मूलम् - 2.4.13
प्रमाणसिद्धप्रवाहप्रसक्तिस्त्वनवस्थाभासः । यथा-यदि सामग्र्या अपि सामग्री स्यात्, तस्या अपि सामग्र्यन्तरेण भवितव्यम्, एवमुपर्युपरीति । न ह्यनादिसामग्रीप्रवाहाभ्युपगमे कश्चित् प्रमाणविरोधः, उत्तरोत्तरासिद्धिर्वा, येन सिद्धानवस्थापि दूषणमिष्येत । एवं विभुद्रव्येषूपाधिभिरवचिछद्यमानेष्वायामविस्तारघनभागान्तरपरम्पराभ्युपगमेपि न तद्द्रव्यस्वरूपस्य सिद्धानां वा भागानां काचित् क्षतिः, येन सर्वं परिमितस्वभावमपरिमितमङ्गीक्रियेत; अन्यथा परिमितभागप्रदेशान्तरपरम्परानुसारेणाप्यनवस्था दुस्त्यजा, कस्य चिदपि स्वाभावविशिष्टप्रदेशान्तराभावे विभुत्वप्रसङ्गात् । एवं दृष्टान्तहेतुपक्षादिषु तज्जातीयान्तरापेक्षानियममिच्छतोनवस्था । अनिच्छतस्तत्प्रसङ्गे तदाभासो ग्राह्यः । आत्माश्रयादीनामेषां चतुर्णां साध्यस्य सिद्धवत्कारप्रतिपादनमुखेनदूषणत्वम्, केवलानिष्टप्रसङ्गे तु पूर्वप्रदर्शिते व्यापकानुपलब्धिविरोधेनेति । एतेषामेव प्रकारभेदात् प्रतिबन्दिसमचर्चोभयतः– स्पाशादयः प्रसङ्गभेदा द्रष्टव्याः ॥
न्या. प. अ. 108
प्रज्ञापरित्राण्ो तु केवलानिष्टप्रसङ्गमेव द्विधाकृत्य षोढा तर्का उक्ताः-
“आत्माश्रयणमन्योन्याश्रयणं चक्रकं तथा ।
अनवस्था विरोधश्चासंभवश्चेत्यमी बुधैः॥”
इति । तत्रान्त्ययोश्चैवं लक्षणमुक्तम्-
“स्ववाग्विरोधो यत्र स्याद्विरोधः स प्रकीर्तितः ।
सर्वप्रमाणासिद्धत्वमसंभव उदाहृतः ॥” इति ॥
एवं च तावुदाहृतौ-
“वन्ध्या मेजननीत्येष विरोधः स्वोक्तिबाधतः ।
शशे श्रृङ्गमुदस्थादित्येवमादिरसंभवः॥ " इति ।
अत्र व्याप्त्याद्येकैकवैकल्येन केवलानिष्टप्रसङ्गाभासपञ्चकमुदाह्वियते । तत्र व्याप्तिशून्यो यथा-आत्माअणुश्चेत् तत्कर्मणा देशान्तरे फलं न स्यात्-इति । नहि कर्मणः फलकरणत्वमाश्रयसंयोगादिमुखेनेतिनियमः; तत्तत्कर्मसाध्यदेवतानुग्रहनिग्रहहमुखेन तत्सिद्धेरागमिकत्वात् । परस्या देवतायाश्च वैभवात् संकल्पमहिम्ना च सार्वत्रिकफलजननोपपत्तेः इति । प्रतितर्कप्रतिहतो यथा-प्रागसच्चेत् कार्यं, पश्चादपि शशविषाणवदनुत्पत्तिप्रसङ्गः- इति । तत्र प्रतिप्रसङ्गः- प्रागपि सच्चेत् प्रकृत्यादिवदेवानुत्पाद्यत्वप्रसङ्गः- इति । न हि सर्वत्र व्यक्त्यर्थो व्यापारः, व्यक्तौ तदसंभवात्; अन्यथा अनवस्थादिप्रसङ्गात् । विपर्ययपर्यवसानरहितो
यथा- न सत्यं स्थूलं, विरुद्धधर्मसंसर्गप्रसङ्गात् इति । न ह्यत्र विरुद्धधर्मसंसर्गो दृश्यते; देशकालदशावयवप्रतिसंबन्ध्यादिभेदेन तत्तद्विरोधप्रशमनात् । इष्टप्रसङ्गो यथा-ईश्वरसत्त्वे नित्यस्यापि वेदस्य तदधीनत्वप्रसङ्गः-इति । न ह्यौपनिषदैर्नित्योपि वेदः स्वतन्त्र इष्यते, तदाज्ञारूपत्वात्, क्रमभङ्गाभावेपि प्रवर्तनादिषु सर्वथा तदधीनत्वाच्च । अनुकूलप्रसङ्गो यथा–अस्ति चेदीश्वरः, उपनिषदपि प्रमाणं स्यादिति; न ह्यत्रेष्टतामात्रम्, अपित्वीश्वरसिद्धिहेतुत्वमपीते परपक्षसाधकत्वात् पृथक्करणम्; नहीष्टं सर्वं विवक्षितसाधकम्, अनग्नित्वे वृक्षवत्त्वप्रसङ्ग इत्यत्र वृक्षसंबन्धस्येष्टत्वेपि वह्न्यभावसाधकत्वाभावात् । न च विवक्षितसाधकं सर्वमिष्टम्; अग्निमत्त्वे सालोकत्वप्रसङ्ग इत्यत्र प्रत्यक्षविरुद्धस्यालोकस्य साधकत्वेप्यनिष्टत्वादित्येके । परविपक्षे दण्डभूतस्तु तर्कः परपक्षानुकूल इति पण्डिताः-यथा, स्थूलापलापिनो बौद्धस्य, नास्थूलमिदं, तथोपलम्भप्रसङ्गात् इति । स्थूलसाध्ाकस्य ह्यस्थूलपक्षबाधकोनुकूलः । एते च तर्काभासाः अनुमानाभासान्तर्भावपक्षेपि प्रवावदूकैः पृथग्भावयितुमुचिताः । तर्कस्य पृथक््प्रसिद्धव्यवहारत्वेन तदाभासानामपि तथैव व्यवहारोपपत्तेः इति । स्थितं तावत् सावान्तरभेदैर्हेत्वाभासैः ।