05 अन्विताभिधानवादः

मूलम् - 3.1.5

एताः सर्वा अपि वृत्तयः अन्विताभिधानवृत्त्यन्तर्भूताः । पृथक्पदानां स्मारकत्वमेव । अभिहितान्वये हि पदानां पदार्थे पदार्थानां वाक्यार्थे पदानां च तत्रेति शक्तित्रयकल्पनागारैवं स्यात्, वाक्यार्थस्याशाब्दत्वप्रसङ्गो वा । पदार्थे लक्षणसमाप्तेः प्रमाणप्रसङ्गश्च । नचान्विताभिधानेऽन्योन्याश्रयणम्, मिथः स्मरणमात्रोपजीवनात् ।
यथाहुः - “पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् । न्यायसंपादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ॥” इति ॥
नापि पौनरुक्त्यादिदोषः; तत्तदंशप्रतिनियतशक्तित्वात् । नापि वाक्यभेदः, एकप्रधानतया स्वार्थाभिधानात् ।
“पदार्थ एव वाक्यार्थः संसृष्टो ह्यभिधीयते” इत्युक्तम् । तथा “नाना शब्दादिभेदात्” इत्याधिकरणे “यद्यपि ‘वेद’ ‘उपासीत’ इत्यादयः शब्दाः प्रत्ययावृत्त्यभिधायिनः, प्रत्ययाश्च ब्रह्मैकविषयाः; तथापि तत्तत्प्रकरणोदितजगदेककारणत्वापहतपाप्मत्वादिविशेषणविशिष्टब्रह्मविषयप्रत्ययावृत्त्यवबोधिनः प्रत्ययावृत्तिरूपा विद्या भिन्दन्ति” इति । वेदार्थसंग्रहेपि - “शोधकेष्वपि ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘आनन्दो ब्रह्म’ इत्यादिषु सामानाधिकरण्यव्युत्पत्तिसिद्धानेकगुणविशिष्टैकार्थाभिधानमविरुद्धमिति सर्वविशिष्टं ब्रह्मैवाभिधीयते” इति । अत्रैव पूर्वभागे “समभिव्याहृतपदान्तरवाच्यान्वययोग्यमेवेतरपदप्रतिपाद्यमित्यन्विताभिधायिपदसंघातरूपवाक्यश्रवणसमनन्तरमेव प्रतीयते । तच्च स्वर्गसाधनत्वरूपम् । अतः क्रियावदनन्यार्थता विरोधादेव परित्यक्ता” इति । एषां स्वारस्यमन्विताभिधाने । न चात्र पराभ्युपगमेनोक्तमिति ज्ञापकमस्ति । वरदविष्णुमिश्रैरपि “सत्यज्ञानादिपदानामखण्डैकरसार्थत्वे अन्विताभिधानानुपपत्तेश्च” इत्यादिषु बहुषु प्रदेशेषु अन्विताभिधानमेव मायावादिनं प्रत्युक्तम् । उक्तं चागमप्रामाण्ये -
“अन्यान्विताभिधानेऽपि व्यवहारोपपत्तितः । अवश्याश्रयणीयेयमन्वितार्थाभिधायिता ॥” इत्यारभ्य,
“तस्मादाकाङ्क्षितासन्नयोग्यार्थान्तरसङ्गते । स्वार्थे पदानां व्युत्पत्तिरास्थेया सर्ववादिभिः ॥” इति । तत्त्वरत्नाकरेऽपि -
“अवश्याश्रयणीयेयमन्वितार्थाभिधायिता । इत्याहुर्यामुनाचार्याः पदैरेवान्विताभिधाम् ।” इत्यारभ्य प्रपञ्चेनोपपाद्योपसंहृतम् -
“षड्भिः प्रतीतिप्रमुखोपपत्तिभिर्निर्धूतचोद्याभिरिहान्विताभिधा । सिद्धा पदैर्नाभिहितान्वयस्थितिर्विपर्ययादित्यखिलं समञ्जसम् ॥” इति ॥
प्रज्ञापरित्राणन्यायसुदर्शनयोश्च बहुश उक्तम् - “अन्वितार्थाभिधायित्वं शब्दशक्तिनिबन्धनम् । व्युत्पत्त्यवगतं पुंधीदोषतोऽस्य विपर्ययः ॥” इत्यादिना ॥