मूलम् - 2.4.9
अथात्र पक्षदृष्टान्ताभासानां हेत्वाभासान्तर्भावप्रकारमुदाहरामः । तत्र विशेषणाप्रसिद्ध्यादौ हेतोराश्रयासिद्धत्वम् । सामान्यतः प्रसिद्धो हि साध्यधर्मः प्रसिद्धे धर्मिणि सिषाधयिषितो भवति, निरालम्बनविवादयोगात् । तथाविधसाध्यधर्मविशिष्टश्च धर्मी पक्षः । स च तदप्रसिद्धौ न सः । पक्षश्च हेतोराश्रयः । एवं सिद्धसाधनेप्युक्तम् । बाधितविशेषणत्वादौ कालात्ययापदेशः । साधर्म्यदृष्टान्ते साधनवर्जिते हेतुः साधारणोसाधारणो विरुद्धो वा । तत्राद्यः– नित्यः शब्दः, प्रत्यक्षत्वात्, यथा द्व्यणुकमिति । तत्रैव शब्दत्वात्, यथा
घटः इति द्वितीयः । श्रावणत्वात्, यथा घटः, इति तृतीयः । साध्यवर्जिते तु तस्मिन् विरुद्धः, साधारणो वा । अत्र अनित्यः शब्दः, श्रावणत्वात्, शब्दत्ववत्, इति प्रथमः । तत्रैव वस्तुत्वादिति द्वितीयः । उभयवर्जिते निराश्रये च व्याप्यत्वासिद्धः । पूर्वे च दोषा यथासंभवं भाव्याः; यथा-अनित्यः शब्दः, कृतकत्वात्, यथा आत्मेति, यथा वा शशविषाण्ामिति । सत्यपि हि व्याप्तिरत्र न प्रदर्श्यते । वैधर्म्यदृष्टान्ते तु साधनाव्यावृत्ते हेतोः साधारणत्वम्, विरुद्धत्वं वा । यथा-शब्दः ध्वंसप्रतियोगी, प्रत्यक्षत्वात्, यन्नैवं तन्नेवम्, यथा आत्मेति साधारणत्वम् । तत्रैव साध्ये श्रावणत्वादिति हेतौ यदुक्तसाध्यं न भवति तच्छ्रावणमपि न भवति, यथा शब्दत्वमिति विरुद्धत्वम् । साध्याव्यावृत्ते तु व्याप्यत्वासिद्धादयः-गर्भस्थो मैत्रीतनयः श्यामः, मैत्रीतनयत्वात्, यः श्यामो न भवति स मैत्रीतनयो न भवति,
यथा सत्यवतीतनयः इति व्याप्यत्वासिद्धः । एवमन्येपि ॥
न्या. प. अ. 93
यद्यपि सपक्षैकदेशवर्तिनि सम्यग्घेतौ हेतुरहितः सपक्ष एव विपक्षविवक्षया केनचिदुदाह्रियते, तथापि तत्र व्यतिरेकव्याप्तेरनुपदर्शितत्वान्न तत्र व्याप्यत्वं सिध्यति । एवं सर्वत्र समीचीनेपि हेतौ साधर्म्यदृष्टान्तेषु साधनविकलसाध्यविकलोभयविकलाश्रयहीनेषु साध्याव्यावृत्तसाधनाव्यावृत्तोभयाव्यावृत्ताश्रयहीनेषु च वैधर्म्यदृष्टान्तेषु, पुरुषापराधाद्व्याप्त्यनुपदर्शनेप सत्यपि व्याप्तिरनुपकारिका; व्याप्तिप्रत्यायनार्थं ह्यसौ दृष्टान्तमुदाहरति, न तु व्याप्तिसद्भावार्थम्, येन तद्दोषेप्यन्यतोस्ति व्याप्तिरिति चरितार्थता । न च परेण स्वयमेव व्याप्तिः प्रत्येतव्या, तथा सत्युदाहरणाख्यावयवस्यैव परित्यागप्रसङ्गात् । यद्यपि घटकः प्रतिवादी सम्यग्दृष्टान्तसिद्धां व्याप्तिं स्वयं प्रतिसंधत्ते, तथाप्यप्रतिसंधानमभिनीय वादी निगृह्येत, स्वप्रतिसंधानं प्रकाश्य वा दृष्टान्ताभासवचनाज्जडीक्रियेतेति । साध्यमात्रविकले साधर्म्यदृष्टान्ते साधनमात्राव्यावृत्ते च वैधर्म्यदृष्टान्ते हेतोर्न कथंचिदपि सम्यक्त्वसिद्धिः, हेतोर्विपक्षवृत्तित्वेन साधारणत्वविरुद्धत्वयोरन्यतरावश्यंभावात् । तत्रोभयाव्यावृत्तो यथा-क्षित्यादिकं सकतृर्कम्, कार्यत्वात्; यत् सकर्तृकं न भवति तत् कार्यमपि न भवति, यथा घटः, इति । साधर्म्यदृष्टान्तवच्छशविषाणाद्युदाहरणे अत्राप्याश्रयहीनत्वम् । व्यतिरेकित्वे आश्रयहानिर्न दोष इत्येके; यथाहुः-
“यस्मिन्न नित्यता नास्ति कार्यतापि न विद्यते ।
अस्मिन् यथा खपुष्पादाविति शक्यं हि भाषितुम् ॥” इति ।
अभ्युपगतोयमर्थो मुखभेदेनास्मदीयैरपि कैश्चित्; यथोक्तं प्रज्ञापरित्राणे-
“भवेदाश्रयहीनत्वं भावसाधन एव तत् ।
असत्तासाधने तादृगसदर्थोपवर्णनम् ।
न दोषायान्यथा सत्ता साधनस्याप्रसङ्गतः ॥” इति ।
भाष्ये च गगनकुसुमाद्युदाहरणमेतत्पक्षानुगुणम् । ये पुनरसिद्धपक्षादयोपि केचिद् भाष्यादिषु प्रयोगाः, ते तु तत्तत्प्रतिवादिमतानुविधायिप्रसङ्गविशेषपराः परिणमयितव्याः । न चैवं शुष्कवैतण्डिकोत्थानप्रसङ्गः । स्वसिद्धान्तगृहीतमनाकुलयद्भिः स्वव्याघातरहितैःपरस्य स्वव्याघातादिप्रदर्शने प्रवृत्तिरिति ॥
न्या. प. अ. 94
एवमष्टौ निश्चिता उदाहरणाभासाः प्रदर्शिताः । अथान्ये संदेहद्वारेणाष्टौ प्रदर्श्यन्ते-विगीतः पुरुषः पुनर्भवानर्हः, सुसमाहितावताररहस्यत्वात्; यदुक्तसाधनम्, तदुक्तसाध्यमित्युक्त्वाह-यथा सद्विद्यासमाधिनिष्पत्तिमान् पुरुषः इति । अत्र विद्यान्तरसमाधिनिष्पत्त्या मोक्षनिश्चये तदनङ्गभूतावताररहस्यतत्त्वज्ञानसद्भावे साधकबाधकानवतारात् संदेह इति संदिग्धसाधनविकलता । संदिग्धसाध्यविकलो यथा-तत्रैव साध्ये विदितवेदान्तत्वादिति हेतौ, यथा बृहस्पतिरिति । अत्र साधननिश्चयेपि वसिष्ठावान्तरतपःप्रभृतीनामिव पुनर्भवसंभवात् साध्यसंदेहः । सदिग्धोभयो यथा; तत्रैव-यथोन्मत्तवेषः पुरुष्ा इति । अत्र स किमुन्मत्तः, उत ब्रह्मविदेव सन्नुन्मत्तभावक इति संदेहे साध्यसाधने अपि संदिह्येते । तत्रैव-यथा भविष्यन्मैत्रीतनय इति संदिग्धाश्रयहीनः । न ह्यवन्ध्यायुवत्यपि मैत्री पुनः प्रसूतिमतीत्यर्वाग्दृशां सुग्रहम् । संदिग्धसाधनाव्यावृत्तो यथा-यः पुनर्भवार्हः सोविदितवेदान्तः, यथासौ देशान्तरगतः पुरुष इति । अत्र कामक्रोधादिद्रढिमलिङ्गात् सहसैव मोक्षानर्हत्वनिश्चयेप्यौपनिषदसंव्यवहारात् प्राग्विदितवेदान्तत्वं संदिह्यते । संदिग्धसाध्याव्यावृत्ते यथा- विगीतः
पुरुषो ब्रह्मविद्याधिरोहानर्हः, अत्रैवर्णिकत्वात्; यस्तदर्हः, स त्रैवर्णिकः, यथासौ काणादः, इत्यत्र निदर्शितस्यारूढपतितत्वादिशङ्कायां भवति तदनर्हत्वसंदेहः । संदिग्धोभयाव्यावृत्तो यथा; तत्रैव-यथासौ वैदेशिको मीमांसक इति । न ह्यत्र तदर्हतां त्रैवर्णिकत्वं च वेदपठनादिमात्रेण विनिश्चिनुमः, दशपुरुषविख्यातत्वादिविरहे दुष्टशूद्रादिष्वपि संभवद्भिर्लिङ्गेर्वर्णविशेषादिनिर्धारणायोगात् । व्यतिरेकेपि संदिग्धाश्रयहीनोदाहरणं प्राचीनमेव । अपि चात्र हेत्वसिद्ध्यादाविव कथकयोरन्यतरोभयभेदेन संदिग्धनिश्चितसाधनविकलत्वादिभेदाद् द्वात्रिंशद्भिदा भवन्ति । उदाहरणे लोकप्रसिद्धेप्युभाभ्यामपि संदेग्धव्यं निश्चेतव्यमिति वा न राजशासनम्, सामग्रीशक्तेरनियमात् इति ॥