मूलम् - 3.1.7
ननु “तत्त्वमसि” इत्यत्र त्वमिति श्वेतकेतुमात्रनिर्देशे तदसीति सामानाधिकरण्यायोगः । श्वेतकेतुशरीरकेश्वरनिर्देशे तदाभिमुख्येनोपदेशायोगः । तदुद्देशेन त्वमर्थविधानं चासिशब्दानन्वयादिना दूरनिरस्तम् । प्राप्तार्थतया निगमनरूपत्वेपिपव विशेषणविशेष्यभेदो निष्कर्षणीयः । एवम् “अहं ब्रह्मास्मि” इत्यादिव्यपदेशोपि दुर्निर्वहः । “जीवेनात्मना” इत्यत्राप्यात्मशब्देन जीवात्माद्यभिधानं षाष्यकारवचनविरुद्धम्, जीवेन मयेत्यादिव्यपदेशात् । परमात्माभिधाने तु तृतीयानुपपत्तिः, “व्याकरवाणि” इत्यभिहितत्वात् । क्रियाभेदेपि क्त्वादेरुत्तरक्रियैकरस्यात् कर्त्रन्तरायुक्तिः, समानकर्तृकत्वविरोधात् । करणत्वविवक्षया कर्तरि तृतीयायां मुख्यत्वहानिः । अतश्चारेणानुप्रविश्य परबलं संकलयानीतिवज्जीवस्यवै प्रविशतिकर्तृत्वम्; परस्तु व्याकरणमात्रकर्ता । तावता तु शब्दानां न तत्पर्यन्तत्वसिद्धिः इति ॥
न्या. प. श. 11
अत्रोच्यते संबुद्धिस्तावदत्र आत्मविद्योपदेशेन श्वेतकेतुमात्रपर्यवसितेति नासंबोध्यसंबोधनम् । वचनव्यक्तिश्च तदसीत्येव । तत्र कार्यकारणभावेन, शरीरात्मभावेन वा सामानाधिकरण्यनिर्वाहः । उभयत्र त्वंशब्दस्यापि तच्छब्दाभिहितद्रव्यपर्यवसानं सिद्धम् ॥
धर्मान्तरविशेष्यस्य धर्मान्तरविशेष्यतः ।
स्वस्मादभेदस्तादात्म्यं स्यादुपादानदेहिनोः ॥
अतस्त्वच्छरीरकं ब्रह्मेति विवक्षायां सत्यां त्वं तदिति निर्देशमात्रमुपपन्नम् । मध्यमपुरुषश्च त्वंशब्दप्रयोगनिबन्धनः, “युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः” इति विधानात् । अतः सोपि त्वंशब्दपर्यवसानविषयपर्यवसितः । यद्वा तत् त्वमसीत्येवान्वयोस्तु । न चोद्देश्यानुगुणा तिङ्विभक्तिरिति नियमः, उपादेयानुगुणलिङ्गवचनादिनिर्देशवदत्रापि विरोधाभावात् । प्रयुञ्जते च पतञ्जलिप्रभृतय उपादेयानुगुणामपि तिङ्विभक्तिम्- “स पुनरावृत्तः सुवर्णपिण्डः खदिराङ्गारसवर्णे कुण्डले भवतः” इत्यादिषु । एतेन “अहं ब्रह्मास्मि” इत्यादिकमपि निर्व्यूढम् । “जीवेनात्माना” इत्यत्राप्यनेन न्यायेन स्वशब्दपर्यायेणात्मशब्देन जीवशब्दस्य सामानाधिकरण्यं तावत् सिद्धम् । तृतीयानुपपत्तिस्तु स्वरूपतादात्म्यपक्षे पृथक्त्वपक्षे च समाना । अथांशभेदादिना विभज्य करणत्वादिविवक्षया कथंचिन्निर्वाहः, तथा विशिष्टाकारादिभेदविवक्षया विभज्यात्रापि निर्वाहमनुमन्येथाः ।
अतः श्रुत्यादिवाक्येषु विरुद्धार्थानुबन्धिनः ।
सामानाधिकरण्यस्य न स्वरूपैक्यनिष्ठता ॥
कार्यत्वादपृथक््सिद्धेराविशादनुकारतः ।
अस्तिसृष्ट्युपकारादेः सामानाधिकरण्यधीः ॥
न च त्वद्दृष्टः पुरुषः स्थाणुरितिवत् “पुरुष एवेदं सर्वम्” “तत्त्वमसि” इत्यादौ बाधार्थं सामानाधिकरण्यमिति वाच्यम्, मुख्यवृत्तिसंभवे तदयोगात्, प्रपञ्चसत्यत्वादेश्चाबाधितप्रत्यक्षादिबलसिद्धत्वात् । चिदंशसामानाधिकरण्यं तु न बाधसहम्, त्वयापि तत्सत्यत्वाभ्युपगमात् । स्वरूपैक्यविधाने च विरुद्धधर्मप्रतिरोधात्, तत्परित्यागे पदयोरनतिरिक्तार्थतया पर्यायपदसामानाधिकरण्यप्रसङ्गात्, द्वाराभावेन मुख्यवृत्तिबाधापत्तेः, गत्यन्तरे च संभवति तदयोगात्, स्वरूपमात्रनिर्देशे च पदान्तरवैयर्थ्यात्, स्वरूपभेदस्य च बहुप्रमाणसिद्धत्वात् ॥