मूलम् - 2.4.15
प्रत्यक्षाद्याभासपवनिरूपणेनैव स्मृत्याभासाश्च निरूपिताः, तत्सम्यक्त्वतदभावानुविधानात् स्मृतिसम्यक्त्वतदभावयोः; अथापि स्मृतिप्रामाण्यमिच्छन् कश्चित् प्रतिज्ञातेर्थे यदि भ्रान्तितूलां स्मृतिं प्रमाणतया पुरस्कुर्यात्; तदा तदाभासत्वमुद्भाव्यम् । न हि स्मृतिरत्र प्रमाणमित्युक्ते न तन्मूलं प्रमाणमिति साक्षादुत्तरं स्यात् । न च स्मृतिरित्येवाप्रामाण्यं वक्तुं शक्यम्; तद्याथाम्यस्य वक्ष्यमाणत्वात् । अतः पुरस्कृतस्य स्मृतिविशेष्ास्याप्रामाण्ये प्रथममुद्भाविते तत्समर्थनकक्ष्यायां मूलानुभवसम्यक्त्वादिविचारावतारः इति युक्तः पन्थाः ॥
न्या. प. अ. 111
तत्र प्रत्यक्षाभासमूलस्मृत्याभासो यथा-आसीत् तदा गगने गन्धर्वनगरमिति । अनुमानाभासमूलो यथा-कलधौतमिति परिगृहीतरक्षितकम्बुशकलस्य अस्ति मे तदङ्गुलीयकार्हद्रव्यम् इति । आगमाभासमूलो यथा-उपच्छन्दितस्य डिम्भस्य पयःपानेन शिखा मे वर्धिष्यते इति । एवमेव बाह्यानां कुदृष्टीनां च तत्तत्प्रबन्धकरणहेतवः स्मृत्याभासा द्रष्टव्याः । एवं तत्तत्संशयमूला स्मृतिरपि तथा तथा संशयात्मिका, तत्तज्जनकसंस्काराणां स्वमूलानुरूपस्मृतिजननशक्ततयैव हि स्वसामग्र्योत्पत्तिः । यथा-जङ्गमस्थावरबीजानां स्वतस्तत्तदनुरूपचराचारम्भकत्वम्, विनाशे प्रतिबन्धे वानारम्भः, वैगुण्ये कार्यवैगुण्यम्, सहकार्यन्तरवशाच्च जातिगुणान्तरविशिष्टकार्यारम्भः; एवं संस्कारबीजेष्वपि प्रबलसुखदुःखपापकालविप्रकर्षादिभिर्विनष्टेषु प्रतिबद्धेषु वा न तत्साध्या स्मृतिः । वैगुण्ये त्वनुभूतैकदेशविषयः स्मृतिप्रमोषः । प्रत्युत्पन्नकरणादिसहकारिसंनिधौ प्रत्यभिज्ञातदाभासाद्यारम्भकत्वमिति सांदृष्टिकमेतत् ।
ततश्च संस्काराणां स्वतः पूर्वानुभवसमानाकारस्मृतिजननस्वाभाव्यात् स्मृतिरपि संशयविपर्ययवेषैवेति स्वमूलप्रत्ययवन्नार्थव्यवस्थापिका । सापि च विचित्रार्थगोचरा काव्यादिं निर्मिमाणानामुपकुरुते । न तु वस्तुस्थितिं प्रमित्सतामिति तत्पुरस्कारे परस्य निग्राह्यतैव । अतः स्मृतिप्रामाण्यवादानुसारे भ्रान्तिमूलस्मृतीनां प्रमाणाभासाख्यनिग्रहस्थाने निवेशः । स्मृतिमात्राप्रामाण्यपक्षनिष्ठस्तु यथार्थामपि स्मृतिं पुरस्कुर्वं स्तदप्रामाण्याभ्युपगमोद्भावनेन निगृह्येतेति विशेषः । तत्प्रामाण्यवादी च यथार्थां चेत् स्मृतिं प्रस्तुते प्रमाणयेत्; तदनभ्युपगन्ता तु परस्तदाभासतां ब्रूयात्; तत्प्रामाण्याप्रामाण्यविमर्शविषयवादान्तरावतारः । एवं प्रकृतोपयुक्तेषु प्रकृतमध्ये वादान्तरावतारो गर्भाङ्कान्तरचिन्तावदविरुद्धः । तदवसानेच प्रकृतमेव पुनरनुसरीणीयम् । जल्पवितण्डयोस्तु प्रकृतविच्छेदेपि तदर्थचिन्तान्तरबलेन प्रकृतोद्भावितनिग्रहस्थानसदसद्भावसिद्धेस्तावतैव च जयपराजयव्यवस्थानान्न प्रकृतविशेषचिन्तावकाशः । अभ्युपगमनीयभेदे तु तदनुसारेण स्यादपीति । एवमनुमानतर्कप्रयोगप्रसङ्गादसत्प्रयोगादिपरिहाराय निग्रहस्थानान्तं निरूपितम् । एतदध्यायचिन्तितमेव चासाधारणं
सारं न्यायविस्तरस्येत्यत्नैव वादिभिः सातिशयश्रमैर्भाव्यमिति ॥
यस्मिन् नानुमितिः क्रमेत विविधा बोधाय बाधाय वा
यस्याशेषदृशः क्षितावनुमितिस्तन्मानताख्यातये ।
यस्मिन् पश्यति तत्त्वनिर्णयजयावत्याहितं यत्क्रुधा
नित्यैश्वर्यमहोदधिः स भगवान्निश्रेयसायास्तु नः ॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ अनुमानाध्याये
चतुर्थं प्रमाणाभासाह्निकम् ॥
अध्यायश्च समाप्तः ॥