मूलम् - 2.4.8
तदेवमेते पञ्च हेत्वाभासा अक्षपादादिभिः संगृहीताः । तथा च सूत्रम्- “सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः” इति । अत्रासिद्ध एव साध्यतुल्युत्वं निमित्तीकृत्य साध्यसमशब्देनोपचरितः । अत्र न्यायतत्वानुसारात् क्रमनियामकसंगत्यभावाच्चाक्षपादं
क्रममुल्लङ्घ्यास्माभिर्हेत्वाभासा निरूपिताः । ननु तत्त्वरत्नाकरे अन्यथैव हेत्वाभासाः प्रपञ्चिताः; यथा-
“ईदृक्षपक्षाद्यङ्गानामैकैकविकलत्वतः ।
सर्वानुमानाभासानां संक्षेपाप्लक्ष्म सूचितम् ॥
तत्तत्पक्षादिस्वरूपतत्वमतदपि तथा भासमानं तदाभासः । तत्र,
पञ्च प्रतिज्ञार्थाभासाः पक्षवैकल्यदोषजाः ।
सिद्धप्रसिद्धिबाधित्वविरुद्धत्वाफलत्वतः ॥”
इत्याद्युक्त्वा, प्रसिद्धिं च विशेषणविशेष्योभयभेदेन त्रेधोदाहृत्य, बाधित्वमपि प्रमाणत्रित्वात् त्रिधा निर्दिश्य, विरुद्धत्वमपि स्ववचनस्वाभ्युपगमसर्वलोकप्रसिद्धिभेदेन विभिद्य, स्ववचनविरोधेप्युक्तिमात्रधर्मधर्म्युक्तिविरोधभेदेन त्रैधमभिधायाफलत्वपर्यन्तमुदाहृत्य, धर्मित्वानिर्देशविशिष्टत्वानिर्देशविशेषणानिर्देशधर्म्यनिर्देशसाध्यानिर्देशरूपपक्षासाधारणनिर्देशदोषपञ्चकमुदाहृत्य, “अवाचकसंदिग्धाश्लीलनिर्देशादयः साधनादिष्वपि साधारणनिर्देशदोषा द्रष्टव्याः । एते च लक्षणवाक्ये पक्षधर्मपदेन
व्यावर्त्यत्वात् सर्वे प्रतिज्ञाभासाः” इत्यादि चोक्त्वा, “अथ हेतवोसिद्धानध्यवसितविरुद्धविशेषणविरुद्धानैकान्तिकाप्रयोजकबाध्यविरुद्धाव्यभिचारिप्रकरणसमसिद्धसाधनाः इति दशधा । तत्रासिद्धोप्रमितपक्षधर्मभावः । स स्वतो नवधा” इति विभज्य स्वरूपासिद्धसंबन्धासिद्धभागासिद्धविशेषणासिद्धविशेष्यासिद्धोभयासिद्धाश्रयासिद्धाश्रयैकदेशासिद्धव्यधिकरणासिद्धोदाहरणान्युक्त्वा, तेषामेवाज्ञानसंदेहविपर्ययैः सप्तविंशतित्वं, पुनरन्यतरासिध्द्युभयासिद्धिभेदेन चतुःपञ्चाशत्त्वमभिधाय, एवं सिद्धसाधनपर्यन्तानामपि लक्षणोदाहरणान्यभिधाय, हेतुक्तिदूषणं च धूमादित्याद्युक्त्वा, उदाहरणदूषणानि साध्यविकलसाधनविकलोभयविकलाश्रयहीनानुपदर्शिताव्याप्तिविपरीतोपदर्शितव्याप्तिसाध्याव्यावृत्तसाधनाव्यावृत्तरूपाण्युदाहृत्य, सर्वेशु चैतेषु विभागेषु मिथः संभवदन्तर्भावानामपि पृथगुदाहरणप्रयोजनानि तत्रैवाभिहितानि । सत्यम्; तथापि वास्तवचिन्तायामन्तर्भावप्रक्रियैवानुसंधेया । अत एव हि तत्राप्यन्ते निगमितम्-
“सर्वानुमानाभासानां तल्लक्ष्मावयवक्षतिः ।
व्याप्यत्वपक्षधर्मत्वहानिर्वा लघु लक्षणम् ॥ " इति ।
अतो वस्तुतो द्वावेव हेत्वाभासौ तत्रापि विवक्षितौ । तदवान्तरभेदतयैवान्ये सर्वे दर्शिताः । उक्तिदूषणानि तु न हेत्वाभासाः; तथापि समीचीनहेतुप्रतिपादनार्थत्वादुक्तेस्तद्दूषणे सति न यथा हेतुः प्रतिपादितो भवेदित्येतावता हेतुदूषणत्ववचनम् । यद्वा निग्रहस्थानानां सर्वेषां प्रतिज्ञदिवाक्यदूषणात्मकत्वद्योतनायेति मन्तव्यम् । अश्लीलनिर्देशादीनां दोषत्वं तु नियमकथाविषयं योज्यम् । एतेन-
“हेत्वाभासास्त उच्यन्ते त्वसिद्धाद्या नवैव ते ।
व्याप्यत्वपक्षधर्मत्वहानिर्वा लघु लक्षणम् ॥” इति ।
अतो वस्तुतो द्वावेव हेत्वाभासौ तत्रापि विवक्षितौ । तदवान्तरभेदतयैवान्ये सर्वे दर्शिताः । उक्तिदूषणानि तु न हेत्वाभासाः; तथापि समीचीनहेतुप्रतिपादनार्थत्वादुक्तेस्तद्दूषणे सति न तथा हेतुः प्रतिपादितो भवेदित्येतावता हेतुदूषणत्ववचनम् । यद्वा निग्रहस्थानानां सर्वेषां प्रतिज्ञादिवाक्यदूषणात्मकत्वद्योतनायेति मन्तव्यम् । अश्लीलनिर्देशादीनां दोशत्वं तु नियमकथाविषयं योज्यम् । एतेन-
“हेत्वाभासस्त उच्यन्ते त्वसिद्धाद्या नवैव ते ।”
इति प्रज्ञापरित्राणादिग्रन्था निर्व्यूढाः ॥