मूलम् - 3.1.8
“सत्यं ज्ञानम्-” इत्यादिलक्षणवाक्यमपि सत्यत्वादिविशिष्टैकविषयम्, तथैव सामानाधिकरण्यव्युत्पत्तेः । न चात्र विशेषणभेदाद्विविशेष्यभेदाप्रसङ्गः, विरुद्धविशेषणाभावात्; न हि घटपटादिष्विव विरोधः । यथा च प्रत्यक्षे नीलत्वोत्पलत्वादेरविरोधो दर्शनबलात्, तथात्रापि । न च सत्यत्वज्ञानत्वादेर्वैयधिकरण्यनियमो दृष्टः, येन विरोधः स्यात् । विशेष्यैक्यपरे तु सामानाधिकरण्ये विशेषणानां विशेषणविशेष्ययोश्च मिथो भेदो गुण एव । न च विशेष्यैक्यवद्विशेषणविशेष्यैक्यप्रसक्तिः, विशेषणानामैक्यप्रसक्तिर्वा, लक्षणाविरोधादिदोषात्, अतथाव्युत्पत्तेश्च । नापि विशिष्टे विशिष्टान्तरविधानाद्विशेषणानां मिथः समवायादिदोषः, युगपदनेकविशिष्टैकाभिधानात्, अनूद्य विधानेष्वपि यथा व्युत्पत्ति धर्मप्रधानत्वाच्च ॥
न्या. प. श. 13
न च विशेषणं सर्वं विशेषणान्तरासहम्, विरोधिमात्रविरोधित्वात्, अन्यथा प्रत्यक्षविरोधात् साध्यसाधकधर्मादिविशिष्टविषयानुमानाद्यनुदयप्रसङ्गात्, एवंत्वादिदं विशिष्टबोधकं न भवतीत्यादि व्यवहारस्यापि विलोपः स्यात् । न च शब्दने प्रतिपादने तथा, अविशेषात्, प्रत्यक्षादिवच्छब्देनापि यथावस्तु बोधनीयत्वात् । विशेषणमात्रपरत्वं तु नाभ्युपगतमेव, येन विशिष्टैक्यासिद्धिः स्यात् । यस्य तु विशेष्यमात्रपरत्वं, तस्य पर्यायतुल्यत्वात् पदान्तरवैयर्थ्यलक्षणभङ्गलक्षणादिदोषः, प्रवृत्तिनिमित्तानां विशेषणानां त्यागात्, विशेष्यमात्रस्य च द्वाररहितस्यालक्ष्यत्वात् । इतरव्यावृत्तीनां तूपलक्षणत्वे स्वरूपत्वे च पदान्तरवैयर्थ्यादिदोषः स एव ॥
न्या. प. श. 14
एवं तासां विशेषणत्वे पक्षान्तरवद्विशिष्टभेदादिदोषस्त्वदुक्तआपतेत्, न चेन्नान्यत्रापि । त्यक्तप्रवृत्तिनिमित्तस्य तद्विरोधिव्यावृत्त्यभिलाषस्त्वालोकमपहाय तिमिरनिराकरणवाञ्छा । विप्रतिपन्नं वाक्यमखण्डपरम्, समानाधिकरणवाक्यत्वात्, सोयं देवदत्तः इति वाक्यवत्, यद्वा लक्षणवाक्यत्वात्, प्रकृष्टप्रकाशश्चन्द्रः इत्यादिवत् इति चेन्न, दृष्टान्तासिद्धेः, तत्तेदन्ताविशिष्टस्यैव देवदत्तस्य सोयमिति प्रतीतेः । युगपत् तयोर्व्याघात इति चेन्न, यौगपद्यस्यानभिधानात्, अनाक्षेपाच्च । युगपत् प्रतिपत्तिस्तु न दोषः, अन्यथा प्रत्यभिज्ञाभङ्गे क्षणभङ्गनैरात्म्यापलापादिवादा विजयेरन् । तथाप्यतीतत्ववर्तमानत्वे कथमेकस्य ? इति चेत्, स्वप्रध्वंसकाले हि स्वयमतीतः स्यात्, न चासौ प्रध्वस्तः, वर्तमानत्वोपलंभात्; अतीतोपाधिविशेषसंबन्धितया हि तत्त्वम्, न त्वतीततया । कथमेकं पूर्वमपरं च ? इति चेन्न, प्रतिबन्ध्युपाधिभेदेनोभयोपपत्तेः, अन्यथा क्षणस्यापि पूर्वापरमध्यवर्तिनः क्षोदप्रसङ्गात्; न हि तस्य पूर्वस्मादपि पूर्वत्वमेव, उत्तरस्मादप्युत्तरत्वमेव वा । क्षुद्यतां क्षणोपीति चेन्न, सर्वापह्नवप्रसङ्गात्, इति । तिष्ठत्त्वेतत्; द्वितीयोपि दृष्टान्तो विशिष्टपर एव, अन्यथा व्यावृत्तप्रतीत्यनुदयप्रसङ्गात्, प्रकृष्टत्वादिविशेषणवैयर्थ्याच्च । एवं श्रुतिबाधोप्यनुमानयोर्वक्तव्यः, पर्यायतुल्यत्वादिप्रसङ्गलक्षणप्रतिकूलतर्कश्च । तथा विप्रतिपन्नं वाक्यं विशिष्टपरम्, आकाङ्क्षायुक्तवाक्यत्वात्, व्यधिकरणवाक्यवत्, इति बाधकमनुमानमपि, प्रतिपत्त्यनुरोधात् दृष्टान्तसिद्धेश्चास्य बलीयस्त्वम् । भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यमिति शाब्दैरेवोक्तम् । तत्र भिन्नप्रवृत्तिनिमित्तानामिति पर्यायव्यावृत्तिः । एकस्मिन्निति व्यधिकरणानां घटः पट इत्याद्यनन्वितानां च व्यवच्छेदार्थम् । शब्दानाम् अर्थे इति च व्यक्त्यर्थमेव, अर्थे इति विशेष्यस्य प्रधानतया वाच्यत्वसूचनार्थं वा । तेन व्यधिकरणवाक्येष्वेकप्रधानार्थे
वृत्तिसंभवेपिव तस्य विशेष्यतवभावाद् व्यवच्छेद्यता । विशेष्यबोधनव्यापारो वृत्तिः प्रवृत्तिरिति च सामान्यतो विशेषतश्चात्रोच्यते । प्रकृष्टा हि वृत्तिः प्रवृत्तिः । प्रकर्षश्चात्र विशेष्यविषयतया । तत्र यदुपाधिका विशेष्ये शब्दवृत्तिः, तत् प्रवृत्तिनिमित्तम् । भिन्नविशेषणद्वारेणैकविशेष्याभिधानं सामानाधिकरण्यमित्युक्तं भवति ॥