06 अभिहितान्वयवादः

मूलम् - 3.1.6

नन्वभिहितान्वयद्योतकान्यपि वाक्यानि विद्य€न्ते । वेदार्थसंग्रहे तावत् “एवं बोधकानां पदसंघातानां संसर्गविशेष बोधनेन वाक्यशब्दाभिधेयानामुच्चारणक्रमो यत्र पुरुषबुद्धिपूर्वकः” इत्याद्युक्तम् । तथा तत्रैव “प्रकृतिप्रत्€ययरूपेण पदस्यैवानेकविशेषणगर्भत्वात्, अनेकपदार्थसंसर्गबोधकत्वाच्च वाक्यस्य” इति । भाष्येपि “शब्दस्य तु विशेषेण सविशेष एव वस्तुन्यभिधानसामर्थ्यं, पदवाक्यरूपेण प्रवृत्तेः । प्रकृतिप्रत्यययोगेन हि पदत्वम्; प्रकृतिप्रत्ययोरर्थभेदेन पदस्यैव विशिष्टार्थप्रतिपादनमवर्जनीयम् । पदभेदश्चार्थभेदनिबन्धनः । पदसंघातरूपस्य वाक्€यस्यानेकपदार्थसंसर्गाविशेषाभिधायित्वेन” इत्याद्युक्तम् । एवं व्युत्पत्तिनिरूपणे वेदार्थसंग्रहे “सिद्धवस्तुषु शब्दस्य बोधकत्वशक्तिग्रहणमत्यन्तसुकरम्” इत्युपक्रम्य, “अपवरके दण्डः स्थितः” इति वाक्ये यादृच्छिकव्युत्पत्तिप्रकारमुपपाद्य, “तथा बालः ‘तातोयम्, अन्बैषा’ इत्यादिना बुद्धिपूर्वव्युत्पादनेन तत्तत्पदानां तत्तत्पदार्थेष्वेव बोधकत्वशक्तिग्रहणमुपपाद्य, पुनरपि “अस्य शब्दस्यायमर्थ इति पूर्ववृद्धैः शिक्षितः” इत्यादि चोक्त्वा, “एवमेव सर्वपदानां स्वार्थाभिधायित्वं संघातविशेषाणां च यथावस्थितसंसर्गविशेषवाचित्वं च जानाति” इत्याद्युक्तम् ॥ भाष्येपि प्रथमसूत्रपूर्वपक्षनिराकरणे- “एवं किल लौकिकाः शब्दार्थसंबन्धमवधारयन्ति-मातापितृप्रभृतिभिः अम्बातातमातुलादीन्” इत्यादिना पदव्युत्पत्तिः पूर्वमुपपादिता । तत्र च “तेषु तेष्वर्थेषु तेषां शब्दानां प्रयोगो बोधकत्€वनिबन्धनः इति निश्चिन्वन्ति” इत्याद्युक्तम् । पुनश्च “व्युत्पन्नेतरशब्देष्वस्य शब्दस्यायमर्थः इति पूर्ववृद्धैः शिक्षिताः” इत्यादि । यदिनामान्विताभिधानमभिमतं; तदा कथमिव पदमात्रे व्युत्पत्तिः स्यात् । यदि च सा स्यात्, कथमन्वितमभिधेयम्, व्युत्पत्तिवैपरीत्यप्रसङ्गात् ।
तस्मान्नान्विताभिधानमेव सिद्धान्त इति निर्णेतुं शक्यम्, इति केचित् ॥
न्या. प. श. 6
अन्ये तु “बोधकानाम्” इत्यादिवाक्यमन्विते संसर्गविशेषसि€द्धेरुपपद्यते । पदवाक्यभेदाभिधानमपि तत्तद्विशेषवैशिष्ट्यप्रदर्शनमात्रार्थं, पराभ्युपगमद्योतनार्थं वा । प्रत्येकपदव्युत्पत्त्यभिधानमप्यन्वितार्थबोधनोपयुक्तासाधारणद्वारप्रकाशनमात्रम् । पदार्थं स्मारयित्वैव हि पदानि वक्यार्थं बोधयन्तीत्युक्तन् । स्मृतेश्च स्वानुभूतिमूलत्वान्न शक्त्यन्तरकॢप्तिः । व्याख्यातं च भाष्यादिकमन्वितपरतया विवरणे श्रीराममिश्रैः । तथा षडर्थसंक्षेपेपि- “शब्दश्च स्वतः शक्यमन्विततया बोधयति, असंभ्घवेर्थान्तरम्, इति हि व्युत्पत्तिः-” इत्याद्युक्तम् । अतोन्विताभिधानं सिद्धान्तः इति । एवमन्विताभिधानसामर्थ्याद्विशिष्टप्रतिपत्त्यन्यथानुपपत्तेश्च पदानामपि विशिष्टाभिधायित्वं सिद्धम् ॥
न्या. प. श. 7
अत एव विशिष्टार्थाभिधायित्वेपि विशेषणमत्रे शक्तिः इत्यपि निरस्तम्; अभिधायित्वातिरिक्तशक्त्यन्तराभावात् । अपर्यवसानवचनमपि विशिष्टबोधनशक्तस्य विशेषणमात्रे स्थातुमशक्तत्वात् । विशिष्टानुप्रविष्टं हि विशेषणं परेपरञ्जकवेषमेवेति तादृगाकारो विशेष्यग्रहणमन्तरेण दुर्ग्रहः । तावता च तदर्थं विशेष्यग्रहणमिति व्यर्थं वचः । यथाप्रतीति व्यवस्थापनस्यैव युक्तत्वात् ॥
किं च-
गवादिशब्दाभिहितगोत्वाद्यर्थस्वभावतः ।
व्यक्तिधीर्यदि तद्वत् स्यात् निष्कर्षकपदेष्वपि ।
गवादिशब्दा जात्यादीन् परतन्त्रान् प्रचक्षते ।
तेनाश्रयप्रतीतिश्चेत् तन्नः सिद्धः समीहितम् ।
परं कथमविज्ञाप्य पारतन्त्र्यस्य बोधनम् ।
विज्ञाप्य यदि शब्दस्€य तत्र शक्तिर्न किं भवेत् ।
परस्य परतन्त्रेण तथा बुद्धेन बोधनम् ।
तद्बुद्ध्या परतन्त्रस्य बोधनेन्योन्यसंश्रयः ।
परधीनिरपेक्षं चेत् पारतन्त्र्यं प्रतीयते ।
न तेन परबुद्धिः स्यान्निष्कृष्टप्रतिपत्तिवत् ।
पारतन्त्र्यं स्वरूपं चेत् तुल्यं निष्कर्षकेपि तत् ।
अधिकं धर्मिनिष्ठत्वादन्यन्नोपलभामहे ।
पदान्तरपरामर्शनिरपेक्षप्रतीतिके ।
निरूढलक्षणावादाः पर्यायावृत्तिगोचराः ।
व्यक्तेर्गौरित्यनिष्कर्षान्निष्कर्षे त्वाद्यपेक्षणात् ।
निष्कर्षकेष्वदृष्टेश्च न जात्या व्यक्तिलक्षणा ।
आकृतावेव यः शक्तिं शब्दानामभिमन्यते ।
सत्तायामेव किं तेन सर्वेषां नाभ्युपेयते ।
अतो गवादिशब्देभ्यो विशिष्टविषया मतिः ।
शब्दशक्तिप्रसूतेति बलादभ्युपगम्यताम् ॥
न्या. प. श. 8
यत्तु “न लोकव्€युत्पत्तिहनिः, तत्रैव शक्तेः” इति षडर्थसंक्षेपे श्रीराममिश्रैरुक्तम्, तदपि तत्र शक्त्यभावप्रतिक्षेपपरम् । असमाप्तधीस्तु वेदान्ताश्रुतेर्भ्रमः । आपातव्युत्पत्त्या श्रुतेस्तत्पूर्तिरित्यनन्तरमभिधानात् । यच्चात्मसिद्धौ “यथा गवादिपदशक्तिरेकबुद्धिसिद्धेपि सामान्यविशेषात्मके वस्तुनि सामान्यांशेन संबध्यते” इति । तदपि पराभ्युपगतोदाहरण्€ामन्यार्थम् । यथेति परसंप्रतिपन्ननिदर्शनात् ।
गुणवाचिन्यपि पदे जातिशब्दोक्तनीतितः ।
अपृथक्सिद्धवाचित्वान्न युक्ता गुणिलक्षणा ।
स्वरलिङ्गविशेषोत्थमन्त्रलोपे न संस्क्रिया ।
विशिष्टवाचकत्वं तु तदाथत्तं न मन्महे ॥
न्या. प. श. 9
अतो निष्कर्षकशब्दातिरिक्तानामपृथक्सिद्धविशेषणवाचिनां विशेष्यपर्यवसानव्युत्पत्तेः शरीरवाचिनां देवादिशब्दानामपि यथाप्रयोगं शरीरिपर्यवसानं सिद्धम् ।
अत एवचात्मपृथिव्यादिशब्दानामीश्वरपर्यन्तता । तेन “सर्वंस्वत्विदं ब्रह्म” “ज्योतींषि €विष्णुः” “अयमात्माब्रह्य” “तत््त्वमसि” इत्€यादिसामानाधिकरण्यं तत्तत्प्रकारकब्रह्मपरम् । नामरूपव्याकरणं च तदनुप्रवेशात् ।
अत एव च तस्य सर्वशब्दवाच्यत्वमपि श्रूयतेl; तदेव च व्यज्यते “तदनुप्रविश्य सच्च त्यच्चाभवत्” इति । स्मर्यते च- “सर्वं समाप्नोषि ततोसि सर्वः” इति । सूत्रितं च- “चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्” इति । उक्तं च वरदविष्णुमिश्रैः- “स्वर्गकामशब्देन काम्यमानस्वर्गः पुरुषोभिधीयते । न हीश्वरोवाप्तसमस्तकामः स्वर्गं कामयते, तस्यात्यल्पसुखत्वात् । अतो वाच्यैकदेशे जीवे लक्षणा, गङ्गाशब्दस्य तीर इव” इति । यद्वा स्वर्गकामादिशब्दानामपि जीवादिमात्रेपि मुख्यत्वमेव, प्रवृत्तिनिमित्तापरित्यागात् । अत एव हि भाक्तपदस्य भक्त्या व्यपदेशार्थत्वमपि भाष्यकारैरुक्तम् । विशिष्टवेषस्य शक्तिविषयत्वात् तत्त्योगे कथं न लक्षणेति चेत्, अपरित्यक्तप्रवृत्तिनिमित्तस्य व्युत्पत्त्यनुप्रविष्टमात्रबोधनं मुख्यता, तदभावकृत उपचार इति व्यवस्थानात् ॥