10 वेदापौरुषेयत्वम्

मूलम् - 3.2.1

द्वितीयमाह्निकम् ।
अथ पौरुषेयापौरुषेयविभाग एवानुपपन्नः, सर्वस्यापि वाक्यस्य पौरुषेयत्वे वाक्यत्वादिलिङ्गसद्भावात् - सर्वज्ञप्रणीता वेदाः, वेदत्वात्, इति व्यतिरेकिसंभवात्; “मन्त्रकृद्भ्यः” “तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः” “ऋचः सामानि जज्ञिरे । छन्दाँसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत” इत्यादिश्रवणात्, “प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते”
इत्यादिस्मृतेश्च; “अधिकृत्य कृते ग्रन्थे” इति पाणिनिस्मृतिसिद्धार्थकाठककालापकादिसमाख्याविशेषयोगात्; कादाचित्ककथाविशेषसंदृष्टेः, अनित्ययोगात्, तत्पूर्वोत्तरकालयोस्तदनन्वयापत्तेः, शब्दस्य भूतगुणस्य नश्वरत्वात्, इति चेत्, तन्न, वाक्यत्वानुमानस्य विपक्षे बाधकाभावात् ।
अकारणकार्योत्पत्तिप्रसङ्गः, इति चेन्न, कार्यत्वस्यैव साध्यमानत्वात्, अकारणत्वमात्रस्यापाद्यमानस्येष्टत्वात् ।
क्रमविशेषेणानुच्चार्यमाणानां वर्णानां कथं पदत्वं वाक्यत्वं वेति चेन्न, परकृतप्रबन्धपाठवदकर्तृभिरुच्चारणेऽपि तत्सिद्धेः ।
आदिममुच्चारणं कर्त्रभावे कथं स्यादिति चेन्न, आदिमत्त्वस्यैवासिद्धेः, दर्शनानुगुण्येन अद्यत्ववदेव सर्वदा परतन्त्रोच्चारणस्यैवाभ्युपगन्तुमुचितत्वात्, ततश्च सर्वदोच्चारयितृपुरुषापेक्षत्वेऽपि पूर्वपूर्वाधीतप्रकारस्यानुसरणादनादित्वसिद्धेः ।
अपौरुषेयत्वे घुणक्षताक्षरवदबोधकत्वेऽप्यभिप्रायविरहादर्थपरत्वं न स्यादिति चेन्न, प्रतिपन्ने निर्बाधे चार्थे प्रधाने बोधकत्वस्यैव तात्पर्यरूपत्वात्, प्राधान्यादेर्लौकिकवाक्यवदाख्यातादिस्वभावादेव सिद्धेः, अस्मदिष्टे च सेश्वरमीमांसापक्षे नित्येश्वराभिप्रायसंभवात् । स्वयमेव ह्याह - “श्रुतिः स्मृतिर्ममैवाज्ञा” इति । तथा भाष्यम् - “स्वशासनावबोधि शास्त्रमिति नित्यं श्रुत्यैव नियुङ्क्ते परः” इति । नित्यापि सा तदाज्ञा । गीतादिरपि श्रुत्यर्थोपदेशरूपतया प्रवर्तते । साक्षात्तु श्रुतिस्तदादेशः । तदनुविधानाच्च स्मृतिरपि ।
अज्ञातकर्तृकत्वे गन्धर्वभाषितादिवदाप्तकर्तृकत्वनिश्चयाभावादप्रामाण्यशङ्का स्यादिति चेन्न, दोषाभावनिश्चयादेव तन्निवृत्तेः । अनाप्तकर्तृकत्वशङ्कायां कथं दोषाभावनिश्चयः ? इति चेन्न, महाजनपरिग्रहादेवानाप्तकर्तृकशङ्कोन्मूलनात् । बाह्यागमपरिग्रहवत् किं न स्यात् ? इति चेन्न, बहुजनपरिग्रहादिमात्रस्य महाजनपरिग्रहत्वेनाविवक्षितत्वात्, तत्परिप्रहविशेषस्यैव विवक्षितत्वाच्च । तयोः को वा विशेषः ? इति चेन्न, हेतुदर्शनादर्शनाभ्यां विशेषात् । अनन्यगतिकैः स्वैररसिकैः सुखजीविकार्थिभिः कुहकवञ्चितैर्वा तत्परिग्रहः, इह तु न तथा, तद्वैपरीत्यस्य सुप्रसिद्धत्वात्, इति ॥
न्या. प. श. 21
अपि च बाह्यागमप्रतिबन्दिः किं वेदप्रामाण्यमाप्तप्रामाण्यनिबन्धनमितीच्छद्भिर्वैशेषिकादिभिरुच्यते ? उत सौगताद्यागमप्रामाण्यमिच्छद्भिः ? अथ वा परित्यक्ताशेषपारलौकिकागमैर्लोकायतिकैः ? इति । नाद्यः, ईश्वरकृतत्वेपि वेदस्यैवंविधपरिग्रहविशेषमन्तरेणाद्यतनैर्बाह्यागमेभ्यो विवेकस्याशक्यत्वात्, सर्वज्ञप्रणीतत्वाद्यभिमानस्य तदनुमानप्रक्रियायाश्च सर्वत्र दुर्वारत्वात् । न द्वितीयः, अभ्युपगतप्रामाण्ये स्वागमऽपि प्रसङ्गात् । दृष्टफलसंवादस्य विसंवादान्यथासिद्धेश्च सर्वत्र समचर्चत्वात्, अस्मदुक्तस्य निरुपाधिकपरिग्रहस्य स्वमते दुर्वचत्वात् । अत एव न तृतीयः, प्रामाण्यस्य परोक्षप्रामाण्यस्य वाक्यप्रामाण्यस्य च स्थापितत्वेन वैदिकवाक्ये ह्यौत्सर्गिके प्रामाण्ये प्राप्ते निरुपाधिकप्रेक्षावदनन्तपुरुषपरिग्रहादेवानाप्तकर्तृकत्वशङ्कोन्मूलने च वक्तृदोषशङ्कानुत्थानात्, वचसि च स्वतः काचादिवद्दोषादर्शनात् । आप्तकर्तृकत्वाभावेऽप्यौत्सर्गिकं प्रामाण्यमनपोदितम्, इति ॥
न्या. प. श. 22
अत एव हि प्रेक्षावन्तश्चोदितेषु बहुवित्तव्ययायाससाध्येषु निशङ्कं प्रवर्तन्ते, प्रतिषिद्धेषु च सुखतरेष्वपि विषसंसृष्टान्नभोजनादिवन्निवर्तन्ते । प्रयोगश्च - पारलौकिकी महाजनप्रवृत्तिः सफला, प्रेक्षावत्प्रवृत्तित्वात्, कृष्यादिप्रवृत्तिवत्; न ह्यनन्तैः प्रेक्षावद्भिरविसंवादेनाफलमनुष्ठीयते इति शङ्कितुं शक्यम् । दुःखरूफलदर्शनेन सिद्धसाधनतेति चेन्न, अनभिप्रेतोपालम्भात्, प्रवृत्तिदुःखादधिकपुरुषार्थपर्यवसानस्य सिषाधयिषितत्वात् ।
तथापि लाभपूजाख्यातिरूपदृष्टप्रयोजनेनैव सार्थतेति चेत्, तदप्यसत्, अतदुद्देशेन तेषां प्रवृत्तिदर्शनात्, तदुद्देशेन प्रवृत्तेश्च डाम्भिकत्वेन शास्त्रैस्तन्निष्ठैश्च विगर्हणात् । ये च तदुद्देशेन प्रवर्तन्ते, तेऽप्यतदुद्देशेन प्रवृत्तानामनुकुर्वाणा एव ख्यात्यादि प्राप्नुवन्ति, अन्यथा ख्यातिलाभपूजादेर्निर्निमित्तत्वप्रसङ्गात् । न हि यत्किञ्चिदनेन कृतमिति मत्वा कश्चित् कृच्छ्रसंपादितान् धनादीन् ददाति, पूजयति, गुणान्वा आरोप्य स्तौति; अपि तु कुतश्चित् प्रमाणात् सिद्धं प्रशस्ताचरणमभिमत्यैव । समरसामर्थ्यादिमूललाभजादिकमप्यन्ततोऽर्थशास्त्रादिमूलप्रशस्तप्रवृत्तिप्रसूतम् । अतः सन्मर्यादाप्रवृत्तान् दानमानादिभिरभ्यर्चयन्तोऽप्यदृष्टबुद्ध्यैव प्रवर्तन्ते ।
जनरञ्जनार्थमेव दानादि, जनो दातरि मानयितरि च रज्यते, “जनानुरागप्रभवाश्च संपदः” इति प्रसिद्धेः, इति चेन्न, प्रत्युपकाराद्यनर्हप्रव्रजिततपस्विजडान्धबधिरदीनानाथादिषु दानमानादिभिरनुरञ्जितेष्वपि तन्मूलदृष्टसंपत्प्रसङ्गाभावात्; अत एव हि नीतिनर्मसचिवेष्वेव तदर्थदानादिव्यवस्थापनम् । प्रतारणपटुभिर्वैंदिकैः प्रतारितास्तान् पूजयन्तीति चेन्न । किं ते स्वात्मानमपि प्रतारयन्ति? ये नाम समस्तभोगाविमुखा यावज्जीवमात्मानं परिक्लेशयन्ति; यैश्च पटुप्रज्ञाः सर्वे लोकाः प्रतारिताः, ते कथं लोकोत्तरप्रज्ञेन त्वया प्रतारका इत्युन्नीताः ।
अन्धपरम्पराकल्पस्तर्ह्ययमनुष्ठानप्रवाहः इति चेन्न, प्रमाणस्वरूपफलयोरबाधस्य च प्रत्यक्षत्वात् धर्मबुद्ध्यैव च निरुपाधिकपरिग्रहस्य त्वदुक्त्यैव सिद्धः । अनादिनिधनेऽस्मिन्नाम्नायमूले अनुष्ठाने प्रवहति प्रक्रियान्तरमाश्रित्य प्रतारकैरीश्वरैरर्वाचीनैश्च प्रतिच्छन्दप्रवर्तना श्रुतिस्मृतिसिद्धा युक्तिमती चेत्येषा दिक् ॥
न्या. प. श. 23
वेदानित्यत्वानुमानानां प्रतिप्रयोगाश्च - पूर्वापरकल्पाः एतद्वेदसन्दर्भपाठवन्तः, कल्पत्वात्, अद्यतनकल्पवत् । ऐश्वरं वेदप्रवर्तनमप्रच्युतप्राचीनसन्दर्भम्, आप्तकर्तृकवेदप्रवर्तनरूपत्वात्, अद्यतननिपुणोपाध्यायवेदप्रवर्तनवत्; न चाश्रयाद्यसिद्धिः, पौरुषेयत्वेऽपि प्रामाण्यमिच्छतस्तत एव तत्सिद्धेः । अप्रामाण्यमिच्छतोऽपि महाजनपरिग्रहान्यथानुपपत्त्यैव प्रामाण्यं प्रसाध्य तत एव तत्साधनात् । न चास्ति वेदप्रवर्तनस्य सारस्वतपाठेनानैकान्त्यम्, तथैव तत्प्रवाहस्य तत्तच्छाखाप्रणयनवदनादित्वात्, मन्त्रब्राह्मणादिवाक्यस्वरूपवैयाकुलीविरहाच्चेति । एवं विपक्षे बाधकाभावादेव केवलव्यतिरेक्यपि निरस्तः, अनुमानाध्याये तस्य सामान्यतो दूषितत्वाच्च । त्वन्मतेऽप्यायुर्वेदादिसपक्षसद्भावेन तस्यासाधारण्यम्; नहि तेभ्यो व्यावृत्तमपौरुषेयत्वादिलक्षणं वेदत्वं त्वयाभ्युपगम्यते । वेदशब्दप्रयोगविषयतामात्रेण तेषामपि पक्षीकारे स्वेच्छागृहीतरूपस्येश्वरस्य तत्तदवतारसंव्यवहारा वेदव्यतिरिक्ताः सन्ति सपक्षाः । न च ते त्वयापि नेष्यन्ते, वेदतया वा स्वीक्रियन्ते, गीतादिषु भगवदुक्त्यंशानां श्रीविष्णुस्मृतिप्रभृतीनां च वेदत्वानभ्युपगमात् । धर्मशास्त्रतयैव हि वैष्णवस्मृत्यादिप्रसिद्धिः । अवक्तृकसन्दर्भा वेदाः, वेदत्वात्, यः सकर्तृकसन्दर्भः, नासौ वेदः, इति प्रतिहेतुश्च सिद्धः । अप्रसिद्धविशेषणत्वादिचोद्यं त्विह न त्वया स्मर्तव्यम् । सन्दर्भः कथमवतृकः स्यादिति चेन्न, वर्णक्रमनियममात्रविशेषस्य सन्दर्भशब्देन ग्रहणात्, तस्य च प्रागुक्तनयेन यथापूर्वप्रवर्तनमात्रेणापि व्यवस्थानात् । मा भूदवीतहेतुः । वीतस्तु स्यात् विगीतं वाक्यं सर्वज्ञप्रणीतं, प्रमाणत्वे सत्यलौकिकार्थविषयवाक्यत्वात्, “न त्वेवाहं जातु नासम्” इत्यादिवाक्यवत्, इति चेन्न, वेदार्थविषयैः कल्पसूत्रकारादिवाक्यैरस्मदादिवाक्यैरेव वानैकान्त्यात् । अवीतकर्तृकत्वे सतीति विशेषयिष्यामः इति चेन्न, तथापि यथापूर्वप्रणयनमात्रेणापि तत्प्रणीतत्वसिद्धौ सिद्धसाधनात् । यथापूर्वमेव हि विश्वमीश्वरः सृजति; यथा अधीमहे - “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्” इति ।
एवं तर्हि तुल्ययोगक्षेमतया वेदवज्जगतोऽप्यकर्तृकत्वं प्रसक्तमिति चेन्न, यथापूर्वं घटादिनिर्माणे कुलालकुविन्दादेः कर्तृत्वसिद्धेः; हन्त ! वेदस्य एवं स्यादिति चेत्, हन्त ! स्यादेव । न हि कल्पान्तरवर्णव्यक्तिसमुदायमेवेदानीन्तनवेदराशिं ब्रूमः, अपि तु तादृक्क्रमयोगितामात्रम् । सर्वत्र वाक्येषु यथेष्टक्रमकल्पने पुरुषस्य स्वातन्त्र्योक्तिः, न पुनर्यथापुरोच्चारणे, इति काव्यादिष्वपि प्रसिद्धम् । यदि त्वया अयथापुरप्रणीतत्वं साध्येत, तत्र यथापुरप्रणयने कमिव दोषामालक्ष्यैवं विशेषयसि ? मन्त्रादिषु क्रमभङ्गानुपपत्तिश्च कल्पान्तरेपि तच्छक्त्यनपायादेव, तथात्वेऽपि वा यथापूर्वोच्चारणेऽपि तदनपायात्, अन्यथा कल्पनागौरवात्, इति ॥
न्या. प. श. 24
तथापि सर्गप्रलयसंभवात् संप्रदायविच्छेदे सर्ववेदोच्छेदात् पश्चादीश्वरस्तत्स्त्रष्टा स्यात् । न स्यात्, तथापि प्राचीनवेदसाक्षात्कारिणस्तस्य तत्प्रवर्तनमात्रौचित्यात्, शक्तस्यापि तज्जातीयवेदान्तरकल्पने गौरवात्, शक्तावपि सिद्धोपजीवनस्यास्मदादिषु दृष्टेः, एषामेव च मन्त्राणां कल्पान्तरेऽपि मन्त्रत्वाविरोधात् ।
एवं मन्त्रनित्यत्वे च तुल्यन्यायतया ब्राह्मणनित्यत्वस्यापि दुस्त्यजत्वात्, तद्दृष्टान्तेन वा तन्नित्यत्वसाधनात् । सारस्वतपाठादावपि मन्त्रादिस्वरूपभेदाभावस्योक्तत्वात् । “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।” “वाचा विरूप नित्यया” “पूर्वे पूर्वेभ्यो वच एतदूचुः” “अजान् ह वै पृश्नींस्तपस्यमानान् ब्रह्म स्वयंभ्वभ्यानर्षत् त ऋषयोऽभवन् तदृषीणामृषित्वम्” “अनादिनिधना ह्येषा वागुत्सृष्टा स्वयंभुवा” “व्यस्य वेदं सनातनम्” इत्यादिभिरीश्वरस्याप्यनीश्वरवद्वेदप्रवर्तनमात्रसिद्धेः कुतश्च सर्गप्रलयसिद्धिः ?
विश्वसन्ततिरत्यन्तमुच्छिद्यते, सन्ततित्वात्, प्रदीपसन्ततिवत् । विश्वसन्तानोऽयं दृश्यसन्तानहीनैः समवायिभिरारब्धः, सन्तानत्वात्, आरणेयाग्निसन्तानवत् । वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः, नित्यत्वे सति तदारम्भकत्वात्, प्रदीपपरमाणुवत् । पर्वता अपि चूर्णीभविष्यन्ति, अवयवित्वात्, घटवत् । समुद्रा अपि शोषमुपयास्यन्ति, जलाशयत्वात्, पल्वलवत् इत्याद्यनुमानतः, इति चेन्न, केषांचिन्नित्यसंसारपक्षे प्रथमस्य हेतोस्तथा तत्प्रतिपादकैरागमैरंशतो बाधः, तद्बहिष्कारे च अनैकान्तः; सर्वेषां च श्रुतिशतसिद्धैर्नित्यविभूतिनिष्ठैरीश्वरनित्यविग्रहादिभिस्तैस्तैरनेकान्तः । न च तत्पक्षीकारः, बाधासिद्ध्योरन्यतरापातात् । प्रतिप्रयोगाश्च - गणितविशेषादिसिद्धद्विपरार्धसंख्यापूर्वोत्तरकालो न लोकशून्यः, कालत्वात्, अद्यतनकालवत्, इत्यादयः स्वयमूह्याः ॥
न्या. प. श. 25
विपक्षे बाधकं न सम्यग्दृश्यते । यच्चागमानुग्रह एषां बलमित्यभिमतम्, तदागमप्रमाणत्वोपजीवनम्, तथा चागमत एव प्रलयादिसिद्धिः । ततश्चागमादेवागमनित्यत्वं सिद्धम् ।
उक्तं च प्रज्ञापरित्राणे -
“वेदतः पौरुषेयत्वशङ्का वेदेन शाम्यति । हेत्वन्तरसमुद्भूता हेत्वन्तरनिवारिता ॥” इति ।
सर्गादौ वेदपरिग्रहप्रकारश्चैवमुपपादितः -
“व्यवहारिजनाभावाद्गिरां व्युत्पत्त्यसंभवात् । वेदार्थो नैव शक्येत बोद्धुं तस्येति चेन्न तत् ॥
बहवः संभवन्त्येव शब्दार्थव्यवहारिणः । मुक्ताद्या ईशितुर्यद्वा बहुरूपपरिग्रहात् ॥
प्राच्यविज्ञानसंस्कारानुवृत्त्या वास्य वेधसः । सर्वशब्दार्थविज्ञानं सुप्तोत्थितवदुद्भवेत् ॥
न गर्भवासस्तेषां न वयोऽवस्थादयोऽपि च । सर्वविज्ञानसंपन्नाः सृष्टास्त इति वेदधीः ॥
‘यो ब्रह्मण’मिति श्रत्या सृष्ट्वा ब्रह्माणमीश्वरः । अस्मै वेदानदत्तेति प्रतीतिर्न उदेति हि ॥
शब्दार्थवेदिने वेदप्रदानं सार्थकं भवेत् । अन्यथा व्यर्थमित्यर्थापत्त्या शब्दार्थवेदिता ॥” इति ॥
न्या. प. श. 26
सूत्रकाण्डमन्त्रकृत्त्वजन्मादिवाक्यानामपि प्रथमद्रष्टृत्वस्मर्तृत्वसंप्रदायप्रवर्तनादिभिरेव निर्वाहः । इदमप्यागमानुरोधादेव सिद्धम् । “स्वयंभ्वभ्यानर्षत्” इत्यादि हि श्रूयते । प्रजापतिनियोगाच्च तदाहितमहिमानो महर्षयोऽनधीतानेव वेदभागान् पश्यन्ति । तन्नियोगश्च तत्तदृषिकत्वेनानुसन्धानादेः कर्मौपयिकत्वात् । तेषामपि प्रवाहानादित्वान्नानित्यसंयोगादिदोषः । “यद्वै किंच मनुरवदत्” इत्यादौ प्रवाहानादित्वं परैरुक्तम्; तदुपाख्यानान्तरादिष्वपि तुल्यम् । उक्तं च भगवता व्यासेन -
“युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥” इति ॥
इतिहासोऽत्र तत्तद्वृत्तान्तः । उक्तं च तेनैव धर्मशास्त्रेऽपि -
“धर्ममूलं वेदमाहुर्ग्रन्थराशिमकृत्रिमम् । तद्विदां स्मृतिशीले च साध्वाचारं मनःप्रियम् ॥” इति ।
शाखाप्रणयनं च द्वापरान्ते भाविपुरुषशक्तिपरिक्षयाद्वेदवृक्षैकदेशोद्धरणम् । एतेन समाख्या निर्व्यूढा, प्रवचनविषयत्वात् ॥
इदं च सर्वं प्रसाधितं प्रज्ञापरित्राणे -
“यादृक्प्रभावाः श्रूयन्ते ऋष्याद्या वेदराशिषु । तादृशा एव सृज्यन्ते वेदान् दृष्ट्वा स्वयंभुवा ॥
अतस्तेभ्यः पुरा वेदसत्त्वाद् वेदस्य नित्यता । अनधीत्यैव वेदानामाविर्भावयितृत्वतः ॥
तपसा प्राप्तसंस्कारात् तत्सूक्तत्वादिसंभवः । तपःप्रभावान्मत्राणामृषिदर्शनसंस्कृतेः ॥
शक्तिराधीयते काचिद्यथास्माकमधीतितः । अर्थावबोधकत्वं तु शब्दशक्त्यान्यशब्दवत् ॥
ऋषिदर्शनतोऽधीतेपरपि शक्त्यन्तरोद्भवः । अपूर्वकार्यनिष्पत्तावुपकुर्यादिदं ततः ॥
काठकादिसमाख्याया निमित्तं चेदमेव वा । प्रकृष्टं वा प्रवचनं तत्सिद्धा वेदनित्यता ॥” इति ॥
न्या. प. श. 27
वर्णानित्यत्वं क्रमानित्यता वा नाभिमतवेदनित्यत्वविरोधि । न च वर्णनित्यत्वं वेदनित्यत्वहेतुः, काव्यादिष्वपि तुल्यत्वात् । शब्दाधिकरणं चानुपयुक्तवर्णानित्यत्वपरं नानुमन्यामहे । शारीरकदेवतानधिकरणे च - “शब्द इति चेन्न, अतः प्रभवात् प्रत्यक्षानुमानाभ्याम् । अत एव च नित्यत्वम् । समाननामरूपत्वाच्च, आवृत्तावप्यविरोधो दर्शनात्, स्मृतेश्च” इति सूत्रैरिदं सर्वं समर्थितम् ॥
न्या. प. श. 28
वेदार्थसङ्गहे तु - वेदाः प्रमाणं चेत्, विध्यर्थवादमन्त्रागतं सर्वमपूर्वमर्थजातं यथावस्थितमेव बोधयन्ति । प्रामाण्यं च वेदानाम् ‘औत्पत्तिकस्तु शब्दस्यार्त्थेन संबन्धः’ इत्युक्तम्" इति मन्त्रार्थवादयोरपि याथार्थ्यं प्रक्रम्य, शब्दशक्तेरसाङ्केतिकत्वम्, तत एव शब्दानुमानविवेकः पौरुषेयापौरुषेयादिविभागादिकं च व्यक्तं प्रदर्शितम् ।
तथाहि - यथा अग्निजलादीनामौष्ण्यादिशक्तियोगः स्वाभाविकः; यथा चक्षुरादीनामिन्द्रियाणां बुद्धिजनकत्वशक्तिः स्वाभाविकी, तथा शब्दस्यापि बोधकत्वशक्तिः स्वाभाविकी । न च हस्तचेष्टादिवत् सङ्केतमूलं शब्दस्य बोधकत्वमिति वक्तुं युक्तम्, अनाद्यनुसन्धानाविच्छेदेऽपि सङ्केतयितृपुरुषाज्ञानात् । यानि सङ्केतमूलानि, तानि सर्वाणि साक्षाद्वा परम्परया वा विज्ञायन्ते । न च देवदत्तादिशब्दवत् कल्पयितुं युक्तम्; तेषु साक्षाद्वा परम्परया वा संकेतो ज्ञायते । गवादिशब्दानां तु अनाद्यनुसन्धानाविच्छेदेपि संकेताज्ञानादेव बोधकत्वशक्तिः स्वाभाविकी । अग्न्यादीनामौष्ण्यादिशक्तिवदिन्द्रियाणां बोधकत्वशक्तिवच्च शब्दस्यापि बोधकत्वशक्तिरवश्याश्रयणीया ॥
न्या. प. श. 29
ननु च इन्द्रियवच्छब्दस्यापि बोधकत्वं स्वाभाविकं चेत्, संबन्धग्रहं बोधकत्वाय किमित्यपेक्षते ?; लिङ्गवदित्युच्यते; यथा ज्ञातसंबन्धनियमं धूमादि अग्न्यादिबुद्धिजनकम्, तथा ज्ञातसंबन्धनियमः शब्दोऽप्यर्थविशेषबुद्धिजनकः । एवं तर्हि शब्दोऽप्यर्थविशेषस्य लिङ्गमित्यनुमानमेव स्यात्; मैवम्; शब्दार्थयोः संबन्धो बोध्यबोधकभाव एव । धूमादीनां तु संबन्धान्तरमिति, तस्य संबन्धस्य ज्ञापनद्वारेण बुद्धिजनकत्वमिति विशेषः । एवं गृहीतसंबन्धस्य बोधकत्वदर्शनादनाद्यनुसंधानाविच्छेदेऽपि संङ्केताज्ञानात् बोधकत्वं शक्तिरेवेति निश्चीयते ॥