02 शाब्दस्य प्रत्यक्षाद्यतिरिक्तत्वम्

मूलम् - 3.1.2

अनाप्तानुक्तवाक्यजनितं तदर्थविज्ञानं तत् प्रमाणम्; कारणदोषबाधकादर्शनात् । नचानाप्तोक्तवाक्यं प्रमाणं, कारणदोषबाधकदर्शनात्, न च वाक्यत्वादिभिर्बाधः; स्ववचनविरोधात् । यदि बाधकोपन्यासवाक्यमयथार्थं, तदा कथं बाधः । अथ यथार्थम्, तस्यापि पक्षीकारे तद्बाधः । बहिष्कारे तेनैवानैकान्त्यम् । न चातिप्रसङ्गः; भ्रान्तादिवाक्यानां दोषमूलत्वस्य दुरपह्नवत्वात् । अत्र तु तदभावात् । उत्स्वप्नायितघुणक्षताक्षरादीनां तु विशिष्टतात्पर्यविरहेण बोधकत्वेऽप्यनाश्वसनीयत्वात्, व्यभिचारदर्शनाच्च । नित्येऽपि वेदे नित्येश्वरशासनात्मनि तत्तदर्थतात्पर्यानपायात् । तस्य चात्राभावात्, क्वाचित्कदोषदर्शनस्य च प्रत्यक्षादावपि समत्वात्, स्वतः परतो वा प्रामाण्ये च ततो विशेषाभावात् ॥
न्या. प. श. 2
तच्च वेद्यांशे प्रत्यक्षातिरिक्तम्, असाक्षात्कारित्वात्, अनुमानवत् । अनुमानातिरिक्तं, पक्षलिङ्गपरामर्शाद्यदृष्टेः, पदवाक्यतत्संबन्धादीनां च विशिष्टवाक्यार्थं प्रत्यसिद्धव्याप्तिकत्वेनालिङ्गत्वात्, दृष्टान्ताभ्युपगमे सर्वत्राविशेषात्, व्युत्पत्तौ च स्वतन्त्रतयैव बोधकत्वसिद्धेः । अत एव वक्तृज्ञानानुमानाभ्युपगमेऽपि शब्दप्रामाण्यं सिद्धम् । आगमिकबुद्धिरनुमा, प्रत्यक्षेतरप्रमितित्वात्, संप्रतिपन्नवदिति चेन्न, उक्तोत्तरत्वात् । अन्यथा शब्दरसगन्धादिबुद्धिरनुमा, अचाक्षुषप्रमितित्वात्, संप्रतिपन्नवत्, इत्यपि प्रसङ्गात् । “प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । दृष्टानुमानागमजम्” इति मन्वादिमहर्षिसंमतेश्च शब्दानुमानयोर्भेदो दृश्यते । न चात्र गोबलीवर्दनयः; अन्तर्भावादर्शनात् । आगमोऽनुमानं, संबन्धग्रहणे सत्येव बोधकत्वादिति चेन्न; बोध्यबोधकभावातिरिक्तसंबन्धग्रहणापेक्षिण्यनुमानत्वनियमात् । न चात्र तदतिरिक्तः संबन्धः, यद्ग्रहणं नियमेनापेक्ष्येत । अन्यथा संबन्धसापेक्षतया तयोः प्रत्यक्षत्वस्यापि सुसाधत्वादिति ॥ न च स्मृतिः; अपूर्वविषयत्वात् ।
पदसंदोहविशेषो वाक्यम् । प्रामाणिकपदव्यवहारविषयः पदम् । तस्य सुप्तिङन्तत्वादिकल्पनयापि व्यक्तिः क्रियते । अत एव ह्यन्यथान्यथा प्रकृतिप्रत्ययादिकं व्याकरणान्तरेषु कल्प्यते । तच्च न सांकेतिकम्; संकेतयितृपुरुषासंभवात् । अत एव न भाषान्तरवत् तत्कॢप्तिः, नित्यवेदगतत्वाच्च । यानि वैदिकानि पदानि तान्येव लौकिकानीति “वेदशब्देभ्य एवादौ” इत्यादिवचनादपि सिद्धम् । भाषाच्छन्दसोस्तु कतिपयशब्दानां लक्षणभेदस्तत्तदानुपूर्वीप्रतिनियमापेक्षः ।
भाषाप्रयुक्तः सर्वोपि वेदे क्वापि प्रयोगवान् । वेदैकनियतः शब्दो नान्यत्रेति व्यवस्थितिः ॥
उक्तं चैतद्वेदार्थसंग्रहेपि - “वैदिका एव सर्वे वाचकाः शब्दाश्च -” इत्यादिना ॥