मूलम् - 2.4.4
सव्यभिचारोनैकान्तिकः । स द्विधा-साधारणोसाधारणश्चेति । पूर्वः पक्षत्रयव्यापी । उत्तरः पक्षमात्रनिष्ठः । यथा हि पक्षसपक्षमात्रविषयस्यान्वयस्य विपक्षवृत्तिर्व्यभिचारः, तथा सपक्षैकदेशमात्र विषयस्य व्यतिरेकस्य स्वस्थानातिक्रमेण सपक्षव्याप्तिर्व्यभिचार इत्येके । असाधारणस्त्वनध्यवसितसंज्ञं हेत्वाभासान्तरमिति भूषणः । द्वावप्यष्टविधौ; यथा हि-
त्रयाणामपि पक्षाणां व्यापकोव्यापकस्तथा ।
एकद्विव्यापकाः षट् चेत्येवं साधारणोष्टधा ।
निःसपक्षो निर्विपक्षो द्वयं निर्विषयं तथा ।
पक्षव्याप्तितदव्याप्त्योरष्टौ साधारणाः स्मृताः ।
केचित् सपक्षे सत्येव तथाभासत्वमब्रुवन् ।
तदसत् सकलं नित्यं सत्त्वादितयादिसंभवात् ॥
न्या. प. अ. 81
तत्र पक्षत्रयव्यापकसाधारणो यथा-क्षित्यादिकं सकर्तृकम्, प्रमेयत्वात्, घटवत्, इति । तत्रैव परिमितपरिमाणत्वादिति पक्षत्रयैकदेशवृत्तिः, पक्षसपक्षभूतगुणकर्मणोरवृत्तेः, विपक्षेषु च विभुष्ववृत्तेः । पक्षव्यापकः सपक्षविपक्षैकदेशवृत्तिर्यथा-पर्वताश्चूर्णीभविष्यन्ति, प्रत्यक्षग्राह्यत्वात्, घटवत्, इति । अयं हेतुः सपक्षतयाभिमतेद्व्यणुकादौ, विपक्षे चेश्वरादौ न वर्तते । सपक्षव्यापक इतरैकदेशवृत्तिर्थथा-कालजीवाननित्यौ, अचेतनत्वात्, पृथिव्यादिवत्, इति । नित्येश्वराभ्युपगमपक्षे तस्य विपक्षत्वादत्राचेतनत्वस्य विपक्षैकदेशावृत्तिता । विपक्षव्यापकः पक्षसपक्षैकदेशवृत्तिर्यथा-कालात्मानावनित्यौ, कालघटव्यतिरिक्तत्वात्, घटवत्, इति । अत्र सपक्षे घटे पक्षे च काले कालघटव्यतिरिक्तत्वं नास्ति । एते त्रय एकैकव्यापकाः । अथ द्विव्यापकास्त्रय उदाह्वियन्ते । तत्र पक्षेतरव्यापको यथा-अनित्यौ पृथिव्यात्मानौ, पृथिवीव्यतिरिक्तत्वात्, प्रदीपवत्, इति । सपक्षेतरव्यापको यथा-अनित्यः शब्दः, घटव्यतिरिक्तत्वात्, पटवत्, इति । विपक्षैकदेशवृत्तिरितरव्यापको यथा-त्रसरेणुः सावयवः,
द्रव्यत्वात्, घटवत्, इति । अत्र पक्षैकदेशवर्तिनां चतुर्णां भागासिद्धलक्षणयोगेपि व्यभिचारादनैकान्त्यमप्यस्तीति दूषणसंभेदसंभवज्ञापनायोदाहृतिः । एवमन्यत्रापि ग्राह्यम् । अत्र चासिद्धिवदन्यतरोभयभेदेनापि विभागोनुसंधेयः । न ह्यसिद्धावेवायं विभाग इति नरपतिशासनम्, विपरिवर्तवैयात्यस्य दुर्वारत्वात्, उदाहरणदर्शनाविशेषाच्च । तथाहि-नित्या वर्णाः, श्रवणत्वात्, शब्दत्ववत्, इति कुमारिलेनोक्ते काणादः स्वानभ्युपगतैरपि श्रावणतया तदभ्युपगतैर्ध्वनिधर्मैरनैकान्त्यमुद्भावयन् कथं प्रतिक्षेप्यः ? कथं वा शब्दतया स्वाभ्युपगतैरेव समुद्रघोषादिभिरनित्यैरसिद्धिवत् परमतमूलमनैकान्त्यम् ? । स्वमतमूलं तु तद्वदेव दुरुत्तरमिति । एवमन्यत्राप्यन्यतरोभयभेदेन संभव ऊह्यः । त्तत्पदार्थभेदाभ्युपगमानभ्युपगमवशेन तत्संभवादिति ॥
न्या. प. अ. 82
यस्त्वनध्यवसितापरपर्यायोसाधारणोष्टधा विभक्तः, तत्र सपक्षशून्यः प्राङ्निरूपितः केवलव्यतिरेक्येव । पराभिमतः विपक्षरहितो यथा-सर्वं कार्यजातं पक्षीकृत्याह-विगीतं नित्यम्, कादाचित्कत्वादिति । उक्तिविरोधोत्र संभिद्यते । सपक्षविपक्षरहितो यथा-सर्वमनित्यं सत्त्वादिति । इह तु व्यतिरेकिहेतौ विरोधोपि प्रतिनियतश्च । यन्नित्यं तदसदिति व्यतिरेको ह्यभिधेयमपि नाधिरोहेत, किमुतवाचम् । नित्यत्वं हि कालानवच्छिन्नसत्तायोगः । एवमनित्यत्वादिसाध्यान्तरेष्वप्यूह्यम् । सपक्षविपक्षवान् यथा-पृथिव्यनित्या गन्धवत्त्वादिति । एते पक्षव्यापिनः । तदेकदेशवर्तिनोपि चत्वारः स्वयमूह्याः । एषामष्टानां साध्यसंबधाग्रहणं समानमिति तुल्ययोगक्षेमतैव ॥
न्या. प. अ. 83
ये च केवलव्यतिरेकिप्रामाण्यमिच्छन्ति, तैरपि सपक्षशून्यस्य पक्षमात्रवर्तिनः क्वचिदाभासत्वमेष्टव्यम् । तथाहि-सर्वं कार्य नित्यसुखाद्याश्रयकारणकम्, शशविषाणपूर्वकं वा, कादाचित्कत्वात्, इत्युक्ते सपक्षरहितस्यापि कादाचित्कत्वस्य न सम्यग्घेतुत्वमिष्टम् । विपक्षे बाधकाभावादिना तदाभासत्वमिति चेत्, तुल्यं सर्ववित्कर्तृपूर्वकत्वसाधनेपि, तमन्तरेणापि तैस्तैरेव हेतुभिरदृष्टसहकृतैस्तत्तत्कार्योदयसंभवात् । अदृष्टस्याचेतनत्वाच्चेतनानधिष्ठितस्य न कार्यारम्भप्रवृत्तिसंभव इति चेत्, किमिदमधिठानं नाम ? किं वास्यादिवत् प्रेरणापरपर्यायं क्रियावत्त्वापादनम्, उतावस्थान्तरापादनमात्रम्, उत प्रयत्नवतः संनिधानमात्रमेव, अन्यद्वा किंचिदिति ? नाद्यः, गुणतयाभ्युपगतस्यादृष्टस्य क्रियावत्त्वासंभवात् । न द्वितीयः, अद्रव्यत्वादेव । न च तृतीयः, प्रयत्नजन्यफलानाधारे प्रयत्नवदधिष्ठितत्ववाचोयुक्तेरनर्थकत्वात् । प्रयत्नसहकारित्त्वेनावस्थानमात्रमित्यप्ययुक्तम्, क्रियाहेतुगुणेष्वन्यतरमात्रेणापि क्रियोपपत्तौ गुणान्तरकल्पनानैरर्थक्यात् । अदृष्टस्य च क्रियाहेतुत्वम् “अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि” इति वदद्भिः स्वीकृतम् । अचेतनं चेतनाधिष्ठितमिति व्याप्तिश्च चैतन्ये प्रयत्ने वा व्यभिचारिता, अन्यथानवस्थादिप्रसङ्गात् । तद्व्यतिरिक्तत्वे सतीति विशेषणमपि निर्मूलम्, अनीश्वरचैतन्यप्रयत्नयोरीश्वराधिष्ठितत्वाभ्युपगमात्, ईश्वरगुणयोस्तु तयोरसिद्धौ व्यवच्छेद्यासिद्धेः, सिद्धौ तु चेतनाधिष्ठानादिमुखेन तदनुमाननैष्फल्यात् । अत एव न चतुर्थः, तथाविधस्य कस्यचित् कुतश्चित् प्रमाणादसिद्धेः, इत्यलं प्रसक्तानुप्रसक्त्या ॥