मूलम् - 2.4.7
अतुल्यं तुल्यमपि वा यं तुल्यमभिमन्यते ।
तेन यः प्रतिरुध्येत तमाहुः प्रक्रियासमम् ॥
मानमाभाससंरुद्धं मानरुद्धस्तथेतरः ।
आभासरुद्ध आभासः प्रतिरुद्धस्त्रिधा स्थितः ॥
आभासमानयोरत्राप्यवान्तरभिदावशात् ।
प्रतिरुद्धविधाभेदा निरूप्या बाधितक्रमात् ॥
त्रिविधस्यापि रोधस्य साम्यबुद्ध्यास्ति संभवः ।
न तु मानेन मानस्य रोधो भवति कर्हिचित् ॥
अन्यूनानतिरिक्तादौ विरोधो न हि विद्यते ।
न चात्यन्तविभिन्नार्थे विरोधेन्यतरत् प्रमा ॥
श्रुतिद्वयविरोधेपि तत्रैमस्या न मानता ।
तात्पर्यार्थे हि मानत्वं न च द्वे अपि तत्परे ॥
रोधश्च हेतुनैवेति हेतोरेवेति वा पुनः ।
नियमो नाभिमन्तव्यः सर्वैः सर्वत्र संभवात् ॥
न्या. प. अ. 90
तथाहि-तत्राभासेन प्रमाणप्रतिरोधो यथा- “ब्राह्मणो न सुरां पिबेत्” इति वैदिकोक्तौ बौद्धकापालिकाद्यागमैः पातव्यत्वोक्त्या प्रतिरुद्धा श्रुतिरिति । अत्र ह्यविदितगुणदोषबलाबलप्रस्थानस्य प्रमाणभूतमपि प्रतिरुद्धं भवति । उक्तविपर्यासात् प्रमाणेनाप्रमाणस्य प्रतिरोधो द्रष्टव्यः । तत्राधिकबलस्य वस्तुतो बाधकत्वेपि बलानभिज्ञः प्रतिरोधकं मन्यते । आभासेनाभासस्य प्रतिरोधो यथा-केशोल्लुञ्छनं कर्तव्यम्, अर्हदाद्युपदेशात्, इति दिगम्बरेणोक्ते, न तत् कर्तव्यम्, अन्यथा तथागतोपदेशात्, इति । अत्रानाप्तवाक्यत्वाविशेषाद्वस्तुतो द्वयोरनादरणीयत्वेपि योगसिद्धसार्वज्ञ्यवाक्यत्वविशेषाभिमानाद् भवति प्रतिरोधः । वास्तवविमर्शे तुल्यदोषतयोभयोरप्यसाधकत्वमेवेति । प्रकरणसममेव विरुद्धाव्यभिचारिशब्देन केचिदुपचरन्ति; यथा-
“यत्राप्रत्यक्षता वायोररूपत्वेन साध्यते ।
स्पर्शात् प्रत्यक्षता चासौ विरुद्धाव्यभिचारिता ॥” इति
द्विवचनान्तविरुद्धाव्यभिचार्युदाहरणमिदम् । तत्र होतोर्हेत्वाभासेन प्रतिरोधो यथा-देवदत्तात्मा यज्ञदत्तात्मनो भिन्नः, तदनुभवजनितस्मृतिरहित्वात्, घटवत्, इत्यन्वयेन वा, यो यज्ञदत्तात्मनो न भिन्नः, स तदनुभवजनितस्मृत्याधारः, यथा यज्ञदत्त एवेति व्यतिरेकेण वोदाहृते, स तस्मादभिन्नः, आत्मत्वात्, तद्वदेवेति वा, यस्ततो भिद्यते, न स आत्मा, यथा घटः, इति वेति । अत्रानुमितपरसुखदुःखाद्यनाधारतया स्वस्य प्रत्यक्षसिद्धत्वात्, सुखदुःखोपभोगसंकरप्रसङ्गात्, उपाधितो व्यवस्थानस्य इन्द्रियादिभेदेष्वपि प्रसङ्गात्, सौभर्यादिषु शरीरादिभेदस्य सुखादिव्यवस्थापकत्वादर्शनाच्च, बाधितमैक्यानुमानमित्याभासात । अत्र विपर्यासेन हेत्वाभासस्य हेतुना प्रतिरोधैः । हेत्वाभासस्य हेत्वाभासने प्रतिरोधो यथा-यतू सत् तत् क्षणिकम्, यथा घटः, सन्तश्चामी भावाः, इति सौगतेनोक्ते प्रतिवक्ति- यत् क्षणान्तरवर्ति न भवति, तदसत्, यथा खरविषाणम्, न चासन्त इमे भावाः, इति । अत्राबाधितप्रत्यभिज्ञानादिभिः स्थैर्ये वक्तव्ये, पिशाचानां पिशाचभाषयैवोत्तरं देयमित्यभिमन्यमानस्यैवमुत्तरसंभवः । एवं महाविद्यादिरीतिष्वपि प्रागेवोक्तम् । एकस्मिन् हेतौ केन कः प्रतिरुध्येत, कथं वा तत्र प्रकरणसमसमाख्यानिवेशः स्यादिति चेन्न, एकस्यैव हेतोः तत्साध्यव्याप्यत्वाभिमानगृहीतस्य तद्विरुद्धसाध्यव्याप्यत्वाभिमतस्वात्मसाध्यनिर्णयपरिपन्थित्वेनावस्थानात्, प्रक्रियमाणार्थसाधनप्रवृत्तस्वात्मनस्तद्विरुद्धसाधनप्रवृत्तस्वात्मसमानत्वाच्चेति । तथा हि- अनित्यः शब्दः, प्रमेयत्वात्, घटवत्, इति केनचित् प्रयुक्ते, नित्यः शब्दः, तत एव हेतोः, आत्मवत्, इति कश्चित् प्रयुञ्जीत । समं चासाधकत्वमुभयत्र, व्यभिचारात्, इति ॥