मूलम् - 3.1.4
वृत्तिर्द्विधा - अभिधोपचारभेदात् । व्युत्पत्तिसिद्धार्थ एव वृत्तिरभिधा । यथा सिंहशब्दस्य मृगेन्द्रे । सा जातिगुणादिविषयभेदाद् योगरूढितत्समुच्चयभेदाच्च बहुविधा । मुख्यार्थबाधे सति तदासन्ने वृत्तिरुपचारः । आसत्तिश्च द्विविधा - मुख्यार्थसंबन्धस्तद्गुणसंबन्धश्चेति । तत्र पूर्वेण प्रवृत्तिर्लक्षणा, यथा - गङ्गायां घोषः प्रतिवसतीत्यत्र गङ्गाशब्दस्य प्रवाहविशेषरूपवाच्यसंबन्धिनि तीरे । एवं लक्षितलक्षणा ग्राह्या । द्वितीयेन प्रवृत्तिर्गौणी । यथा सिंहो देवदत्त इत्यत्र सिंहशब्दस्य शौर्यादिगुणण्योगिनि देवदत्ते । तत्त्वरत्नाकरे त्वेवमुक्तम् -
“अभिधानाभिधेयत्वमतः शब्दार्थयोः स्थितम् । संबन्धोऽत्राभिधा द्वेधा बोध्या मुख्यजघन्यतः ॥
अभिधार्थावगत्यात्मा शब्दं व्यापारयिष्यतः । शब्दशक्तिनिमित्ता सा स्वार्थे मुख्याभिधीयते ॥
स्वार्थाभिधानद्वारा स्याज्जघन्यार्थान्तरे मता ।” इति ॥ तद्विस्तरस्तत्रैव द्गष्टव्यः ॥
न च गौणलाक्षणिकप्रयोगयोरवाच्यविषयत्वादवाच्यत्वम् । संबन्धसादृश्यमात्रप्रवृत्तेऽप्यनादित्वात् । तत एव विवक्षितस्थले यथौचित्यं प्रयोगोपपत्तेः ।