मूलम् - 3.1.3
वाक्यं द्विधा - पौरुषेयापौरुषेयभेदात् । पुरुषस्वातन्त्र्याधीनरचनाविशेषविशिष्टं पौरुषेयम् । तद्द्विधा, अन्वितार्थमनन्वितार्थं च, आद्यं यथा - अग्निरुष्णः, आपो द्रवाः, इति । द्वितीयं यथा - अग्निरनुष्णः, आपः कठिनाः, इति ॥
न्या. प. श. 4
अत्रैकदेशिनो वदन्ति - अनन्वयाग्रहादन्वितव्यवहारः क्वचिज्जायत इति । अत एव लौकिकवाक्ये दृष्टव्यभिचारस्य न झटिति वाक्याद्वाक्यार्थाध्यवसायः; योग्यताविमर्शसाकाङ्क्षत्वात् । सामान्ययोग्यताग्रहणेपि व्यक्तियोग्यतायाः वक्तृज्ञानानुमानमन्तेरणासिद्धेः - इति प्रमेयसंग्रहादिषु समर्थितम् । तथा - सन्मात्रग्राहिप्रत्यक्षनिराकरणाय शास्त्रस्यानुवादकत्वप्रसङ्गे विवरणकारैरुक्तम् - “अबुद्धबोधनस्वरसस्य शब्दस्यातथात्वं दोष इत्यभिसन्धिः । अथवा अनुवादकत्वमेव स्यात् । न हि मानान्तरप्रतीतेऽर्थे शब्दः प्रमाणम् । तथैव हि तस्य व्युत्पत्तिः” इत्युक्त्वा “नन्वनुवादकतयैव व्युत्पत्तिः पुंवाक्येषु” इत्यादिना वक्तृज्ञानानुमानमुपपाद्य “सत्यम्, दैवात् तदनुवादकत्वमिति नाबुद्धबोधनस्वारस्यभङ्गप्रसङ्गः, यथा स्मृत्यनुमितवेदस्यानुवादकत्वेऽप्यर्थादिति न मानताभङ्गः” इत्यादि उक्तं च प्रज्ञापरित्राणे -
“पौरुषेयगिरः शङ्काग्रस्ता न सहसा मितिम् । जनयन्ति न यावत् तन्मूलमानानवग्रहः ॥
अनुमाय च वक्तुस्तन्मूलयोग्यप्रमान्तरम् । तदुक्तवाक्यलिङ्गेन वाक्यार्थमनुजानते ॥
अन्वितार्थाभिधानाय योग्यं वाक्यमिदं सदा । असौ च नानृतं वक्ति संज्ञात्वाऽर्थं तदब्रवीत् ॥
वक्तृज्ञानानुमानेन ज्ञाताज्ञातस्ववाक्यतः । अन्वितार्थाभिधायित्वयोग्यतामात्रधीर्गिराम् ॥
परामर्श इति प्राप्तो नार्थसंसर्गगोचरः । मानान्तराविरोधित्वं योग्यतेत्यभिधीयते ॥
नन्वेवं लौकिकं वाक्यं लिङ्गं चेल्लिङ्गवत् ततः । शब्दो गृहीतसंबन्धात् तद्वदस्यापि लिङ्गता ॥
व्युत्पत्तिकाले व्युत्पित्सोर्लिङ्गधीर्नास्त्यसंशयात् । यथाव्युत्पत्तिशब्दास्तु बोधका इति चेदतः ॥
स्वत एवार्थबोधः स्यादिति नैवास्य लिङ्गता ॥” इत्यादि ।
भगवद्यामुनमुनिभिस्तु आगमप्रमाण्ये वक्तृज्ञानानुमानं दूषितम् । निगमितं च ।
“तस्मादस्ति नदीतीरे फलमित्येवमादिषु । या सिद्धविषया बुद्धिः सा शब्दी नानुमानुकी” इति । अयमेव पक्षोऽनुसृतो वरदविष्णुमिश्रैः । तत्त्वरत्नाकरेऽप्यागमप्रामाण्यग्रन्थोपादानपूर्वकं प्रपञ्चितमेतत् ।
अपौरुषेयं तु सर्वमन्वितार्थमेव । किंतु आदित्यो यूपः इत्यादिषूपचारतो निर्वाहः । आकाङ्क्षासत्तियोग्यतावन्ति हि पदान्यन्वितमभिदधति, अन्वये वा विश्राम्यन्ति । आदित्ययूपपदयोः प्रत्यक्षसिद्धस्वार्थभेदयोरयोग्यतया मुख्यवृत्तिपरित्यागः ॥