64 तर्कविभागः

मूलम् - 2.4.12

भवत्वेवं प्रमाणभूतोप्रमाणभूतो वा प्रमाणानुग्राहकस्तर्कः । स किमङ्गकः ? कतिविधः ? कियदवयवप्रयोगश्च ? । व्याप्त्यादिपञ्चाङ्गः, संग्रहाद्द्विविधः पञ्चविधो वा, प्रयोगोप्यनुवादप्रसङ्गाभ्यां द्व्यवयवः । विपर्ययपर्यवसानवाक्यं तु तृतीयोवयवः । स नावश्यं वक्तव्यः, मन्दस्य त्वनिष्टताव्यक्त्यर्थमुच्येतापि । प्रसञ्जकस्य प्रसञ्जनीयेन व्याप्तिः, प्रतितर्केणाप्रतिघातः, प्रसञ्जनीयविपर्यये पर्यवसानं, प्रसञ्जितस्यानिष्टत्वं, परपक्षासाधकत्वं चेति तदङ्गानि । यथा-अनग्निश्चेत् निर्धूमः प्रसजेत्, न चासौ निर्धूमः इति । अग्न्यभावो हि धूमाभावेन व्याप्तः । यथाहुः-
“धूमाभावेनाग्न्यभावो व्याप्ते नाग्निस्ततश्च्युतः ।
अधूम एव वर्तेतेत्येवं व्याप्यत्वमश्नुते ॥” इति ।
न च साग्नित्वेप्यत्र कश्चिदनिष्टप्रसङ्गः, येन ततः प्रतिहन्येत । न चायं निर्धूम इति विपर्यये पर्यवसानं धूमप्रत्यक्षबलसिद्धम् । अत एव धूमाभावप्रसञ्जनमनिष्टमेव । न चासावनग्नित्वपक्षसाधकः इति । प्रामाणिकपरित्यागः, अप्रामाणिकस्वीकारः इति प्रसञ्जनीयद्वैविध्याद् द्विविधस्तर्कः । तत्र पूर्वो दर्शितः । अपरो यथा-यदीश्वर आतृणादाकरीषात् स्वरूपेणाभिन्नः, तस्य विकारापुरुषार्थयोगित्वप्रसङ्गः इति । आत्माश्रयान्योन्याश्रयवक्रकानवस्थाकेवलानिष्टप्रसङ्गभेदेन पञ्चविधः । तत्रात्माश्रयादयश्चत्वारः स्वविषये स्वरूपासिद्धिमावहन्ति, पञ्चमस्€तु व्याप्यत्वासिद्ध्यादिकम् । अन्याधीनतयैव नियतस्य स्वाधीनत्वाभ्युपगमे विरोधप्रसङ्ग आत्माश्रयप्रसङ्गः । तथा-स्वेनैव स्वयमुत्पाद्यत इत्यादौ नियतपूर्वसिद्धि कारणं, नियतोत्तरं च कार्यम्; न चैकमेकापेक्षया पूर्वमपरं च स्यात्, अन्यथा भावाभावसौहार्देन सर्वव्यवस्थयोन्मूलनप्रसङ्गात् इति । अन्याधीनत्वनियमरहितस्य स्वाधीनतया विरोधापादनमात्माश्रयाभासः । यथा- स्वेनैव स्वयं पोष्यते, ज्ञायते च इत्यादौ; न ह्यत्र कर्मकर्तृविरोधः, स्वरूपतः सिद्धेनातथाभूतेन स्वेनैव स्वस्यैव तथाभावापादनस्य सर्वप्रत्यक्षसिद्धत्वात्, ज्ञानादिषु चैकस्यैवाश्रयत्वविषयत्वयोः सहोपलम्भात् । स्वातिशयापादनानभ्युपगमे स्वज्ञानाभावाभ्युपगमेच दृष्टादृष्टार्थसर्वचेतनप्रवृत्त्यपह्नवप्रसङ्गेन स्ववचनादिविरोधात् इति । स्वकार्येण स्€वोत्पत्त्यभ्युपगममे विरोधप्रसङ्गः अन्योन्याश्रयप्रसङ्गः । यथा-देवदत्तः पिता यज्ञदत्तस्य, तस्मिन्नेव च जन्मनि स एव तस्येति; न हि स्वकारणात् पूर्वं स्वस्य सत्ता समस्ति; पूर्ववत् स्वप्रागभावसमानकालत्वप्रसङ्गात् । न ह्यसति प्रागभावे कारणेन किंचित् कार्यम्; न चासतो कार्येण कारणस्योत्पादनं युक्तम्; तथा सति किं कस्य कारणं कार्यं वा न स्यात् । एवं कारणेपि कार्यसमनन्तरभाविनि भवनस्य प्रागभावाव्यवधानात् स्वकार्यस्य स्वप्रागभावपरिष्वङ्गप्रसङ्गः । यदि च कारणप्रागभावदशायां कार्यं स्यात्, किं कारणेन साध्यं स्यात् ? । यच्च–धूमेन वह्निर्ज्ञायते, तेनैव च वह्निना स एव, इत्यादिषु ज्ञाप्यज्ञापकान्योन्याश्रयणम्, तत्रापि कृतावेव तद्विश्रमः– धूमज्ञानेन वह्निज्ञानं जन्यते, तेनैव च तत् इति । एवमन्यत्रापि द्रष्टव्यम् । अन्योन्योपकारादिमात्रे तदाभासः । यथा-सैन्येन राजा रक्ष्यते, तेन च सेनेति; न ह्यनयोः शक्तिर्व्यापारादिकं वा परस्परोत्पाद्यम् । अन्यतः
सिद्धशक्तिकयोस्तु मुखभेदेनान्योन्योपकारः । एवं परस्परोपष्टम्भेन काष्ठाद्यवस्थानेपि द्रष्टव्यम् । त्रिप्रभृतीनामवधिमतासन्योन्यं चक्रवदुत्पत्त्यपेक्षावृत्तौ चक्रकप्रसङ्गः । यथा-कश्चित् कौपीनसारः संकल्पयति-
“न श्रीरकृषमाणस्य” इति परमाप्तवचनात् कृष्या विभवमुपलप्स्ये, तेन चोपदामुखेन राजानं प्रसादयिष्यामि, राजप्रसादेन लब्धोपकरणस्य मे कृषिराद्य न दुष्करेति । मुखभेदे तु तदाभासः । यथा-अन्योन्यव्यक्त्यनुसारिणि बीजाङ्कुरस्तम्बादिप्रवाहे, दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानपरिवृत्तौ, “अन्नाद्भवन्ति भूतानि” इत्यादि चक्रेषु । स्वस्मिन्नेव विश्रमे ह्यत्रापि । विरोधः, न तु स्वसजातीयविश्रान्तोः, तज्जातीयप्रागभावस्य तस्य च विरोधाभावात्, अन्यथा सजातीयानां सर्वेषां समानायुष्कत्वादिप्रसङ्गात् । अपर्यवसिताप्रामाणिकप्रवाहप्रसक्तिरनवस्था । यथा-ज्ञातेनैव सर्वं ज्ञायत इति यदि कश्चिन्नियमं ब्रूयात्, तदा पूर्वपूर्वज्ञापकज्ञानपरंपरापेक्षायां न क्वचिदपि विश्रमः, तत्र कस्यचिदप्यज्ञाने तज्ज्ञाप्यज्ञानासंभवात् सर्वाज्ञानप्रसङ्गः । जिज्ञासितार्थविज्ञाने च ज्ञापकपरंपराज्ञानस्य दुःसंपादत्वाच्च सर्वाज्ञानमवापतेत् । न चाविच्छिन्ना ज्ञानसंततिः, येन तत्तद्विषयैर्ज्ञातैरेवोत्तरोत्तरज्ञप्तिसिद्धिः स्यात् । तस्मादज्ञातैश्चक्षुरादिभिः संस्कारैश्च ज्ञातेन लिङ्गेन शब्देन चार्थप्रतीतिरित्यनियम एवाङ्गीकार्यः इति । एवं संबन्धस्य संबन्धान्तरे विशेषस्य विशेषान्तरे सामान्यस्य सामान्यान्तरे अवयवस्यावयवान्तरे धारकस्य धारकान्तरे शेषिणः शेष्यन्तरे अङ्गस्याङ्गान्तरे नियन्त्रादेर्नियन्त्रन्तरादौ च नियमेनाभ्युपगम्यमाने तस्यापि तथेत्यनवस्था ग्राह्याः । अतः प्रमाणसिद्धेषु स्वपरनिर्वाहकेषु निरपेक्षेषु वा विश्रमः स्वीकार्यः इति ॥