62 दृष्टान्तवचनदोषाः

मूलम् - 2.4.10

व्याप्त्यनभिधानविपरीतव्याप्त्यभिधानादयो दृष्टान्तवचनदोषाः । यथा घटः इति दृष्टान्तधर्मिमात्रोदाहरणं व्याप्त्यनभिधानम् । कृतकत्वादिति हेतौ यदनित्यं तत् कृतकम्, यथा घटः, इति विपरीतव्याप्त्यभिधानम् । तदनित्यम्, यथा घ्€ाटः, इति व्याप्त्येकदेशाभिधानम् । घटवत् घट इवेत्यादीनामभिन्नार्थत्वाद्व्याप्त्युपन्यासानन्तरमेतेष्वन्यतमाभिधाने न दोषः; न हि यथाशब्देनैव व्याप्तिरुपदर्शनीया,
नान्येनेति नियामकमस्ति । शब्दशक्तिश्च नातिदवीयसीति यथाविवक्षं न विरोधः ॥
न्या. प. अ. 96
ननु व्याप्त्यनभिधाने तदेकदेशाभिधाने चावयवांशन्यूनत्वापाताद् विपरीतव्याप्त्यभिधाने चावयवैकदेशविपर्यासन्न्यूनत्वाप्राप्तकालत्वे उद्भाव्ये । किमेषां हेत्वाभासविश्रान्तदृष्टान्तदोषत्ववचनेन ? सत्यम्; व्याप्त्यनुपदर्शनमुखेन हेतुदोषेष्येते विश्राम्यन्तीति ख्यापनायैतदिति मन्तव्यम् । हेतुदोषपर्यवसायिनामप्येषां वैशद्याय स्वयं कथकाशक्तिख्यापनसामर्थ्याच्च विशेषत उद्भावनं कार्यम् । सामान्यत उद्भाविते वा कथमिति पृष्टेन विशेषो वक्तव्यः । हेत्वाभासोयमिति सामान्यत उद्भावितेपि हि न दोषः । तत्र यदि विशेषानुयोगे प्रतिवक्तुं न शक्नुयात्, हेत्वाभासतास्थापकव्याप्त्यपक्षधर्मत्वयोरन्यतरनिर्वाहे वा न प्रगल्भेत, निरनुयोज्यानुयोगेन निगृह्येत । एवं पक्षदृष्टान्ताभासप्रयोगेपि प्रयोगाभासोयमिति वा पक्षाभासोयमिति वा दृष्टान्ताभासोयमिति वोद्भाविते सम्यप्रतिवादिबुभुत्सानसारेण तत्तद्विशेषाः प्रदर्शनीयाः । स्पष्टेषु तावतैव चेत् चरितार्थबुद्धयस्ते स्युः, किं विशिष्याभिधानेन ? । अत्रापि यदि पक्षाद्याभासतामनुयुक्तो न निर्वहति, तदा पूर्वनिग्रहाः । उभावरूपदोषानुयोगे च भरः प्रतिवादिनः । भावरूपदोषानुयोगे तु तद्वक्€तुरेवेति वृद्धाः । परस्परसंमत्या लौकिकव्यवहारेष्विवात्रापि समर्थकथकयोर्न व्यवस्थितिरिति केचित् ॥
न्या. प. अ. 97
एवं हेत्वाभासप्रसङ्गात् तदनुप्रविष्अपक्षाभासादीनां दिङ्मात्रं दर्शितम् । प्रसङ्गभूततर्काभासा अप हेत्वाभासविशेषा एव, तर्कस्यानुमानराश्यपृथग्भावात् । न्यायस्तर्कश्चोभयमनुमानमिति मीमांसकाः । व्याप्याङ्गीकारे व्यापकानिष्टप्रसञ्जनं हि तर्कः, व्याप्याद्व्यापकप्रमितिरेवानुमानमिति ॥