66 आगमाभासाः

मूलम् - 2.4.14

सापराधैः पुरुषैः प्रणीतानि वाक्यान्यागमाभासाः । भ्रमविप्रलम्भप्रमादाशक्तयश्च प्रणेतॄणामपराधाः । तत्र भ्रूममूलः आगमाभासो यथा- “पतति गुरुत्वान्नित्यं पृथ्वी-” इत्यादिरार्हतादीनामुपदेशः । विप्रलम्भमूलो यथा-अयसः काञ्चनत्वादिवदाचण्डालं संस्कारविशेषवशाद् ब्राह्मणत्वादिसिद्धिरिति कापालिकादीनाम् । प्रमादमूलो यथा-व्यासङ्गादिदशाविक्षिप्तचेतसां प्रामाणिकानां स्वपक्षपरपक्षसंकराद्युपदेशः । अशक्तिमूलो यथा-तत्त्वविदामृजूनामवहितानामप्यपटुकरणत्वादिवशादक्षरादिविपर्यासवान् व्यवहारः । सोपि हि श्रोतुरर्थान्तरभ्रमादिहेतुत्वादागमाभासः । एवमधिकृतशास्त्रविरोधे अनधिकृतशास्त्रमतत्परमपि तत्परं योजयतां वाक्यमपि । क्वचिद्धि किंचिच्छास्त्रमधिकरोति । यथा-शुभाशुभकालेषु ज्योतिषं, श्रोतानुष्ठान क्रमे कल्पसूत्राणि, आचारेषु धर्मशास्त्राणि, सर्गप्रतिसर्गादिषु पुराणानि, चिदचिद्विवेकमात्रे सांख्यम्, साङ्गसमाधिस्वरूपे योगः, अधिकारिविशेषनियतानन्यभजनप्रस्थाने पञ्चरात्रं, वास्तुविभागादिषु शिल्पविद्यादयः, पथ्यापथ्यविभागादिष्वायुर्धनुर्गान्धर्ववेदादयः इ€ति । तेष्वधिकृतशास्त्रविरोधे अनधिकृतं शास्त्रमन्यपरं नेतव्यम् । तदेव तत्परं ब्रुवाणः आगमाभासेन निगृह्येत । अत एव हि सांख्यादेः क्वचिदंशे परिग्रहोऽपरिग्रहश्च ॥ न च
“सांख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा ।
आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः ॥”
इत्यादिभिः सांख्ययोगपाशुपतानामपि यथोक्ततात्पर्येण कृत्स्नप्रामाण्यं शङ्क्यम्; अत्यन्तातीन्द्रियार्थविषयतया हेतुहन्तव्यत्वमात्रनिषेधात् । न हि तादृशे विषये हेतुभिर्विधातुं निषेद्धुं वा शक्यम् । न च हेतुहन्तव्यत्वनिषेधमात्राच्छ्रुतिहन्तव्€यत्वमपि निषिद्धं स्यात्; अतुल्यबलयोर्विरोधे हीनस्य निग्रहावश्यंभावात् । पौरुषेयापौरुषेयविरोधे पौरषेयं हीयते, पौरुषेयेष्वपि परिग्रहादितारतम्यात् परस्परबलाबलव्यवस्था; परिग्रहादिसाम्येप्यैदंपर्यान्यपर्याभ्यामर्थतत्त्वव्यवस्था इति । लौकिकेष्वपि पित्रादि वाक्यं प्रमाणं कुहकादिवाक्यमप्रमाणमिति स्थिते क्वचित् क्वचिदंशे गुणदोषसंभावनया दृष्टमन्यथात्वम् । संदिग्धप्रामाण्येष्वपि वाक्€येष्वागमाभासत्वमेव, याथार्थ्येपि प्रत्ययजनकत्वाभावात्, तदर्थं हि पुरुषः प्रमाणमुपादत्ते । अन्यथा भ्रान्तविप्रलम्भकादिवाक्यानामपि यादृच्छिकार्थसंभावनया प्रामाण्यप्रसङ्गः । न च तथा लौकिकाः परीक्षका वा प्रतियन्ति ।
अतो ये नाम बाह्यानां व्याहाराः कुदृशामपि ।
न ते दृष्टेष्वदृष्टेष्वप्यर्थेष्वादरगोचराः ॥
दृष्टे किमुपदेशेन किमदृष्टे तदुक्तिभिः ।
न खल्वतीन्द्रिनये वस्तुयस्ति पुंसां स्वतन्त्रता ॥
प्रत्यक्षादेरसाध्येषु वेदवेद्येषु वस्तुषु ।
किमन्यैः सति सूर्ये कः खद्योतमनुधावति ॥
“या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥ "
इति मन्वादयश्चाहुरध्यक्षितपरावराः ।
येषां यदृच्छावादोपि श्रूयते विश्वभेषजम् ॥
“मन्वर्थविपरीता च या स्मृतिः सा न शस्यते ।”
इति स्मर्तृभिरेवोक्तमतश्चिन्त्यं बलाबलम् ॥
“सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोज्ञानमेव च॥”
इति स्वयं भगवता गुणकार्यमगीयत् ।
अतः सत्त्वोत्तरादेशसंनिधावन्यधापनम् ॥
इतिहासपुराणेष्वप्यन्योन्यपरिपन्थिषु ।
स्वमूलगुणभेदेन बालबलविनिश्चयः ॥
मात्स्यादिषु पुराणेषु परस्परविरोधिनाम् ।
पुराणानां विभागो हि तत्परोक्त्€यैव साधितः ॥
“यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा ।
तस्वय तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते ॥
अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते ।
राजसेषु तु महात्म्यम€धिकं ब्रह्मणो विदुः ॥
सात्त्विकेष्वध कल्पेषु माहात्म्यमधिकं हरेः ।
तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् ॥
संकीर्णेषु सरस्वत्या इन्द्रस्ये” त्याद्यनुक्रमात् ।
द्रष्टव्यमेतदखिलं स्पष्टं पुरुषनिर्णये ॥
वेदार्थसंग्रहे चैव भाष्यकारैः प्रदर्शितम् ।
न च प्रजापशुपतिप्रभृतेर्नास्ति विभ्रमः ॥
मेधाविभ्रंशतत्सिद्ध्योरेषां व्यासेन साधनात् ।
“त्वं हि रुद्र महाबाहो मोहशास्त्राणि कारय ॥
अल्पायासं दर्शयित्वा फलं शीघ्रं प्रदर्शय ।
अहं मोहं करिष्यामि यो जनं मोहयिष्यति ॥”
इत्थं भगवदादेशाद्युक्ता चैषां प्रतारणा ।
“अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥”
इत्यादिभिः स्यादेतेषां प्रमादाशक्तिसंभवः ।
अतः प्रत्यक्षवेदादेः सत्परिग्रहशालिनः ।
विरुद्धमीश्वरवचोप्यागमाभास एव नः ॥