपत्वाभावात् । निन्दारूपत्वेप्युदितहोमनिन्दावन्निन्दितेतरप्रशंसनप्रवृत्तेः । “सङ्कर्षणो नाम जीवो जायत” इत्यादेस्त्ववतारादिगोचरत्वस्य तत्रैव सिद्धेः । शरीरके च- “उत्पत्त्यसंभवात्” “न च कर्तुः करणम्” इति सूत्रद्वयेन पूर्वपक्षं कृत्वा “विज्ञानादिभावे वा तदप्रतिषेधः” “विप्रतिषेधाच्च” इति तत्प्रामाण्यप्रतिषेधः परिहृतः । तथा निर्मूलत्वासत्परिग्रहसत्परिग्रहाभाववौदिकसंस्कारवर्जनावैदिकसंस्कारविधानविद्यास्थानपरिगणनाभावक्षुद्रविद्याबाहुल्यादिमन्दशङ्कानां भगवद्यामुनमुनिभिः परिहारः प्रपञ्चितः इति नेह प्रतन्यते ॥
न्या. प. श. 43
एवं साक्षादीश्वरदयामूलत्वान्मन्वादिनिबन्धनेभ्योस्यातिरेकः । तेषां श्रुतिविरोधे सति बाध्यत्वमपि संभवेत् । गुणत्रयवश्यतया कादाचित्कभ्रमादिसंभवात् । स्मृत्यादीनां हि श्रुतिमूलतयैव प्रामाण्यमिति भाष्येप्युक्तं “तदुपर्यपि” इत्यधिकरणे– “सङ्कीर्णब्राह्मणमन्त्रार्थवादमूलेषु धर्मंशास्त्रेतिहासपुराणेषु” इति ॥
न्या. प. श. 44
तत एव चैषां विप्रकीर्णशाखामूलत्वं सिद्धान्तः, इत्यपि सूचितम् । क्वचित् कदाचित् केषांचिच्छाखाविशेषाणामुच्छेदः; ते च पुनर्व्यासादिभिः क्वचित् कदाचित् प्रवर्त्यन्ते, इत्येतावता उच्छिन्नशाखामूलत्वमस्तु । उक्तं च भगवता आपस्तम्बेन- “तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते” इति । मन्वादिवचनप्रामाण्यं न्यायमन्तरेणापि श्रुत्यैव सिद्धम्- “यद्वै किञ्च मनुरवदत् तद्भेषजम्” इत्यादिभिः । एवं शिष्टाचारस्यापि- “यथा ते तत्र वर्तेरन्, तथा त्रत्र वर्तर्थोः” “यान्यस्माकं सुचरितानि, तानि त्वयोपास्यानि” इत्यादिभिः । स्मृतिश्च- “स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनाम्” इत्यादि । श्रुत्यैव धर्मनिर्णये संभवति किं धर्मशास्त्रेण ? इत्याशङ्क्याह मरीचिः -
“दुर्बोधा वौदिकाः शब्दाः प्रकीर्णत्वाच्च ये खिलाः ।
तज्ज्ञैस्त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः ॥” इति
सत्यपि धर्मशास्त्रे गृह्यापेक्षां दर्शयति देवलः-
“मन्वादयः प्रयोक्तारो धर्मशास्त्रस्य कीर्तिताः ।
तत्प्रयुक्तप्रयोक्तारो गृह्यकाराः स्वमन्त्रतः ॥” इति ।
अतो धर्मशास्त्रगृह्यादिसापेक्षत्वं वेदार्थनिर्णयस्य । विरोधे च यथायोगं बलाबलव्यवस्था सिद्धा । भगवद्धर्मशास्त्रस्य तु पञ्चरात्रस्य श्रुत्यादिविरोधे षोडशिग्रहणादेरिव देशकालाधिकार्यवस्थाविशेषविषयतया विकल्प
एव, श्रुतेरिवास्यापि दोषसंभावनाविरहादिसिद्धेः । आहुश्चैवमभियुक्ताः- “वेदे कर्त्राद्यभावात्” इत्यारभ्य,
“तस्मात् सांख्यं सयोगं सपशुपतिमतं कुत्रचित् पञ्चरात्रं
सर्वत्रैव प्रमाणं तदिदमवगतं पञ्चमादेव वेदात् ॥” इति ।
अन्यत्र च-
उपनिषदि तु बह्व्यां व्यावघोष्यामदोष-
प्रतिहतगुणराशिर्घुष्यते तार्क्ष्यकेतुः ।
श्रुतिरपि तदुपज्ञैः पञ्चरात्रैर्विकल्पं
न लभत इति सूक्तं भाष्यकृद्यामुनार्यैः ॥" इति ।
तदेतत् यामुनाचार्यैरागमप्रामाण्ये संभावितसमस्तपूर्वपक्षयुक्तिनिराकरणेन । प्रपञ्चितम् । तदनुसारेणैव भाष्यकारैः श्रीपाञ्चरात्राधिकरणं व्याख्यातम् ।
“श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् ।”
इत्यादि वचनं तु त्रय्यन्तमूलतया एकायनश्रुतिमूलतया च योज्यम् । न चात्र वेदत्वे सन्देग्धव्यम्,
“यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ।
महतो वेदवृक्षस्य मूलभूतो महानयम् ॥
स्कन्धभूता ऋगाद्यास्€ते शाखाभूतास्तथा मुने ।”
इत्यादिवचनात् । तथा ऋग्वेदपाठे पठितम्- “व्रतमेतत् सुदुश्चरम्” इति संवादप्रदर्शनात्, वेदशाखाव्यासदशायां
निरुक्तशाखाया अपि गणितत्वात्, भगवच्छास्त्रसारभूतसात्त्वतपौष्करादिषु रहस्याम्नायविधाने
“एकायनीयशाखोक्तैर्मन्त्रैः परमपावनैः ।”
इत्यादिभिः तच्छ्रुतित्प्रतिपादनात् । अत्र भगवद्यामुनमुनिभिरेवोक्तो ग्रन्थो लिख्यते- “यदप्युक्तम्- ‘गर्भाधानादिदाहान्तसंस्कारान्तरसेवनात् भागवतानाम ब्राह्मण्यम्’ इति, तत्राप्यज्ञानमेवापराध्यति, न पुनरायुष्मतो दोषः; यत एते वंशपरम्परया वाजसनेयशाखामधीयानाः कात्यायनादिगृह्योक्तमार्गेण गर्भाधानादिसंस्कारान् कुर्वते, ये पुनः सावित्र्यनुवचनप्रभृति त्रयीधर्मात्यागेन एकायनश्रुतिविहितानेव चत्वारिंशत्संस्कारान् कुर्वते, तेपि स्वशाखागृह्योक्तधर्मं यथावदनुतिष्ठमाना न शाखान्तरीयकर्माननुष्ठानात् ब्राह्मण्यात् प्रच्यवन्ते, अन्येषामपि परस्परशाखाविहितकर्माननुष्ठाननिमित्ताब्राह्मण्यप्रसङ्गात्; सर्वत्र हि जातिचरणगोत्राधिकारादिव्यवस्थिता एव समयाचारा उपलभ्यन्ते । यद्यपि सर्वशाखाप्रत्ययमेकं कर्म, तथापि न परस्परविलक्षणाधिकारिसम्बद्धा धर्माः
क्वचित्, समुच्चीयन्ते । विलक्षणास्त्रयीविहितस्वर्गपुत्रादिविषयोपभोगसाधनैन्द्राग्नेयादिकर्माधिकारिभ्यो द्विजेभ्यस्त्रय्यन्तैकायनश्रुतिविहितविज्ञानाभिगमनोपादानेज्याप्रभृतिभगवत्प्राप्त्येकोपायकर्माधिकारिणो मुमुक्षवो ब्राह्मणाः, इति नोभयेषामप्यन्योन्यशाखाविहितकर्माननुष्ठानमब्राह्मण्यमापादयति । यथा च एकायनशाखाया अपौरुषेयत्वम्, तथा काश्मीरागमप्रामण्यं एव प्रपञ्चितमिति नेह प्रस्तूयते । प्रकृतानां तु भागवतानां सावित्र्यनुवचनादित्रयीसम्बन्धस्य स्फुटतरमु पलब्धिर्न तत्त्यागनिमित्तव्रात्यत्वादिसन्देहं सहते” इति ॥