63 तर्कः

मूलम् - 2.4.11

ननु न तर्कोनुमानम्, भाष्यकारैरेव पृथक् परिगणितत्वात् । यद्यपि जन्माद्यधिकरणे “तर्कश्च साध्यधर्माव्यभिचारिसाधनधर्मान्वितवस्तुविषयत्वान्न निर्विशेषवस्तुनि प्रमाणम्” इत्यनुमानेपि तर्कशब्दः प्रयुक्तः; तथापि “न विलक्षणत्वात्” इत्यधिकरणे “यतः सर्वेषां प्रमाणानां क्वचिद्विषये तर्कानुगृहीतानामेवार्थनिश्चयहेतुत्वम्; तर्को हि नामार्थस्वभावविषयेण सामग्रीविषयेण वा निरूपणेनार्थविशेषे प्रमाणं व्यवस्थापयत् तदितिकर्तव्यतारूपमूहापरपर्यायं ज्ञानम् । तदपेक्षा च सर्वेषां प्रमाणानां समाना । शास्त्रस्य तु विशेषेणाकाङ्क्षासंनिधियोग्यताधीनप्रमाणभावस्य सर्वत्रैव तर्कानुग्रहापेक्षा । उक्तं च मनुना-यस्तर्केण,” इत्याद्यभिहितम् । तथा प्रथमसूत्रेपि “अनधिगतपदवाक्यस्वरूपतदर्थयाथात्म्यप्रत्यक्षादिसकलप्रमाणवृत्ततदितिकर्तव्यातारूपसमीचीनन्यायमार्गाणाम्” इत्याद्युक्तम् । एवं श्रीमति गीताभाष्येपि- “मत्तः स्मृतिर्ज्ञानमपोहनं च”- इत्यस्य व्याख्याने “अपोहनं ज्ञाननिवृत्तिः; अपोहनमूहनं वा, ऊहनमूहः, ऊहो नाम इदं प्रमाणमित्थं प्रवर्तितुमर्हतीति प्रमाणप्रवृत्त्यर्हताविषयं
सामग्र्यादिनिरूपणजन्यं प्रमाणानुग्राहकं ज्ञानम् । स चोहो मत्त एव” इत्युक्तम् ॥
न्या. प. अ. 99
किं च ‘तर्काप्रतिष्ठानात्’ इति सूत्रं ‘तर्कोप्रतिष्ठः’ इति स्मृतिश्च तर्कस्यानुमानादन्यत्वं सूचयतः । न ह्यनुमानं प्रमाणभूतमप्रतिष्ठितं स्यात् । किं च एवंत्वादेवमिति ह्यनुमानस्वरूपम्, एवं चेदेवं स्यादिति च तर्कप्रकारः; कथमनयोरैक्यम्? । आहार्यलिङ्गजन्यत्वाच्चानुमानाभासवन्नास्यानुमानत्वम्, आरोपितविषयत्वाच्च; न हि सधूमे निर्धूमत्वप्रसङ्ग इति धीरनारोपितविषया, विपर्यये पर्यवसानाच्च; न ह्यनुमानं स्ववेद्यविपर्यये पर्यवस्यति, किं तु स्ववेद्य एव, अन्यथा अनुमानप्रमाण्योच्छेदप्रसङ्गात् । उक्तं च प्रज्ञापरित्रा€णे-
“प्रमाणनिष्टपक्षोक्तौ तस्य व्याप्तिबलात् प्रति ।
अनिष्टापादनं तर्को नानुमानं स्मृतिर्मता ।
स्मृतिप्रमोष एवात्रानिष्टोपस्थापनं ह्यतः ।
तद्व्याप्तिबलस्तादृगनिष्टापादनं स्मृतिः ॥”
इत्यादिकमुक्त्वानन्तरमेवोक्तम्-
“एवंव्याप्रियमाणोसौ तर्को मनोपकारकः ।
प्रामाणिकोर्थो लिङ्गं स्यादनुमाने तु तद्बलात् ।
प्राप्तिः प्रामाणिकः स्यादित्यनुमातर्कयोर्भिदो ।
प्रसङ्गद्वारतो याः स्युरनुमानप्रवृत्तयः ।
तर्कोक्तयस्तास्तदपि साक्षाल्लिङ्गदयोपरे ॥” इत्यादि ।
तस्मादनुमानादन्यदेव किंचिद्यथाभाष्यमूहापरपर्यायं ज्ञानं तर्क इति वदन्ति ॥
न्या. प. अ. 100
यत्तु सर्वेषां प्रमाणानां तर्कानुग्रहापेक्षावचनं, तत् प्रमाणस्य सतस्तर्कस्यानुग्राहकत्वमात्रेणोपपन्नम् । प्रमाणस्य प्रमाणेन कथमपेक्षेतिचेत्, कथं वा प्रमाणेतरेण तर्केण ? विपक्षे जिज्ञासाविच्छेदनादिति चेत्, तुल्यम् । तर्हि पूर्वेण €किं प्रयोजनमिति चेत्; किं वातिरिक्ततर्कवादिनः ? । पक्षस्थापनमिति चेत्, तुल्यम् । न च तत्रापि तर्कान्तरापेक्षया अनवस्था, अप्रमाणत्वपक्षेपि व्याप्तेर्व्याप्त्यन्तरापेक्षाक्रमेणानवस्थानप्रसङ्गात् । न हि तर्कान्तर्गता व्याप्तिर्नास्तीति युक्तं वक्तुं तार्कि कगोष्ठीषु, शङ्काभावे च तदनपेक्षणात्; क्वचित् क्वचिदित्येव ह्युच्यते । उक्तं चोदयनेनापि-
“व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः” इति ।
तत्त्वरत्नाकरेपि- “अपरे नः सकलप्रमाणानां तर्कानुग्राह्यतामाग्रहादुदाहरन्ति-” इत्याद्युत्€क्€वा “तदा तर्कापेक्षाध्यवसायविरुद्धम्-” इत्यादिना प्रत्युक्तम् । पश्चाच्चोक्तम्-
“नैनं तर्कमपेक्षन्ते सर्वाः प्रमितयो यतः ।
विरोधाबोधयोर्जातं संशयं स चिकित्सते ॥” इति ।
यच्च “तर्को हि नाम-” इत्यादि, तदप्यनुमानविशेषस्यैव तर्कस्य प्रमाणान्तरपरिकरत्वेनावस्थितस्य व्यापारसंज्ञाविशेषादिकथनमात्रम्; न हि तत्रानुमानान्यत्वमुक्तम् । एवम् ‘अनधिगत–’ इत्यादावपि । एतेन “यस्तर्केण-” इति मनुवचनमपि निर्व्यूढम् ॥
न्या. प. अ. 101
यच्चोक्तं श्रीविष्णुचित्तैः- “भाष्यकारैस्तु प्रत्यक्षानुमानागमेभ्यस्तर्कोपबृंहितेभ्य आत्मनः स्वयंप्रकाशत्वं समर्थितम्” इति, तथा तैरेव संगतिमालायामुक्तम् ‘रचनानुपपत्तेः’ इति सूत्रे,- “नात्रेश्वरानुमानमुच्यत इति शङ्कनीयम्, प्रतितर्कमात्रवचनात् । व्याप्तिबलमालम्ब्यानिष्टप्रसङ्गस्तर्कः इति तर्कस्यापि व्याप्त्यवश्यंभावात्” इति, तदपि भाष्यवदेव योज्यम् ॥
न्या. प. अ. 102
यत्तु अप्रतिष्ठितत्वसूत्रस्मृतिभ्यामनुमानान्यत्वं सूचितमिति, तदपि न, अतीन्द्रियार्थगोचराणां केवलतर्काणामेवप्रतिष्ठितत्वाभिधानस्€य भाष्यकारैरेवव बहुशोभिधानात् । उक्तं तत्रैवोपसंहारे- “अतोतीन्द्रियार्थे
शास्त्रमेव प्रमाणम् । तदुपबृंहणायैव तर्क उपादेयः-” इति । प्रत्यक्षादिविरोधे चाप्रतिष्ठा साक्षादनुमानेपि समाना; अन्यथा तर्कमात्रस्याप्रतिष्ठितत्वे मीमांसैव हिंसिता स्यात् । न च तद्युक्तम्; “यश्च मीमांसतेध्वरम्” “वेदशास्त्राविरोधिना, यस्तर्केणानुसंधत्ते” इत्यादिविरोधात् ।
किंच-
तर्काप्रतिष्ठातर्कोयं प्रतितिष्ठति वा न वा ।
तर्कप्रतिष्ठा द्वेधापि तत्तदन्यव्यवस्थितेः ॥
अप्रतिष्ठितस्य तर्कस्यानुग्राहकत्वमपि मृग्यमिति ॥
न्या. प. अ. 103
यत्तु एवंत्वादेवम्, एवं चेदेवं स्यात्, इत्यनयोः कथमैक्यमिति ? तत्र ब्रूमः-
व्यतिरेकात्मिका व्याप्तिर्विपक्षे दण्डतां गता ।
पक्षोपश्लेषणवशात् स्याच्चेदित्यवतिष्ठते ॥
पक्षधर्मत्वगर्भोक्तिः स्यादित्येवं प्रवर्तते ।
न चैवमिति तेनैव हेतुमाह विपर्ययम् ॥
साध्याभाववतामेष हेत्वभावो व्यवस्थितः ।
न च सोयमिहास्तीति स्यात्कारेणाभिसंहितम् ॥
साध्यशून्यस्त्वया पक्षो विपक्ष्€ावदभीप्सितः ।
नासौ तथेति चेत्कारः साध्यधर्मान्वयाशयः ॥
अनुवादात्मना पक्षे साध्याभावो विभाति यत् ।
प्रतिषेधोपपत्त्यर्थः परामर्शः स युज्यते ॥
एवं चेदेवमेव स्यादिति धीर्यदि विभ्रमः ।
व्याप्तिरेवात्र भग्ना स्यात्तदा कस्तर्क इष्यताम् ॥
न चैवमिति तर्कोयं पर्यवस्यन् विपर्यये ।
पर्यवस्यति तेनैव प्रसञ्जकविपर्यये ॥
प्रसङ््गान्तर्निमग्नोर्थ उन्मज्जति विपर्यये ।
एवकाराद्यभिप्रेताः स्वशब्दाभिहिता यथा ॥
अत आहार्याध्यारोपितहेतुविषयत्वेपि तर्कस्य याथार्थ्यं नापैति, यद्यपश्लेशेण स्यात्कारेण च प्रवृत्तेः, तयोश्च तद्विपर्ययाध्यवसायगर्भत्वात् । अत एव च न स्मृत्यादावपि तर्कधियोन्तर्भावः । स्मृतिप्रमोषाविशेष एवायमीदृश इति चेन्न, तत्रापि चेत्स्यात्प्रयोगयोरयोगात् । न हि स्मृतावेव तयोः संभवः; कुतस्तत्प्रमोषे; प्रमुषितपूर्वानुभवविषयैकदेशा स्मृतिरेवहि स्मृतिप्रमोष इति वर्ण्यते । अपि च तर्कस्यायथा€र्थत्वे-यदि सविषमिदमन्नं भक्षयिष्यसि, परेष्यसि, ‘अन्धोभविष्यद्यन्मा नागमिष्यः-इत्यादयो लौकिकवैदिकप्रसङ्गा मृषावादाः स्युः । ततश्चैतेभ्योनर्थेभ्यो विच्छेदोपि न स्यात् । न हि यदि धर्मं चरिष्यसि, नरके पतिष्यसीत्ययथार्थोक्तौ कश्चिद्धर्मान्निवर्तते; एवं च दृष्टेपि–यदि भोक्ष्यसे क्षुच्छान्तिर्न भविष्यतीति । अपि च यद्युपश्लिष्टं प्रसञ्जकं व्याप्यं यदि कार्तान्तिकवदनिष्टं प्रसञ्जयेत्, तदा स्यादप्ययाथार्थ्यम् । न तथात्र । यदि स्वरूपतो मिथ्याभूतप्रसञ्जनीयोल्लेखमात्रादयथार्थत्वं तदा भ्रान्तिविषयज्ञानान्तरेपि स्यात् ॥
नन्वीश्वरो दायालुश्चेत् सुखैकान्तं जगत् सृजेत् ।
अविद्या ब्रह्ममूला चेदनिवर्त्या प्रसज्यते ॥
सर्वप्रपञ्चमिथ्यात्वं मिथ्या चेद्व्याहतं भवेत् ।
अनाश्रयस्यैवमादेरनुमानात्मता कथम् ॥
भ्रान्ताश्रयानुमन्तॄणां शून्याद्वैतादिवादिनाम् ।
नैतच्चोद्यं तदन्येषामेवं दोषः समुत्थितः ॥
अनुमानान्यतायामप्येष न स्यादनाश्रयः ।
वन्ध्यासुतो बुभुक्षुश्चेद्भुञ्जीतेति हि नोच्यते ॥
ततो यदाश्रयस्तर्कः साक्षाद्व्यवहितोपि वा ।
तस्यानुमानभावेपि न ह्यसावपसर्पति ॥
न्या. प. अ. 104
न चैतदनादेशिकम्, आरम्भणाधिकरणे तकेर्ष्वेवानुमानशब्दस्य भाष्यकारैः प्रयोगात्- “तानि चानन्तरोक्तैरविद्याकार्यत्वादिभिरनुमानैर्निरस्तानि” इति । न च ते न तर्का इति शक्यं वत्कुम्, यथाश्रुतप्रकारेण स्वरूपासिद्ध्यादिप्रसङ्गात् । तत्त्वरत्नाकरेपि “एषां प्रसङ्गद्वारेण वा प्रयोगः” इत्यादिना हेतुत्रयस्यापि प्रसङ्गरूपेण प्रयोग उदाहृतः । अर्थापत्त्यन्तर्भावदशायामप्युक्तम्- “तन्निरवकाशमानाल्लिङ्गादिह सावकाशस्यात्माविरुद्धविषयस्थापनविषयानुमानमर्थापत्तिः । इयमेवागमविषयव्यवस्थितौ शेषभूता चेत् सामान्यविशेषाख्यो न्यायो निर्दिश्यते-” इति । आकाङ्क्षादिनिरूपणे चाभिहितम्- “पीनो देवदत्तो दिवा न भुङ्क्ते इत्येतदपि रात्रिभोजनपर्यन्ततात्पर्यं चेत् अध्याहारस्योदाहरणम्; दिवातनाशननिषेधमात्रपरं चेच्छ्रुतार्थापत्तेः । यस्य हि प्रमाणस्य यावत् प्रमेयं व्€यवस्थापितम्, तत् तावत्यप्रमिते न स्वातन्त्र्येण पर्यवस्यति ; तदा तत्पर्यवसानार्थतयानुपपत्तिलिङ्गादिकं व्याप्रियमाणं तर्कलक्षणापन्नं तच्छेषतयावतिष्ठते, परोद्देशप्रवृत्तव्यापारव्याप्यत्वात्, प्रमित्सितपर्यवसाने तत्प्रमेयस्वभावपर्यालोचनया स्वातन्त्र्येण व्याप्रियमाणं तर्कप्रमाणपदं समधिरोहति-” इति ॥ मनोनिरूपणे चोक्तम्- “यद्येप्येवं न तर्कः स्वातन्त्र्येण स्वार्थसमर्थनसमर्थः, तथाप्यागमानुग्रहेण प्रभवति, सन्ति चागमाः- “इत्यादि”॥
न्या. प. अ. 105
नन्वप्रमाणत्वं तर्कस्य तत्रैव प्रपञ्चितम् । तथाहि न्यायपादे-
“यदुक्तं न प्रमाणेन परीक्षा दोषवन्न तत् ।
अप्रमाणेन तर्केण परीक्षा वक्ष्यते यतः ।” इति ।
साक्षात् तर्कप्रमाणे च ।
““मानानुग्राहकं युक्त्या ज्ञानंतर्कोभिधीयते ।
युक्तिश्च संभवौचित्यतद्विपर्ययतो द्विधा ॥
मानानुग्राहकपदेन प्रमाणेभ्यो व्यावर्त्यते” इत्याद्युपक्रम्य हेतुफलविषयव्यापारावान्तरभेदादि प्रपञ्चेनोक्त्वा,
“केचिदाचक्षते तर्कः प्रमाणमिति मन्महे ।
संशयादिबहिर्भावात् प्रामाण्यस्य च संभवात् ॥”
इत्यादिना तर्कप्रामाण्यपक्षं प्रपञ्चेनानूद्य, “प्रसङ्गरूपव्यतिरेक्यनुमानमेव तर्कः” इति तन्मतमुपसंहृत्य,
“उच्यते न प्रमा तर्को वेषहेत्वोर्विशेषतः ।
हेत्वाभासोद्भवत्वाच्च सोयं निर्णायको न च ॥” इत्यादिना ।
सत्यम्; तथापि भाष्यकारैः- “चार्वाकशाक्योलूक्याक्षपादक्षपणककपिलपतञ्जलिमतानुसारिणो वेदबाह्याः-” इत्यादिषु बहुषु प्रदेशेषु बाह्यपक्षनिक्षिप्ताक्षपादोक्तषोडशपदार्थसूत्रानुवादपूर्वकं तत्क्रमेण प्रमाणादिपरीक्षायां न्यायपादमारचयतः परमतमनुरुध्यापि क्वचिद्व्यवहाराः संभवन्ति, अन्यथा स्वेनैवार्थापत्त्यन्त€र्भावादिप्रकरणोक्तग्रन्थविरोधात् । यच्च तत्र युक्तिरूपमिव किंचिदुक्तम्, तदपि न तदुचितमिति ततोपि न स सिद्धान्तः; तथा हि-एवं भवितव्यमिति हि प्रमाणात् तर्कस्य वेषविशेष उक्तः । स त्वनिश्चयात्मकश्चेत् संशय एवान्तर्भावः । तत्रैव हि भ्रमसंशयादिलक्षणानन्तरं चैवमुक्तम्- “संभवासम्भवपरामर्शस्तर्कः; यथा-बाह्वादिप्रदेशवत्त्वात् पुरुषेणानेन भवितव्यम्, न स्थाणुनेति । एषां संशयादीनां विमर्शानवधारणाद्येकप्रयोजनान्तर्भावसंभवेपि पृथगुपादानमवान्तरकारणवैषम्यात्, उपयोगभेदस्य च न्यायपादे दर्शयिष्यमाणत्वाच्च” इति । न चानग्निश्चेत् निर्धूमः स्यादिति बुद्धेः संशयता । अथायमसंभावनानिरासः, तथापि तेनाकारण वैषम्यान्निर्णयरूपत्वादबाधाच्च प्रमाणमेव । यच्च “न केवलं प्रसङ्गसाधनं साध्यधर्मिण्यसिद्धम्, अपि
त्वन्यगतमेव प्रसङ्गहेतुः । न त्वनुमानमन्यगताद्धर्मात् प्रवर्तते । ततस्तस्मात् स्फुटोस्य भेदः” इत्युक्तम्, तत्रासिद्धहेतुजन्यत्वे परिहारः पूर्वमेवाक्तः । एवं चेदेवं स्यादित्यस्य च-न चैवं तस्मान्न तथेत्यत्रैव तात्पर्याद्व्यतिरेकव्याप्तिक्रोडीकार एवातिरिक्तः । अन्यगतहेतुसमुत्थत्वं तु न कथंचिदपि स्यात्; न खल्वन्योनाग्निश्चेदयं निर्धूमः स्यादिति युज्यते, नापि न चान्यो निर्धूमस्तस्मादयमनग्निर्न भवतीति । यच्चाप्रयोजकानैकान्तिकहेतुभिरपि तर्कस्य संभवरूपेण समुत्थानादनुमानान्यत्वमुक्तम्, तदपि हेत्वाभासजन्यज्ञान एवान्तर्भावाय, न तु पृथक् तर्काख्यज्ञानसिद्धये । न च तेपि हेतव आभासा अपि संशयद्वारा विपर्ययद्वारा वोपकुर्वते ; तत्त्वनिश्चयस्य तदपेक्षानियमाभावात्, भावेपि सिषाधयिषितस्याविरोधप्रदर्शननिर्णयरूपेणैवोपकारात् । एवमन्यदपि चिन्त्यम् । निर्णयात्मकत्वं न तर्कस्य श्रीविष्णुचित्तैरुक्तम्- “तर्कश्चसाध्यधर्माव्यभिचारिसाधनधर्मान्वितवस्तुविषयः” इति ॥