मूलम् - 3.2.4 हितानुशासनरूपं वाक्यमिह विधिः । स च बहुविधः- नित्यनैमित्तिककाम्यसंवलितविधिनिषेधादिभेदात् । नियमपरिसंख्ये अपि विधिभेदावेव । तत्रैवं विवेकः- अप्राप्तस्य विधौ प्राप्तिर्नियमे प्राप्तपूरणम् । बाधस्तु परिसंख्यायां प्राप्तस्यैवैकदेशतः ॥