12 अर्थवादः

मूलम् - 3.2.3

विध्यधीनप्रवृत्त्युत्तम्भकवाक्यविशेषो ह्यर्थवादः । सोऽपि प्रत्यक्षाद्यविरुद्धे स्वार्थे प्रमाणम्, स्वतः प्रामाण्यस्यानपायात् । यत्र विरोधधीः, तत्राप्यविरुद्धार्थोपचारेण तत्प्रामाण्यम् । स च क्वाचिद् विध्येकवाक्यतया प्रमाणीभवतीत्यर्थवादाधिकरणादिषु स्थापितम् । स्वतः प्रयोजनभूतार्थविशेषविषयस्तु स्वतन्त्रतयापि प्रामाण्यं प्राप्नोतीति समन्वयसूत्रसिद्धम् । तत्प्राप्त्यभिलाषे तु तदुपायवाक्यप्रवृत्तिः । स चतुर्धा-निन्दाप्रशंसापरकृतिपुराकल्पभेदात् । निषेधादिशेषभूतो निषेध्यादिदोषवादोत्र निन्दा । विध्यादिशेषभूतो विधोयादिगुणवादः प्रशंसा । एकानुबन्धी कथाविशेषः परकृतिः । अनेकानुबन्धी तु पुराकल्पः ॥