55 असिद्धः

मूलम् - 2.4.3

तत्र व्याप्तिपक्षवृत्तिनिश्चयरहितोसिद्धः । तद्भेदास्तु न्यायतत्त्वे संग्रहेणोक्ताः– “अज्ञातसंदिग्धविपरीतास्तिस्त्रोसिद्धयः” इति । सर्वत्रापि पक्षादिष्वज्ञानसंशयविपर्ययैस्त्रिभिरेव ह्यसिद्धिर्भवति ।
पक्षतद्धर्मभागानां साध्यतद्धर्मयोस्तथा ।
हेतुतद्व्याप्तिधर्माणां स्वरूपेणाप्रसिद्धितः ॥
हेत्वंशयोरिहासिद्धेर्वा वैयधिकरण्यतः ।
पक्षांशसाध्यहेतुस्थविशेषणविशेष्ययोः ॥
वैयर्थ्यादत्र सर्वत्र वादिनः प्रतिवादिनः ।
द्वयोश्च निर्णयात् तद्वत् संशयात् सिद्धसाधनात् ।
असिद्धयोंशसिद्धेश्च विविच्यन्ते शताधिकाः ॥
न्या. प. अ. 77
यद्यपि व्यर्थविशेषणत्वादिकं न वस्तुतोसिद्धरूपम्, तथापि तत्त्वरत्नाकरादिषु परानुसारेण तथोक्तम् । व्यर्थमभिदधानो वादी त्वर्थान्तराख्यनिग्रहस्थानेन निगृह्येत; न त्वसिद्ध्या, प्रकृतानुपयुक्तस्य स्वरूपासिद्धत्वादसिद्धत्वेपि स्वरूपासिद्धेरेव वाच्यत्वात् । व्यर्थविशेषणप्रयोगेपि विशेष्यमात्रव्याप्तेरनपक्रमाद् विशिष्टस्यापि व्यभिचाराभावेन व्याप्तिसिद्धेः । न हि, कार्यत्वमनित्यत्वं न व्यभिचरति, प्रयत्नकार्यत्वं तु व्यभिचरतीति संभवति । न च, धूमवत्त्वालोकवत्त्वे प्रत्येकं पावकाविनाभूते, धूमवत्त्वे सत्यालोकवत्त्वादिति प्रयोगे त्वविनाभावं त्यजत इति युक्तिमत् । अतो व्यर्थविशेष्यत्वेपि न व्याप्तिभङ्गः । पक्षादिविशेषणादिवैयर्थ्येषु तु न व्याप्यत्वासिद्धिप्रसङ्गोपि । केचित्तु असिद्धिं चतुर्धा संगृह्णन्ति; तथाहि-व्याप्तत्वे सति पक्षधर्मतया प्रमितिर्हि हेतोः सिद्धिः । तदभावश्च व्याप्तेः पक्षस्य तद्धर्मस्य तत्प्रमितेर्वा खल्वभावात् स्यात् । तत्र च व्याप्यत्वासिद्धिः, अश्रयासिद्धिः, स्वरूपासिद्धिः, तत्रैवाज्ञानासिद्धि समाख्यानिवेशः इति ॥
न्या. प. अ. 78
नन्विदमसिद्धलक्षणमतिव्याप्तम्, विरुद्धानैकान्तिकयोरपि व्याप्त्यभावेन व्याप्यत्वासिद्धत्वप्रसङ्गात् । न चैतदिष्टम्, पृथगेव परिसंख्यानात् । अथैतत्परिहारायानिश्चितपक्षवृत्तिरसिद्ध इति लक्ष्येत, तदा त्वव्याप्तिः, व्याप्यत्वासिद्धसंग्राहकत्वाभावात् । न चान्यत्र तत्प्रवेश इष्टो दुष्टो वा । किं च साध्यधर्मविशिष्टो धर्मी पक्ष इति सिद्धसाध्यस्यापक्षत्वात् तन्निष्ठस्य सिद्धसाधनाख्यस्य हेतोराश्रयासिद्धत्वमुच्यते; तथा सति साध्याभाववत्तया निश्चितस्यापि संदिग्धसाध्यत्वलक्षणपक्षत्वाभावेनापक्षत्वाद् बाधितस्यापि हेतोराश्रयासिद्धतैव स्यात् । प्रमाणबाधितस्यापि साध्यस्य सिषाधयिषितत्वमात्रेण साध्यत्वात् तद्विशिष्टस्य पक्षत्वमिति चेत्, प्रमाणसिद्धस्यापि तथा किं न स्यात् ? । अपि च व्याप्तिपक्षवृत्तिनिश्चय एव हि हेतोरङ्गम्; तदभावलक्षणश्चासिद्धो हेत्वाभासमात्रपर्यायः स्यात्; न तु तद्विशेषः । अतः प्रागुक्तप्रस्थानेन द्वैधमेवोचितम् इति । सत्यम, तथापि हेत्वाभासान्तराणां पृथग्लक्षणसंभवस्य वक्ष्यमाणप्रकारसिद्धत्वात् तल्लक्षणानाक्रान्तत्वे सति हेतुरूपासिद्धेरिह लक्षणत्वेन विवक्षितत्वान्न दोष इति । तथैव सिद्धासाधनमपि बाधितसाधनवत् पुथक्कृत्य कश्चित् तद्व्यतिरेकमप्यसिद्धलक्षणे निवेशयेदिति चेत्, का नो हानिः ? विवक्षावैचित्र्येण न्यूनाधिकोद्देशलक्षणादेः प्रारम्भाह्निक एव प्रदर्शितत्वात्, अत्र तु पञ्चधा परिगणयतामभिप्रायेणैव संग्रहात् । न चैकीकरणपृथक्करणाभ्यामाभासस्यानाभासता स्यात्, येनान्यतरपर्युदासे प्रयस्येम । उद्भावनेपि सामान्यरूपे विशेषरूपेपि तुल्यार्थतैव विवक्षिता । सामान्यनिर्देशेपि कथमिति विशेषमनुयुक्तेन स एव हि वक्तव्यः इति ॥
न्या. प. अ. 79
अथात्र काश्चिदसिद्धय उदाह्वियन्ते । तत्र व्याप्यत्वासिद्धः प्रागुक्तो रूपवैकल्यकल्पितोपाधिको द्रष्टव्यः । तत्र च संदिग्धोपाधिके संदिग्धव्याप्यत्वासिद्धता । आश्रयासिद्धो यथा-श्शश्रृङ्गं तीक्ष्णम्, श्रृङ्गत्वात्, इति । स्वसिद्धान्तमात्रसिद्धप्रकृतिपरमाण्वादिपक्षीकारे त्वन्यतराश्रयासिद्धः । आश्रयभागासिद्धो यथा–अवयवावयविनौ नित्यौ, द्रव्यत्वात्, इति; न ह्यवयवसमुदायातिरिक्तमवयविशब्दार्थं त्रय्यन्तविद इच्छन्ति । स्वरूपासिद्धो यथा-नित्यं नभः, निरंशत्वात्, इति; अत्र हि “योम्नोर्धभागाश्चत्वारो वायुतेजःपयोभुवाम् ।” इत्यादिपञ्चीकरणवाक्यबलादागमिकैर्नभसोपि सांशग्धासिद्धः । साध्यस्यैव हेतुतया प्रयोगे च साध्याविशिष्टाख्यः स्वरूपासिद्धभेदः; यथा-क्षित्यादिकं सकर्तृकम्, बुद्धिमत्पूर्वकत्वात्, इति । यदा तु सिद्धं साध्यं हेतुतया प्रयुज्येत, तदा त्वेवं स्वरूपासिद्धता वाच्या; सिद्ध एव हि हेतुः प्रयोक्तव्यः; स च साध्यात्मा चेत्, कथं नासिद्ध इति । अत्र च स्€वेनैव ज्ञातेन स्वयं ज्ञाप्यत इत्यात्माश्रयद्वारेणासिद्धौ विश्रमः । धूमानुमानादिष्वेवाविदितधूमादिस्वरूपस्याज्ञानासिद्धिः । व्यधिकरणासिद्धो यथा-पर्वतो वह्निमान्, महानसस्य
धूमवत्त्वात्, इति । यद्यपि धूमवत्त्वात् वह्निमत्त्वं सिध्यति; तथापि नान्यनिष्ठेन; तथापि प्रयुज्यमानवेषेण हेतुरसिद्ध एवेति युक्तं यथोद्भावनम् । अत एवानुपयुक्तपदोपादानेनार्थान्तरनिग्रहतैवेत्यापि न शङ्खनीयम् । दृष्टान्तस्थितहेतुव्यक्तिविशेषः पक्षे नास्तीति तस्य तत्र प्रयुज्यमानस्यासिद्धता युक्ता । दृष्टान्तस्थितस्यापि तस्य व्याप्तिग्रहणमुखेन प्रकृतोपयोगान्न सहसार्थान्तरत्वं वक्तुं शक्यम् । यदि हि वक्ता पर्वतस्थधूमवत्त्वमेव हेतुमभिसंधाय महानसस्येत्यनुपयुक्तं ब्रूयात्, तदैवं स्यादपि; न च तथा विवक्षास्माभिस्तद्वाक्यमन्तरेण निश्चेतुं शक्या । तथा चेद् ब्रूयात्, तथापि महानसस्येति पदस्यानन्वयान्निग्रहस्थानान्तरता । अन्वितानुपयुक्तवचने ह्यर्थान्तरावकाशः, उभयसंनिपातेभ्युद्भटस्यैवोद्भाव्यत्वादिति । स्वरूपभागासिद्धो यथा–घटव्यतिरिक्तं सर्वमनित्यम्, कार्यत्वात्, घटवत्, इति; न हि पक्षीकृतेष्वीश्वरादिषु स्वरूपतः कार्यत्वम् । येनाकारेण कार्यत्वं, तेनाकारेणानित्यत्वसाधने तु सर्वत्रैव सिद्धसाधनतेति विशेषः । सिद्धसाधनस्य चात्रयासिद्धताप्रकारोपक्षधर्मत्वप्रतिपादनेन प्रागुक्तः । सिद्धेष्वेव पक्षेषु हेतोः क्वाचित्कत्वे स्वरूपभागासिद्ध इति विशेषः । विशेषणासिद्धो यथा-क्षित्यादिकम् अस्मदाद्युत्तीर्णकर्तृकम्, अस्मदाद्यशक्यक्रियत्वे सति कार्यत्वात्; यद् येनाशक्यक्रियं कार्यम्, तत् ततोन्यकर्तृकम्; यथा मनुष्याद्यशक्यक्रियं ततोन्यकर्तृकं वल्मीकादि, इति । अत्रास्मदादिशब्देन सर्वजीवग्रहणे विशेषणासिद्धः, अस्मदादीनामेवोपचितपुण्यानां विश्वामित्रादिवद्वक्रिकादिवच्च विचित्रतरमहत्तरसूक्ष्मतरकार्यारम्भसंभवात् । न च तेषां तेषु तेष्वकर्तृत्वम्, कुलालादिष्वपि प्रसङ्गात् । न हि कुलालादयोपि सामग्र्यन्तर्भूतमदृष्टादिकमसमवायिकारणभूतमान्तरसूक्ष्मावयवसंयोगादिकं च यथावत्, साक्षात्कुर्वन्ति । अपि तु एवं व्यापृते सत्येतत् कार्यं भवतीति प्रमाणतोध्यवसाय प्रवर्तन्ते । तदेतत् तुल्यं विश्वामित्रादिष्वपि । प्रमाणं त्वन्वयव्यतिरेकादिकं, शास्त्रं चेति क एष विशेष इति? । एष एव हेतुर्व्युत्क्रमेण पाठे विशेष्यासिद्धः । एवमुभयथासिद्धिराश्रयदृष्टान्तविशेषणाद्यसिद्धिश्च ग्राह्या । यच्चात्र हेत्वाभासेप्यसिद्धे हेतुरसिद्ध इत्युद्भावनम्, न तत्र व्याघातः शङ्कनीयः, हेतुतयात्वदभिमत इति वाद्यभिप्रेयत्वात् । एवमाभासान्तेरष्वपीति ॥