57 विरुद्धः

मूलम् - 2.4.5

साध्यविपरीतव्याप्तो विरुद्धः; यथा-पर्वतोनग्निः धूमवत्त्वादिति ।
सपक्षे सत्यसति च पृथक्पक्षविपक्षयोः ।
व्याप्त्यव्याप्त्योर्द्वयोश्चेति विरुद्धोप्यष्टधा मतः ॥
इष्टप्रतीपव्याप्त्या हि निर्विवादा विरुद्धता ।
विशिष्टसाध्यवैलोम्यात् स्याद्विशेषविरुद्धता ॥
धर्मधर्म्युभयेषां च तद्विशेषत्रयस्य च ।
विपरीतानुगमनादूविरुद्धः षड्विधो मतः ॥
तत्र सति सपक्षे चतुर्णामुदाहृतिः । पक्षव्यापको विपक्षैकदेशवृत्तिर्यथा-अनित्यो जीवः, चेतनत्वादिति । सर्वेषामेव जीवानां सुषुप्त्याद्यवस्थास्वपि संकुचितचैतन्याश्रयत्वं त्रय्यन्ताविद्भिरिष्यते । आगन्तुकचैतन्यवादेपि चैतन्यात्यन्तायोगव्यवच्छेदलक्षणं चेतनत्वं सर्वेषु जीवेषु विद्यत एवेति पक्षव्यापकता । विपक्षव्यापकः
पक्षैकदेशवृत्तिर्यथा-नित्यौ पृथिव्यात्मानौ, कृतकत्वादिति । उभयव्यापको यथा-नित्यः शब्दः, कृकत्वादिति । उभयाव्यापको नित्यमिच्छतः तत्रापि हेतुवृत्तेर्विपक्षैकदेशवृत्तिता । असति सपक्षे त्वन्ये चत्वारः । तत्र पक्षव्यापकः विपक्षैकदेशवृत्तिर्यथा यथा-चेतनाः सर्वे निरतिशयानन्दधर्मकाः, स्वयंप्रकाशत्वात् इति । स्वयंप्रकाशत्वं हि वेदान्तिनां सर्वात्मव्यापकम्, अचेतनत्वादनानन्दिनि धर्मभूतज्ञानाख्ये विपक्षे च वर्तत इति । विपक्षव्यापकः पक्षैकदेशवृत्तिर्यथा-सर्वेप्यात्मानः सर्वज्ञाः, अकर्मवश्यत्वात् इति । कर्मवश्यत्वाभावो ह्यचेतनेषु सर्वेषु विपक्षेषु व्याप्तः, पक्षे चेश्वरांश इति । उभयव्यापको यथा-कादाचित्कं सर्वमनित्यम्, वस्तुत्वात् इति । अत्र वस्तुतः कादाचित्कानामनित्यत्वेप्यस्मिन् प्रयोगे वस्तुत्वहेतोर्विपरीतव्याप्तया विरुद्धता । उभयैकदेशवृत्तिर्यथा-तत्रैव साध्ये द्रव्यत्वादिति । ननु पक्षस्पर्शरहितोपि नवमो विरुद्धः संभवति-नित्य आत्मा कृतकत्वात् इति; अत्र हि सर्वस्मिन्नात्मजाते कृतकत्वं नास्त्येव, विपक्षे च सर्वत्र वर्तते; अत एव हि साध्यविपरीतव्याप्तो विरुद्ध इति लक्षणं प्रणीतमस्माभिः, न तु पक्षविपक्षयोरेव वर्तमान इति । ततश्च सत्यसति च सपक्षे सर्वपक्षावृत्तिविपक्षव्यापकाव्यापकरूपविरुद्धचतुष्टसंभवाद् द्वादशविधो विरुद्ध इति । विशेषविरुद्धत्वमपि व्याप्तिदशानुविधायिस्वरूपवैकल्यवति प्रागुदाहृते प्रतिसंधानीयमिति ॥