14 विध्यर्थः

मूलम् - 3.2.5

अथात्र को नाम लिङादिप्रत्ययार्थः ? न तावदपूर्वम्, तस्मिन् प्रमाणान्तरागोचरे व्युत्पत्त्ययोगात्, तद्गोचरत्वे तु अपूर्वत्वव्याघातात्, लिङादिबोधिते व्युत्पत्तावितरेतराश्रयप्रसङ्गात् । विमर्शतः सिद्धिः स्यादिति चेन्न, विमर्शस्य स्मृत्यनुभवातिरिक्तस्यानम्युपगमात्, क्रियाकार्येव्युत्पन्नस्य चान्वयायोग्यतायामपि लक्षणादिभिरेव
निर्बाह्यत्वात्, अभिधानान्यथाकरणायोगात्, प्रथमव्युत्पत्तेरपि सर्वत्र कार्य एवेति नियमाभावात् । तथा-गामानयेत्यादिप्रयोजकवृद्धवाक्यश्रवणसमनन्तरं गवानयने प्रवृत्तं पुरुषमालोक्य पार्श्वस्थो व्युत्पित्सुश्चेतनप्रवृत्तेः कार्यताबुद्धिपूर्वकत्वात् प्रयोज्यवृद्धकार्यताबुद्धेश्च कारणान्तरादर्शनात् यदनन्तरं यत् दृश्यते तत्तस्य कारणमिति प्रयोजकवृद्धवाक्यमेव प्रयोज्यवृद्धकार्यताबुद्धेः कारणमित्यध्यवस्यति । तथा कस्यचित् ‘पुत्रस्ते जातः’ इति केनचिदुक्ते प्रतिपन्नपुत्रोत्पत्तेस्तस्य प्रियत्वं च ज्ञायते । व्युत्पित्सुः पुत्रजन्मवाक्यश्राविणः पुरुषस्य मुखविकासमालोक्य तस्य प्रियार्थप्रतिप्रत्तिनिमित्तत्वानुमानात् तत्प्रतीतेश्च कारणान्तरादर्शनात् पुत्रजनमवाक्यमेव कारणं कल्पयति । न च पुत्रजन्मनः प्रियत्वं बालेनाज्ञातमिति वाच्यम्, प्रज्ञातपुत्रजन्मनस्तस्य प्रौढस्य भाषान्तरवत् प्रथमव्युत्पत्तावेवं संभवात्, नोदाहरणमादरणीयमिति च न्यायविदः ॥
न्या. प. श. 34
ततश्च ये बालानां प्रियत्वेन संप्रतिपन्ना भक्ष्यभोज्यादयः, तद्दर्शी व्युत्पित्सुस्तत्संपत्तिश्राविणः पुरुषस्य मुखविकासदर्शनादिप्रक्रियया व्युत्पद्यत इति किं नोपपद्यते ? प्रियान्तरस्मृत्यादिभिरपि मुखे विकासः संभवतीति चेत्, तथैव स्वयं तदधीनप्रयोजनान्तरस्मरणादिनापि गवानयनकर्तव्यताबोधः संभवेत् । आसत्ति विशेषवशादनेकप्रयोगानुगतेश्च व्यवस्थेति चेत्, तुल्यम् । तथापि तत्तत्प्रियानुबन्धिसुलग्नजन्मसुखप्रसवस्वादुवाक्त्वादिहर्षहेत्वर्थान्तरसंभावनया विशेषो दुर्निश्चयः इति चेन्न, गवानयनेपि वत्ससंयोजनक्षीरसंपादनादिकर्तव्यताबोधकेपि वाक्ये तदर्थगवानयनसंभवाद् गामानमेत्यादिवाक्यं गवानयनकर्तव्यतैकबोधकमिति कथं निश्चिनुयात् ? अन्वयव्यतिरेकमहिमवशाद् दृष्टानुग्रहाच्चेति चेत्, तुल्यम् । तदेवं पुत्रजन्मवाक्योदाहरणसमीकारस्य मन्दमतीनां दुरारोहत्वात् तदुपेक्षणेन स्पष्टतरव्युत्पत्तिप्रकारो यादृच्छिको बुद्धिपूर्वश्च भाष्यकारैर्दर्शितः; तदत्र लिख्यते- “एवं किल बालाः शब्दार्थसंबन्धमवधारयन्ति; मातापितृप्रभृतिभिरम्बातातमातुलादीन् शशिपशुनरमृगपक्षिसरीसृपादींश्च एनमवेहि, इमं चावधारय, इत्यभिप्रायेणाङ्गुल्या निर्दिश्य निर्दिश्य तैस्तैः शब्दैस्तेषु तेषु बहुशः शिक्षिताः शनैः शनैस्तैरेव शब्दैस्तेषु तेष्वर्थेषु स्वात्मनां बुध्द्युत्पत्तिं दृष्ट्वा शब्दार्थयोः संबन्धान्तरादर्शनात् सङ्केतयितृपुरुषाज्ञानाच्च तेष्वर्थेषु तेषां शब्दानां प्रयोगो बोधकत्वनिबन्धन इति निश्चिन्वन्ति । पुनश्च व्युत्पन्नेतरशब्देष्वस्य शब्दस्यायमर्थ इति पूर्ववृद्धैः शिक्षिताः सर्वशब्दानामर्थमवगम्य परप्रत्यायनाय तत्तदर्थावबोधि वाक्यजातं प्रयुञ्जते । प्रकारान्तरेणापि शब्दार्थसंबन्धावधारणं सुशकम्-केनचित् पुरुषेण हस्तचेष्टादिना ‘पिता ते सुखमास्ते, इति देवदत्ताय ज्ञापय’ " इति प्रेषितः कश्चित् तज्ज्ञापने प्रवृत्तः ‘पिता ते सुखमास्ते’ इति शब्दं प्रयुङ्क्ते; पार्श्वस्थोन्यो व्युत्पित्सुर्मूकवच्चेष्टाविशेषज्ञः तज्ज्ञापने प्रवृत्तमिमं ज्ञात्वानुगतः तज्ज्ञापनाय प्रयुक्तमिमं शब्दं श्रुत्वा, अयं शब्दस्तदर्थबुद्धिहेतुरिति निश्चिनोतीति कार्यार्थ एव व्युत्प€त्तिरिति निर्बन्धो निर्निबन्धनः” इति ॥
न्या. प. श 35
अत्र पिता ते सुखमास्त इति वाक्यस्य स्थाने अपवरके दण्डः स्थितः इत्युदाहरणान्तरमात्रमन्यत्रोक्तम् । अतः सिद्धासिद्धेप्याद्यव्युत्पत्तिः । भवतु वा प्रथमव्युत्पत्तिः कार्य एव, तथापि प्रयोगान्वयव्यतिरेकवशादेव शब्दशक्तिर्विवेचनीया । प्रयुज्यन्ते च सिद्धपरा एवाविवक्षितकर्तव्यैः शब्दाः; यथा- कोसौ राजा ? कौरवः । कौतुकमात्रादेव ह्यत्र प्रश्नः, प्रतिवचनं च तदनुविधाय्येव । अतो यथा पदानां प्रातिस्विकी शक्तिः सिद्धे कार्येपीति यथासंभवं निष्कृष्यते, तथा तात्पर्यमपि, यथायोगमेव व्युत्पत्त्युपायत्वेपि च कार्यस्य सर्वशब्दतात्पर्यविषयत्वायुक्तेः । कार्यवाक्येपि प्रवर्तकत्वादिलक्षणं च प्राधान्यमपूर्वस्य मृग्यम्, सुखदुःखाभावाभ्यामतिरिक्तस्य स्वतः स्वस्मिन् प्रवर्तकत्वायोगात्, व्युत्पत्तिदशायामप्यसुखरूपस्यानयनादेरन्यशेषतयैव प्रवृत्तिशेषत्वावगमात् । अतः सुखे दुःखनिवृत्तौ वा साक्षात् कार्यत्वबोधः; तदर्थतया तत्साधने । अपेक्षितत्वेन च साधनवत् साधनसाधनेपि कार्यताबोधोपपत्तिः । न च सुखादित्वमपूर्वस्य; न च तत्साधनतया तत्प्रवर्तकत्वमभ्युपगतम् । अभ्युपगमेपि लौकिकसेव्यप्रीत्येव देवताप्रीत्यैव श्रुत्यादिसिद्धया कालान्तरभाविफलसिद्धौ लिङ्वाच्यतया स्वरूपेण वा तत्कल्पनायोगात्, रात्रिसत्रादिनयाच्च । प्रतिष्ठादेशविशेषशतयातनासाधनत्वघृताञ्जनच्छागादिपरिग्रहवत् विध्यपेक्षितं प्रतीतं च देवताप्रीत्यात्मकमेवापूर्वं लिङ्वाच्यतया स्वरूपेण वा द्वारमुपकल्प्यताम्; किमन्येन ?॥
न्या. प. श. 36
यच्च जल्पन्त्यर्धलोकायतिकाः-
“विग्रहो हविरादानं युगपत् कर्मसन्निधिः ।
प्रीतिः फलप्रदानं च देवतानां न विद्यते ॥” इति,
तदपि जैमिनिहृदयानभिज्ञतानिबन्धनम्; न हि स्वतः प्रमाणाम्नायस्मृतिपुराणादिसिद्धाः साधकबाधकप्रमाणागोचराः देवताविग्रहादयो हातुं युक्ताः । न चायोग्येष्वनुपलम्भमात्रेण बाधः शङ्रक्यः, अतिप्रसङ्गित्वात्, साक्षाल्लोकायतिकवादप्रसङ्गात् । स्तुत्या विधिशेषभूतेष्वप्यर्थवादेषु तदर्थतयैव स्वार्थमभिदधानेषु न वाक्यभेदादिदोषः । स्तुत्यादिपरत्वेपि न मुख्यार्थबाधः, स्वार्थबाधकाभावो स्वार्थप्रहाणायोगात्; न च सर्वा स्तुतिरयथार्था; न चासता गुणेन कथितेन स्तुतिसिद्धिः । यत्र तु मुख्यार्थबाधः, तत्राप्यैपचारिकं किञ्चिदालम्बनमभिप्रेतम्; अन्यथा विडम्बनमात्रमेव स्यात् । न चोपच्छन्दनमात्रता, तज्ज्ञाने पुंसः प्रवृत्त्यनुपकारात्, निरूपकस्य च तदज्ञानायोगात्, अन्यथा भ्रान्तिमूलप्रवृत्तित्वप्रसङ्गात्; समन्वयाधिकरणनयाच्च सिद्धैकपराः सन्ति भागाः । तदनुधाविनश्चेतिहासपुराणादयः ॥
न्या. प. श. 37
नन्वर्थवादाधिकरणे “विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः” इति सर्वेषामर्थवादानां विध्येकवाक्यत्वमुक्तम्; समन्वयसूत्रे तु कथं तद्विरुद्धोक्तिः ? मैवम्; अर्थवादाप्रामाण्यपूर्वपक्षप्रतिक्षेपाय विध्येकवाक्यतया प्रामाण्यं संभवतीत्येतावन्मात्रमर्थवादाधिकरणे स्थापितम् । विध्येकवाक्यत्वे ब्रह्मस्वरूपतात्पर्याभावपूर्वपक्षस्तु अपवरकनिधिसद्भावादिवाक्यवत् स्वतःप्रयोजनभूतार्थविषयवाक्यानां भिन्नवाक्यतयापि प्रामाण्यमुपपाद्य समन्वयसूत्रे प्रतिक्षिप्यत इति विरोधाभावात् । अपि चौत्सर्गिंकमापवादिकं च तं तमर्थं प्रतिपादयत्सु वाक्येषु विषयव्यवस्थया विरोधशमनं व्याकरणादिष्वपि दृष्टमिति । अत एव ब्राह्मणशेषा अर्थवादा इत्यार्षमपि वाक्यमौत्सर्गिकविषयमवगन्तव्यम् । या तु शब्दभावनैव लिङाद्यर्थ इति कौमारिलकुसृतिः, सा तु प्रतीतिविंसवादादिप्रतिहता; न हि विधिवाक्यश्रावी पुरुषः, लिङादि स्वव्यापारमभिधत्ते, अतो मया प्रवर्तितव्यमिति मन्यते । न च यागादिस्वरूपे लिङादिव्यापारे च केनचिद् वाक्येन समुच्चित्€य प्रतिपादितेपि कश्चित् प्रवर्तमानो दृश्यते । लिङादेश्च ज्ञायमानत्वलक्षणव्यापारमात्राच्छक्तिलक्षणव्यापाराद्वा प्रवर्तकत्वे व्युत्पत्तेः प्रागपि ततः प्रवृत्तिप्रसङ्गः; व्युत्पत्तेरपि सहकारित्वे तत्सापेक्षाया निर्विषयायास्तस्या असंभवात् तद्विषयो वाच्यः । न च स्वव्यापारे लिङादिः क्वचिद् व्युत्पन्नः । सर्वेषामपि शब्दानां स्वव्यापारातिरिक्त एव ह्यर्थे व्युत्पत्ति । ये चाभिधादयः शब्दाः, तेपि न श्रृङ्गग्राहिकया स्वव्यापारमभिदधति; अपि तु शब्दमात्रव्यापारे तत्प्रवृत्तेः सामान्योपाधिक्रोडीकारेण स्वव्यापारस्यापि निवेशः; अत एवाभिधादिशब्दाभिधेयस्य निमित्तस्य च सामान्यतः प्रतिपन्नत्वाद् व्युत्पत्त्युपपत्तिः । लिङादेस्तु स्वव्यापारे प्रतीते तत्र व्युत्पत्तिः स्यात्; तत्प्रतीतिर्व्युत्पन्नेन चेत्, अन्योन्याश्रयः; अव्युत्पन्नेन चेत्, अतिप्रसङ्गः, इति । न चेष्टसाधनत्वमात्रं लिङादिबोध्यम्, ‘तवेष्ट साधनमिदम्, अतेः कुरु’ इति सहप्रयोगदर्शनात् । न चादरादिनिबन्धना पुनरुक्तिरियम्, प्रतीतेरतथात्वात्, हेतुसाध्यनिर्देशायोगाच्च । ‘कर्तव्यमिदम्, अतः कुरु इत्यपि दृश्यते, इति चेन्न, ब्राह्मणस्य कर्तव्यमिदम्, अतस्तवापि कर्तव्यमितिवत् सामन्यविशेषादिविवक्षाया अविरोधात्, अत्यन्तैकार्थविवक्षायां तु तत्रापि प्रयोगायोगात् । अत एव आप्तस्य वक्तुरिच्छामात्रं लिङाद्यर्थः, इति प्रत्युक्तम्; आप्तस्येष्टमिदम्, अता ममेदं कार्यम् इति प्रवर्तमानपुरुषाभिलापविशेषदर्शनात् । न च लिङर्थत्वादेव निमन्त्रणादिवद् विधिरपि वक्त्रभिप्रायमात्रमिति वाच्यम्, संभावनादिभिर्विशेषविहितैश्चानैकान्त्यात्; एकशब्दवाच्यतामात्रेणैकत्वे चानेकार्थशब्दभङ्गप्रसङ्गे दृष्टान्तोपि न सिध्येत् । यद्यपि परमते ह्युदयनोक्ता निषेधानुपपत्तिः, तथापि न सास्मत्पक्षमवगाहते, कर्तव्यताया विध्यर्थत्वे न कर्तव्य इति नञन्वयाविरोधात्; कर्तृव्यापारसाध्यत्वमेव च कर्तव्यत्वम्; तथाहि वेदार्थसङ्गहे “लिङादेः कोयमर्थः परिगृहीतः”’ इति प्रश्नपूर्वकं प्रत्युक्तम्- “यज देवपूजायाम्, इति देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां लिङादयोभिदधतीति न किञ्चिदनुपपन्नम्, कर्तृवाचिनां प्रत्ययानां प्रकृत्यर्थस्य कर्तृव्यापारसंबन्धप्रकारो हि वाच्यः; भूतवर्तमानतादिमन्ये वदन्ति, लिङादयस्तु कर्तृव्यापारसाध्यतां वदन्ति” इति ।
भाष्ये चाद्यसूत्रे-“अतो विधिवाक्येष्वपि धात्वर्थस्य कर्तृव्यापारसाध्यतामात्रं शब्दानुशासनसिद्धमेव लिङादेर्वाच्यमित्यध्यवसीयते, धात्वर्थस्य च यागादेरग्न्यादिदेवतान्तर्यामिपरमपुरुषसमाराधनरूपता, समाराधितात् परमपुरुषात् फलसिद्धिश्चेति ‘फलमत उपपत्तेः’ इति प्रतिपादयिष्यते” इति । अत्र कर्तृव्यापारसाध्यतामात्रमिति निष्कृष्टार्थप्रदर्शनायोक्तम्; प्रतिपत्तिप्रकारस्तु यजेतेत्यादौ स्वव्यापारसाध्ययागादिविशिष्टः इति कर्तृप्राधान्येनैव । यथोक्तं दीपे कर्त्रधिकरणै- “यजेत, उपासीत, इति हि कर्तरि लकारः, अतः कर्तारमेव बोधयति शास्त्रम्” इति । उक्तं च वेदार्थसंग्रहेपि– “स्वर्गकामो यजेत, इत्येवमादिषु लकारवाच्यकर्तृविशेषसमर्पकाणां स्वर्गकामादिपदानां नियोज्यविशेषसमर्पकत्वं शब्दानुशासनाविरुद्धम्” इति । यद्यपि दीपग्रन्थः पुंसः कर्तृत्वं श्रुतिसिद्धमित्यत्रैव तत्परः, तथापि धात्वर्थसाध्यतापरलिङादिष्वपि कर्तप्रधानतया वृत्तिं प्रदर्श्य सांरव्यान् प्रतिक्षिपतीति तादर्थ्यात् तत्रापि तत्परत्वमेव ग्राह्यम् । पचतीत्यादौ पाकं करोतीत्यादिनिपुणव्याक्रियाश्च कृतिकर्मतयैव धात्वर्थस्यान्वयं व्यञ्जयन्ति ॥
न्या. प. श. 38
श्रीगीताभाष्ये चैतद् व्यञ्जितम्- ‘युध्यस्व’ इत्यत्र ‘युद्धाख्यं कर्मारभस्व’ इति व्याख्यानात् । व्याकरणात् करणतया च धात्वर्थस्यान्वये कथं क्रियाविशेषणस्य कर्मविभक्त्यन्तता ? न हि विशेष्येण विशेषणं भावयेदित्यन्वेति, फलस्यापूर्वस्य वा भवद्भिर्भाव्यत्वाभ्युपगमात्; वर्तमानव्यपदेशादिषु च साध्यान्तराभावेपि न विशेषणमात्रं साध्यम्, न च प्रथमान्तं कियाविशेषणम्; करणपक्षेपि धात्वर्थेनानन्वयप्रसङ्गात्, अनन्वितविशेषणताद्यनुपपत्तेः । न चाकर्मविभक्त्यन्तेन धातुना कर्मविभक्त्यन्तस्य कथं सामानाधिकरण्यमिति वाच्यम्, करणविभक्त्यन्तेनाप्यसामानाधिकरण्यप्रसङ्गात्, न च प्रपवतीयमाने कर्मत्वेनान्वये कश्चिद्दोषो दृश्यते, प्रियङ्गुकामः कृषिं कुर्यादितिवत् स्वर्गकामो यागं कुर्यादिति वाक्यार्थेपि विरोधाभावात्, तद्वदेवार्थतस्तस्य तदुपायत्वसिद्धेः केनेति करणाकाङ्क्षाया अपि शमनात् । नामधेयगततृतीयान्वयोपि नावश्यं सामानाधिकरण्येन, तत्तन्नामकैः कर्मविशेषैः देवतापूजां कुर्यादित्येवंपरत्वेपि स्वरसान्वयात्, सामान्य€विशेषरूपेण व्यधिकरणनिर्देशोपपत्तेः । चाटुवादेन राजानं प्रीणयेदितिवाद् यागं कुरुष्वेत्यादौ न कृञर्थस्यापि साध्यत्वप्रसङ्गः, तस्यैव कर्तृव्यापाररूपत्वे तत्साध्यत्€वायोगात्, प्रकृतिप्रत्ययोरन्यतरस्य कृतावुदासीनत्वात्, एकः, द्वौ, बहवः, इत्यादिवत् । तत्रापि यदा कर्मतां विवक्षति, तदापि कर्तृव्यापारान्तरमभिप्रेत्य वा, भेदोपचारेण वा निर्वाहः; यथा-उदकाहरणक्रियां करोतीत्यादौ । न च तावतानवस्था, प्रतीत्यनारोहेण व्यवहारस्य पर्यवसितत्वात् । अग्निहोत्रं जुहोतीत्यादिप्रयोगश्चास्मत्पक्षानुकूलः । अतः, किं, केन, कथमिति भवत्प्रोक्तवत्, किमर्थं, किं, केन, कथमित्याकाङ्क्षाचतुष्टये स्वर्गादिना किमर्थमित्याकाङ्क्षापूरणम्, देवतां प्रीणयेदिति किमित्याकाङ्क्षानशान्तिः, ज्योतिष्टोमेनेत्यादिनामधेयादिभिः केनेत्याकाङ्क्षा पूर्यते, कथमित्याकाङ्क्षापूरणं तु भवतामस्माकं च तुल्यमेवेति शाब्दोयं पन्थाः । अतस्तत्तदधिकारिणः स्वसाध्यधात्वर्थविशिष्टताबोधिनि यजेतेत्यादौ तत्तद्धात्वर्थानुष्ठाने फलम् अननुष्ठाने प्रत्यवायश्च सर्वप्रशासितुः सङ्कल्पाद् भवतीत्यपि वाक्यादवगतम् । अवान्तरदेवताबुद्धिवृत्तिविशेषस्तु सद्वारकयजते श्राद्धभोजिपुरुषप्रीत्यादिवदानुषङ्गिकः, अन्यथा कल्पान्तरादिषु प्रलीनप्राचीनदेवतागणेषु पूर्वकल्पानुष्ठितकर्मफलानुत्पत्तिप्रसङ्गात् । अत एव ह्येकस्यैव श्रुतिराज्ञा; अन्येषां चाराधकत्ववदाराध्यत्वमपि तदायत्तमिति । नारायणार्यैस्त्वेवमुक्तम्-
“आप्तस्य हितकामस्य नियोगं केचिदूचिरे ।
भाष्यकारोपि भगवानेतदेवान्वमन्यत ॥” इति ॥
अत्र च “स्वशासनावबोधि शास्त्रं च प्रदिश्य” इति भाष्यमभिसंहितम् । इदं च विधिनिषेधानुवर्तनातिवर्तनप्रयुक्तनिग्रहानुग्रहवचनबलात् सिद्धम् ।
“श्रुतिः स्मृतिर्ममैवाज्ञा यस्तामुल्लङ्घ्य वर्तते ।
आज्ञाच्छेदी मम द्रोही मद्भक्तोपि न वैष्णवः ॥” इति ॥
‘विधिः प्रेरणम्’ इति च व्याकारि वैयाकरणैः । प्रेरणं च शासनमेव । तत्त्वरत्नाकरकारैश्चैवमुक्तम्-
“क्रिया तच्छक्तिर्वा किमपि तदपूर्वं पितृसुर-
प्रसादो वा कर्तुः फलद इति रङ्गेश कुदृशः ।
त्वदर्चेष्टापूर्ते फलमपि भवत्प्रीतिजमिति
त्रयीवृद्धास्तत्तद्विधिरपि भवत्प्रेरणमिति ॥”
नित्यनैमित्तिकादिविधिभेदेषु च प्रशासितुरभिप्रायविशेषाः व्यञ्जिताः-
“आज्ञा ते सनिमित्तनित्यविधयः स्वर्गादिकाम्यद्विधिः
सोनुज्ञा शठचित्तशास्त्रवशतोपायोभिचारश्रुतिः ।
सर्वा यस्य समस्तशासितुरहो श्रीरङ्गराजस्य ते
रक्षाकूतनिवेदिनी श्रुतिरपि त्वन्नित्यशास्तिस्ततः ॥” इति ।
अपि च वेदार्थसङ्गहेप्युपात्तं द्रविडभाष्यम्- “स्वशासनानुवर्तिनो ज्ञात्वा कारुण्यात् स्वभावाच्छ्रद्धयैत् विद्वान् कर्मदक्षः” इति । अनन्तरं चायमेवार्थो भगवद्गीतायामपि दर्शितः-
“ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोनसूयन्तो मुच्यन्ते तेपि कर्मभिः ॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान् वि€द्धि नष्टानचेतसः ॥
इति स्वाज्ञानुवर्तिनः प्रशस्य विपरीतान् विनिन्दन् पुनरपि स्वज्ञानुपालनमकुर्वतामासुरप्रकृत्यन्तर्भावमभिधायाधमा गतिश्चोक्तेति ईदृश एव विधिशब्दार्थो वेदान्तिभिः स्वीकृतः” इति । परेपि केचिदन्ववादिषुः । अतो मूलस्कन्धीकृतनियोगं धात्वर्थस्य कर्तृव्यापारसाध्यत्वं वा निर्विष्€ायप्रेरणासंभवात् तत्साध्यत्वपर्यन्तं प्रेषणमेव वा लिङाद्यसाधारणार्थः, इति स्थिते “विधिनि€मन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्” इति समभिव्याहृतनिमन्त्रणादिसमानयोगक्षेमतया विधिशब्दार्थतया व्याकृतस्य प्रेषणस्यैव लिङादिशब्दवाच्यत्वं युक्तमिति । अन्यथापि प्रेषणमन्तर्गतमेवेत्यपरे ॥
न्या. प. श. 39
इदं च विधिवाक्यानामीश्वरशासनात्मकत्वं जैमिनिनापि सूचितमेव- “चोदनालक्षणोर्थो धर्मः” इति । चोदनाशब्दो हि चोदकं कंचित् पुरुषं सूचयति । अहृदयादपि शाबरोदाहरणादिदं व्यज्यते- “आचार्यचोदितः करोमीति हि दृश्यते” इति ॥
न्या. प. श. 40
एवं चोदनाशब्दसूचितश्च पुरुषः स्ववाक्येन प्रागेव विशेषतो दर्शितः । अपिच औत्पत्तिकसूत्रे “तस्य ज्ञानमुपदेशः” इत्यसूत्रयत् । उपदेशोपि हि उपदेष्टारमाक्षिपति । “तत्प्रमाणं बादरायणस्य” इति सूत्रखण्डे च स्वस्य स्वाचार्यभूतबादरायणसमानाभिप्रायत्वं व्यञ्जितम् । स च बादरायणो जैमिनिं स्वशिष्यमभ्युपगतेश्वरादितत्त्वं “साक्षादप्यविरोधं जैमिनिः” इत्यादिषु बहुषु सूत्रेष्वदर्शयत् । प्रतिक्षेपस्तु क्वाचित्कः अन्यपरोक्त्यापातप्रतीतार्थमन्दमतिमोहनिरासार्थो वा क्षुद्रप्रमादमात्रस्याप्युद्धारार्थो वेति न प्रधानविरोधकल्पनलिङ्गम् । अर्थवादाधिकरणे च “विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः” इति प्रेरणरूपविधिप्रतिपादकलिङाद्यवयवद्वारा समुदायभूतं विध्युद्देशवाक्यं लक्षयित्वा तदेकवाक्यत्वमर्थवादानां वदन् कृत्€स्€नस्य वेदस्येश्वराज्ञारूपविधिप्रतिपादकत्वं तद्वाक्यकण्ठोक्तमसूचयत् । एवमन्यत्रापि भाव्यम् ॥