09 स्वतःप्रामाण्यम्

मूलम् - 3.1.9

ननु अपौरुषेयं सर्वमन्वितार्थमिति प्रतिपादितम्, तन्नोपपद्यते, गुणवद्वक्तृप्रणीतस्यैव वाक्यस्य तथात्वदर्शनात्, इति चेन्न, स्वतः प्रामाण्यात्, स्वरसतो हि सर्वं ज्ञानमबाधितव्यवहारजनकं दृश्यते । भेदाग्रहादिविशेषोपाधिकं हि क्वचिद् बाध्यव्यवहारहेतुत्वम् । ततः स्वाभाविकमपि प्रामाण्यं प्रतिबन्धकेन दोषेण क्वचिदपह्नुतम्; यथाग्नेरौष्ण्यम् । तत्र तदंशापेक्षया प्रामाण्यमेव । गुणास्तु संभावितदोषस्थले दोषनिराकरणौपयिकाः, प्रामाण्यस्य तैर्व्याप्त्यभावात्, नित्यसर्वज्ञवादिनां प्रमाणभूते तज्ज्ञाने व्यभिचारात् । अप्रामाण्यस्य तु दोषाधीनत्वमव्यभिचरितान्वयव्यतिरेकसिद्धम् । अवस्तुनोऽप्रामाण्यस्य कथं हेतुसाध्यत्वमिति चेन्न, संशयत्वविपर्ययत्वादिरूपस्य तस्यावस्तुत्वाभावात्, भावान्तरातिरिक्तस्य चाभावस्यास्माभिरनभ्युपगमात्, अभ्युपगमेऽपि प्रध्वंसस्य मुद्गरादिसाध्यत्वदृष्टेः । तद्वत् प्रमापि सम्यङ्मिथ्याबोधसाधारणादतिरिक्तसहिता जायते, कार्यत्वे सति तद्विशेषत्वात्, अप्रमावत्; प्रामाण्यं परतो ज्ञायते, अनभ्यासदशायां सांशयिकत्वात्, अप्रामाण्यवत्, इति चेत्, तत्र प्रथमे कृत्स्नप्रमापक्षीकारे हेतोः स्वमते भागासिद्धिः, ईश्वरप्रमाया नित्यत्वाभ्युपगमात् । अनीश्वरप्रमापक्षीकारे यावदीश्वरसिद्धि व्यर्थं विशेषणम् । ईश्वरानुमानसमनन्तरं प्रयोगः इति चेन्न, तस्य शास्त्रयोन्यधिकरणन्यायेनानुमातुमशक्यत्वात् । तर्हि विशेषणं न प्रयोक्ष्यामहे इति चेन्न, स्वाभिमतेश्वरप्रमयानैकान्त्यात् । अनभ्युपगतेश्वरैः सौगतादिभिरेवं प्रयोगे कः परिहारः इति चेन्न, श्रुतिसिद्धनित्यप्रमासमर्थनेन बाधस्यानैकान्तिकस्य वा वक्तुं शक्यत्वात् । श्रुतिसिद्धनित्यप्रमाव्यवच्छेदेन कार्यत्वविशेषणं सफलं स्यात् हि चेत्, तर्हि श्रुत्या तत्सिद्धिः श्रुतिप्रामाण्यनिर्णयमन्तरेण कथं स्यात् ? । तत्प्रामाण्यं च नित्यनिर्दोषतयाभ्युपगम्यते चेत्, कथं तत्र परतः प्रामाण्येत्पत्तिः ? वक्तृगुणाधीनं वाक्यानां प्रामाण्यमिति हि वः सिद्धान्तः । निर्दोषतैव गुणः, इति तदधीनतया तत्र परतः प्रामाण्यमिति चेन्न, प्रतिबन्धकाभावस्य परैः कारणत्वानभ्युपगमात् । अभ्युपगमे च तावन्मात्राधीनत्वेऽपि वेदापौरुषेयत्वनित्यत्वादेरविरोधात्; वेदपौरुषेयत्वादिसिद्ध्यर्थं हि वः परतः प्रामाण्यसमर्थनारम्भः । तदपौरुषेयत्वादिसिद्ध्यर्थमेव चास्माभिः स्वतः प्रामाण्यं प्रतिपाद्यते । अथाप्तोक्ततया वेदप्रामाण्यादीश्वरसिद्धौ तत्प्रमाव्यवच्छेदाय विशेषणमितीष्यते, तदपि न, परतः प्रामाण्ये निर्णीते वेदस्याप्तमूलप्रामाण्यसिद्धिः, तत्सिद्धौ चेश्वरसिद्धिः, तत्प्रमाव्यवच्छेदाय विशेषणम्, सविशेषणश्चासौ हेतुः परतः प्रामाण्यं साधयेत्, इति चक्रकाश्रयप्रसङ्गात् । ईश्वरानुमानान्यथासिद्धिपरिहाराय परतः प्रामाण्यं न्यायकुसुमाञ्जलौ समर्थ्यते । तत्रैव च कार्यत्वविशेषणं प्रयुज्यते । न चासिद्धिव्यवच्छेदाय विशेषणं युक्तम्; सिद्धत्वे तु परतः प्रामाण्यसमर्थनस्य न तदर्थतेति दुस्तरता । तथापि शब्दप्रामाण्यं वक्तृगुणाधीनमिति चेन्न, विशेषकाभावात्, दोषसंभावनास्थले च तदपेक्षणात्, वेदस्य च निर्दोषत्वात् । दोषाभावाधीनत्वे परतः प्रामाण्यं सिद्धमिति चेन्न, तदधीनत्वाभावात्, तस्य विरोधनिवृत्तिमात्ररूपत्वात् । अस्तु वा तदधीनत्वम्, तथापि वेदे तु न दोषः । गुणमन्तरेण दोषाभावो न घटत इति चेत्, अनुष्णाशीतस्पर्शवदुभयनिवृत्तेरपि दर्शनात्, उपपत्तेश्च । भावान्तराभाववादिनो दोषाभावोऽपि गुण एवेति चेन्न, स्वभावान्तरेण तन्निर्वाहात् । न हि तस्यापि शीताभाव उष्ण एव, अनुष्णाशीते तदसिद्धेः । उभयसंग्रहणेन हि शीताभावत्वम् । तद्वदत्रापि सगुणेष्वाप्तवाक्येषु वक्तृगुणरहितेषु वेदवाक्येषु च दोषाभावः समानः ॥
न्या. प. श. 16
ननु शब्दानां स्वतः प्रामाण्ये बुद्धादिवाक्यमपि स्वतः प्रमाणं स्यात् । न स्यात्, स्वतस्त्वस्योत्सर्गरूपत्वात्, विरोधिविशेषे च तस्याननुप्रवेशात् । उक्तं चागमप्रामाण्ये -
“नैव शब्दे स्वतो दोषाः प्रामाण्यपरिपन्थिनः । सन्ति किन्तु स्वतस्तस्य प्रमाणत्वमिति स्थितिः ॥
वक्तुराशयदोषेण केषु चित्तदपोद्यते । अङ्गुल्यग्रे हि मातङ्गयूथमित्येवमादिषु ॥” इति ।
किञ्च, नित्ये हेतुगुणापेक्षा वेदे नास्तीशबुद्धिवत् । हेत्वभावान्न दोषश्चेद्वक्त्रभावादिहापि नः ॥
अकारणं यथा ज्ञानं प्रमात्वमधिगच्छति । अकारणं तथा वाक्यं स्वतः प्रमितिकारणम् ॥
यदि हेतुगुणाभावादप्रामाण्यं प्रसज्यते । तदेश्वरप्रमायामप्यनिवार्यमिदं तव ॥
न्या. प. श. 17
अथैव ब्रूषे - कारणगुणदोषयोरभावे तत्प्रयोज्ययोः प्रामाण्याप्रामाण्ययोर्द्वयोरप्यसंभवाद्राश्यन्तरायोगाच्च निःस्वभावत्वं वेदशब्दजन्यज्ञानानां स्यादिति; इदमपि तुल्यमीश्वरज्ञाने । हेतुनिवृत्तिस्तत्कार्यं प्रामाण्यं निवर्तयेत्, न तु नित्यमिति चेत्, अप्रामाण्यहेतुनिवृत्तिरपि तथैव । अतो विरुद्धस्वभावयोगः उभयपरित्यागान्निःस्वभावतैव वा स्यात् । एवमनीश्वरवादिनां सौगतादीनां शुद्धसंवित्सन्तानादिष्वधिपतिसहकार्यादिकारणतद्गुणादेरसंभवात् स्वारसिकस्वात्मगोचरप्रामाण्यस्य चाभ्युपगमात् समाश्चर्चाः । यद्यपि पूर्वप्रत्ययस्य कारणत्वमिष्टम्, तथापि तस्यापवर्गदशास्थस्य गुणदोषादिरूपसमस्तसंस्कारप्रत्यर्थितया न तज्जन्यस्य गुणहेतुतेति । यच्च, प्रामाण्यं परतो ज्ञायते, इति प्रयुक्तम्, तत्र ज्ञानान्तरेण ज्ञानान्तरस्वभाववेदनाभ्युपगमात् सिद्धसाधनता । परत एवेति विवक्षायामीदृशं ज्ञानं प्रमेति लक्षणतः सर्वप्रमासङ्ग्राहिणि ज्ञाने पारमेश्वरे च विज्ञाने तदसंभवः; न हि ताभ्यां स्वप्रमात्वं न गृहीतम्, लक्षणाव्याप्तिकिञ्चिज्ज्ञत्वादिप्रसङ्गात् । अतोऽन्यत्र परत एवेति नियम इति चेत्, तदपि न, तद्दृष्टान्तेनैव प्रतिप्रयोक्तुं शक्यत्वात् - विगीतं प्रामाण्यं स्वाधारेण ज्ञायते, प्रामाण्यरूपत्वात्, ईश्वरज्ञानादिप्रामाण्यवत् इति । कथं तर्हि इदं प्रमाणमप्रमाणं वेति संशयावकाशः ? इति चेन्न, विशेषतो गृह्यमाणेष्वपि संशयोत्पत्तिदर्शनात् । भवति मुहुः शुक्तिकारजतमोहादन्धीकृतधियः कलधौतेपि तथोपलभ्यमाने यथोपलम्भमिदं रजतमेव वा पूर्ववच्छुक्तिरजतं वेति पुरतः । तथात्रापि गृह्यमाणेऽपि प्रामाण्ये किमिदं प्रमाणमेव सत् प्रमाणतयोपलम्भते ? उत, बाधात् पूर्वभ्रमवदप्रमाणं सत् ? इति संशयो युक्तः । तथापि सन्देहसहेन किं स्वतोग्रहणेन ? निश्चयस्तु पराधीन एवेति चेत्, किमस्मदपेक्षया ग्रहणमग्रहणं वा नियन्तुं शक्यम् ? सिद्धो हि ग्रहणप्रकारः परीक्षकैरनुसरणीयः । सिद्धिरेव स्वतः कथमिति चेत्, इत्थम् - ज्ञानं स्वालम्बनं प्रकाशयत् स्वयमपि ज्ञानान्तरनिरपेक्षं प्रकाशते, इति तावत् सर्ववेदान्तिसम्मतम् । अस्वयंप्रकाशवादेऽपि स्वग्राहिणानुव्यवसायेन प्रकाशमानो व्यवसायस्तावदसंशयात्मैव दृश्यते ॥
न्या. प. श. 18
स्मृत्यप्रामाण्यवादेऽप्यपूर्वार्थगोचरतया स्मृतिविलक्षणश्चाविपर्ययात्मा चाबाधात्मा च, वाधादेः पूर्वं तत्प्रसङ्गाभावात् । ततश्च यद्विषयतयायं व्यवसायः प्रथमं प्रतिभातः, तद्विषयतयैव परस्परपरिक्षोदात् पश्चादपि । अतो यत् तद्विषयत्वलक्षणं प्रामाण्यं पश्चात् तेनैव व्यवस्थाप्यते, तदादावेव गृहीतमिति स्वतः प्रामाण्यग्रहः ॥
न्या. प. श. 19
नन्वेवं संशयत्वादिलक्षणमप्रामाण्यमपि स्वयंप्रकाशेनानुव्यवसायेन वा प्रथममेव ग्रहीतुं शक्यम्; तथापि विपर्ययत्वलक्षणं न तथा, गृह्यमाणवैपरीत्यस्य स्वेन स्वग्राहिणा वा प्रथममग्रहणात्, तस्मिन्नंशे च वैदिकानामविवादात्, तत्रेममंशमादायैव चान्ततः स्वतः प्रामाण्यसमर्थनप्रवृत्तेः, तत्र दोषाभावादेवादावप्रामाण्यानुत्पत्तेः । तत एव चाप्रामाण्यप्रमित्यसंभवात्, स्वत एव च प्रामाण्यप्रमितेरबाधाच्च इत्युच्यते, इति ॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ शब्दाध्याये प्रथममाह्निकम् ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥