11 मन्त्रः

मूलम् - 3.2.2

एवं बोधकानां पदसंघातानां संसर्गविशेषबोधकत्वेन वाक्यशब्दाभिधेयानामुच्चारणक्रमो यत्र पुरुषबुद्धिपूर्वकः, ते पौरुषेयाः शब्दाः इत्युच्यन्ते । यत्र तूच्चारणक्रमः पूर्वपूर्वोच्चारणक्रमजनितसंस्कारपूर्वकः सर्वदा, अपौरुषेयास्ते वेदाः इत्युच्यन्ते । एतदेव वेदानामपौरुषेयत्वं नित्यत्वं च, यत् पूर्वोच्चारणक्रमजनितसंस्कारेण क्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम् । तेनानुपूर्वीविशेषेण तमेव संस्थिता अक्षरराशयो वेदा ऋग्यजुःसामाथर्वभेदेन भिन्नाः अनन्तशाखा वर्तन्त इति ॥
न्या. प. श. 30
अत्राङ्गिरसानुक्तिरथर्वानुप्रवेशविवक्षया । एवं त्रिवेदीव्यपदेशेपि विवक्षाभेदो ग्राह्यः । सर्वोप्यसौ पुनर्मन्त्रार्थवादादिरूपेण त्रिविधः । तत्र प्रामाणिकमन्त्रव्यवहारविषयो मन्त्रः । स चानुष्ठेयार्थप्रकाशनादिनोपकारोति । न चेदमेव तल्लक्षणम्, “वसन्ताय” इत्येवमाद्यव्याप्तेः । “वसन्ताय कपिञ्जलानालभन्ते” इत्यादयस्तु मन्त्रा अपि विधिपरा एव मीमांसिताः । स किल मन्त्रः क्रियमाणानुवादिस्तोत्रशस्त्रजप्यादिभेदभिन्नः । पैशाचमागधादितत्तद्भाषामन्त्राणां फलप्रदत्वे तत्तद्बीजजात्यादिकं निदानम् । श्रद्धेयदेवतानामाङ्कमात्रं तु न तदक्षरशक्तिप्रतिबन्धकम्; क्षिप्रक्षुद्रफलप्रकाशनेन विप्रलम्भार्थं तथैवेश्वरादिभिः सृष्टम् । गरुडादिनामाङ्कभाषामन्त्रेषु तु तत्तद्देवतास्मृत्युपकारकत्वमप्यस्ति । एतेन मन्त्रव्याकरणं निर्व्यूढम् । ये तु सप्तकोटयो महामन्त्राः इत्याप्तशास्त्रप्रतिष्ठिताः, ते तु प्रणवयोगायोगादिभिर्वैदिकाः तान्त्रिकाः इति विभज्यन्ते । तत्र शूद्राधिकारत्वसिध्यर्थं तान्त्रिकपरिभाषा; न पुनरवैदिकतया, श्रौतस्मार्तादिभेदव्यपदेशवत् प्रमाणसिद्धत्वाविशेषात् । सर्वेषां च मन्त्राणां सद्वारकमद्वारकं च परमात्मैव प्रतिपाद्यः फलप्रदश्च । सद्वारकेषु तावत् विनियोगभेदाद् बहुधाब्रह्मणि पर्यवसानम् ।
तत्तद्देवशरीरत्वात् तत्तदंशतया स्थितेः ।
ऐन्द्य्रादिन्यायतश्चैषां सर्वेषामीश्वरे स्थितिः ॥