मूलम् - 2.4.6
कालात्ययापदिष्टस्तु बलवन्मानबाधितः ।
कालातीतोतीतकालो बाधितश्च स कथ्यते ॥
एकैकद्वित्रिबाधेन सप्तधा स विभागवान् ।
एवं बाधितयोर्भेदः प्रत्यक्षागमयोरपि ॥
यद्यप्येकैकतो बाधेप्याभासत्वं प्रतिष्ठितम् ।
तथाप्यल्पज्ञशिक्षार्थं यावत्संभववर्णनम् ॥
यावद्दोषोक्तिनियमकथायां चोपयुज्यते ।
यथास्मृत्येककथनेप्यनेकं शिष्यमेव हि ॥
न्या. प. अ. 85
तत्र प्रत्यक्षबाधितो हेत्वाभासो यथा-अग्निरनुष्णः, पदार्थत्वात्, घटवदिति । न ह्यत्र ज्वालैक्यप्रत्यक्षवत् पावकौष्ण्यप्रत्यक्षं दुर्बलम्, अनन्यथासिद्धेः । न ह्यौष्ण्यं नाम जगति नास्ति, वह्नौ तदारोपस्याप्यसंभवात् । क्वचित् सिद्धमेवान्यत्रारोप्यम् । तदग्रहे च तदभावलक्षणसाध्यस्याप्यग्रहः । न चाप्रमितसाध्यसामान्यमनुमानं प्रवर्तयितुमलम् । न चोष्णत्वाभावातिरिक्तमनुष्णत्वं नाम किंचित्, भावान्तराभावपक्षेपि तस्य तदभावात्मना निरूपतिस्य व्याप्त्यनुप्रवेशात् । न च तद् द्रव्यम्, तल्लक्षणादृष्टेः । न चावह्निधर्मः, तद्धर्मिणोन्यस्य कुतश्चित् प्रमाणादसिद्धेः, सिद्धौ च तत्रापि पदार्थत्वसद्भावे हेतोपरनैकान्त्यात्, तदसद्भावे तस्यैवासिद्धेः । अत एव वह्नौ तत्सादृश्यतत्संसर्गग्रहाद्यसंभवात् तद्गुणारोपो दुर्वचः । अग्न्यातपोपाधिक एव ह्यन्यत्रौष्ण्योपलम्भः, न तथा तयोस्तदुपलम्भोपाधिं कंचित् पश्यामः । न च तयोः परस्परोपाधिकत्वम्, व्याघातात्, नियामकाभावाच्च । अतोग्न्यातपादिरूपेजोधर्म एवौष्ण्यमित्यनन्यशरणे प्रत्यक्षेनुमानसहस्रेणापि न तत्कम्पनसंभव इति ॥
न्या. प. अ. 86
नन्वेवं ज्वालौक्यप्रत्यक्षेप्यनुमानबोधो न स्यात् । न, तत्रानुमानस्य स्वमूलभूतप्रत्यक्षविशेषप्रतिक्षेपकत्वाभावात् । न हि तत्र भेदसामान्यदिग्रहणं ज्वालैक्यग्रहणोपजीवि । भेदप्रतियोगिन ऐक्यस्याप्यन्यत्र सामान्येन ग्रहणं सिद्धम् । न च कृत्स्नप्रत्यक्षादिबाधकानुमानवत् प्रयोजकवेषेणापि मूलघातः । न च ज्वालान्तरासंभवे दीपसामग्र्यनुवृत्त्योदरेन्यथासिद्धिः सुवचा । न च ज्वालैक्यप्रत्यक्षं तदौष्ण्यप्रत्यक्षवदनन्यथासिद्धम्, निर्वापितारोपितदीपेप्यविदितनिर्वापणस्य तत्त्वप्रत्यभिज्ञानात् । तद्वदेव सादृश्यादिबलादैक्यधीसंभवे शङ्कितान्यथासिद्धेः प्रत्यक्षस्य भेदानुमानप्रतिक्षेपाशक्तेः । सुसूक्ष्मावलोकने च ज्वालाधूमादिसंततिषु निस्तरङ्गप्रवाहतैलधारादिष्विब संचरणभेदाध्यवसायात् । एवमेव देहात्मैक्यप्रतिक्षेपिभेदानुमानस्यैव विजयित्वम्, तप्तायः पिण्डे पावकत्वादिबुद्धिवत् ज्ञातृसंसर्गविशेषात् संघातेपि तद्ग्रहोपपत्तेः । न च पावकवत् ज्ञाता पृथङ्नोपलभ्यत इति वाच्यम्, ममेदं शरीरमिति व्यतिरेकप्रत्ययदशायां
गृहतत्स्थादिवत् पृथगेवोपलब्धेः । न च शिलापुत्रकस्य शरीरं, घटस्य स्वरूपमित्यादिष्विव भेदव्यपदेश औपचारिक इति वायच्म्, तद्वदिह द्रव्यान्तराभावानध्यवसायात् । न च समानाधिकरणप्रत्ययेन व्यतिरेकप्रत्ययबाधः, विपर्यासस्यापि सुवचत्वात् । यथा च व्यतिरेकव्यपदेशस्यौपचारिकत्वशङ्का, तथा समानाधिकरणाधियोपि तप्तायःपिण्डादिष्विव संसर्गोपाधिकत्वशङ्काया अपि दुर्वारत्वात् । न च पावकौष्ण्येपि तथा, व्यतिरेकप्रत्ययपुरस्काराभावात् । भावे वा कस्तत्राप्याश्वासः ? । अपि च व्यतिरेकबुद्धेः प्रथमतः स्तन्येच्छाद्यनुत्पत्तिप्रसङ्गेनानुग्रहाद् देहात्मबुद्धेश्च तेन निग्रहात् प्राबल्यदौर्बल्ये प्रतिभात । न हि भवान्तरीयानुभवजनितसंस्कारमूलतज्जातीयत्वप्रतिसंधानजनितसुखादिसाधनत्वानुमानमन्तरेण प्रथमतः स्वतन्येच्छादेरुत्पत्तिसंभवः । यथा चेदानीमभ्यासभेदाद्रुचिभेदः प्रज्ञाभेदश्च हेत्वन्तरसाम्येपि दृश्यते, तथा प्रसूतमात्रस्यापि प्राग्भवाभ्यासभेदहेतुकप्रज्ञारुचिवैचित्र्यं न सहसा प्रतिक्षेप्तुं शक्यम् । अपि च असमाहितधियामस्मदादीनामपि निरुद्धबाह्यकरणवृत्तीनां मात्रया मनःप्रणिधानेपि ग्रहालोकयोरिव देहदेहिनोर्भेदोपि स्फुरत्येव । विनिष्पन्नसमाधीनां तु विशदतमः इति विशेषः ॥
न्या. प. अ. 87
अत एव हि तस्मिन्नंशे शास्त्रव्यापारः; यथाहुः-
“अवयवितयेदं कुर्वाणैर्बहिः करणैर्वपु-
र्निरवयवकोहंकारार्हः पुमान् करणातिगः ।
स्फुरति हि जनाः प्रत्यासत्तेरिमौ न विविञ्चते
तदधिकुरुतां शास्त्रं रङ्गेश ते परलोकिनि ॥” इति ॥
न्या. प. अ. 88
“आनुमानिकीमप्यात्मसिद्धिमश्रद्दधानाः श्रौतीमेव तां श्रोत्रियाः संगिरन्ते” इत्यात्मसिद्धिग्रन्थोपि तावन्मात्रभिप्रायः । पाणिपादादिषु प्रत्येकसमुदायाहंत्वविकल्पानुपपत्त्यादयश्चास्मदाचार्यैर्न्यायकुलिशे प्रपञ्चिता प्रस्पष्टमनुसंधेयाः । अतो ज्वालैक्यदेहात्मैक्यप्रत्यक्षयोरनुमानेन बाधः सुशकः । दहनौष्ण्यप्रत्यक्षस्य न तथेति तत्रानुमानमेव प्रत्यक्षबाधितमिति पदार्थत्वादेर्हेत्वाभासता ॥
न्या. प. अ. 89
अनुमानबाधितो यथा-प्रथमाद्यास्तिथयः संभवच्चन्द्रसूर्योपरागाः, तिथित्वात्, पर्ववत्, इति । अयं हि उपरागस्य पर्वान्तप्रतिनियतभावित्वग्राहिणा शास्त्रानुमतदृढनिरूढान्वयव्यतिरेकेण गणितानुमानेन बाधितः । आगमबाधितो यथा-परविग्रहादिरुत्पत्तिविलयवान्, सावयत्वात्, संप्रतिपन्नवत्, इति । अयं हि “नित्यालिङ्ग्यास्वभावसंसिद्धिः ।”
“नित्यसिद्धे तदाकारे तत्परत्वे च पौष्कर ।
यस्यास्ति सत्ता हृदये तस्यासौ संनिधिं व्रजेत् ॥”
“नित्यं नित्याकृतिधरम्” इत्यादिभिरागमैरबाधितैर्बाध्यते । न चात्र शास्त्रमन्तरेण पक्षसिद्धिः । न चासिद्धाश्रयो हेतुः साधकः । न च धर्मिग्राहकेणैव बाध इति नियमः, तद्वा तादृग्वेति विशेषायोगे तज्जातीयेनापि बाधोपपत्तेः । एवं ब्राह्मणेन सुरा पेया, द्रवद्रव्यत्वात्, क्षीरवत्, इत्यत्र पातुं शक्यत्वादिविधौ सिद्धसाधनात् पीतायाः पारलौकिकप्रत्यवायसाधनत्वाभाव एव हि सिषाधयिषितः; तत्र प्रतिषेध्यस्वरूपसिद्धेरागमोपज्ञत्वात् तदुपजीविनोऽनुमानस्य तेन बाधः । एवमग्नीषोमीयाधर्मत्वादिसाधनेष्वपि भाव्यम् । द्वाभ्यां द्वाभ्यां त्रिभिश्च बाधितस्तु भिन्नप्रमाणविरुद्धसाध्यकानेकपक्षीकारे तत्तत्प्रमाणविरुद्धानेकसाध्यसहसाधने च तत्तदंशप्रतिनियमेन द्रष्टव्यः; यथा-विप्रतिपन्नं सर्वं दण्डसाध्योत्पत्तिविनाशवत्, वस्तुत्वात्, संप्रतिपन्नघटवत्, इति । संप्लववादे त्वत्यन्तसमानविषयानेकप्रमाणबाध्यत्वमप्यन्वमंसतेति ।