54 हेत्वाभासाः

मूलम् - 2.4.2

अव्याप्तापक्षधर्मौ द्वौ हेत्वाभासौ समासतः ।
तयोरेव प्रपञ्चेन स्यादसिद्ध्यादिकल्पना ॥
यदुक्तं न्यायतत्त्वे– “असिद्धानैकान्तिकविरुद्धा हेत्वाभासाः” इति, तत्रासिद्धोपक्षधर्मः; इतरावव्याप्तभेदौ हेत्वाभासौ । तावन्मात्रोक्तिश्च प्रदर्शनार्था । प्रयोजकान्तरेण वा तदन्यसंग्रहस्तत्र विवक्षितः । ये चासाधारणबाधितप्रकरणसमादयो भेदाः कथ्यन्ते, तत्रासाधारणस्याव्याप्तत्वं केवलव्यतिरेकिनिराकरणे प्रदर्शितम् । अनैकान्तिकभेदश्चासौ कैश्चिदुक्तः; तथा चोक्तमागमप्रामाण्ये- “स न तावदनैकान्तिकः; स हि द्विधा-साधारणासाधारणभेदात्” इति । बाधितस्य तु न पक्षधर्मत्वम्, नापि व्याप्तिरिति दूषणद्वयसमुच्चयः । न हि साध्याभाववत्तया निर्णीतस्य संदिग्धसाध्यत्वलक्षणं पक्षत्वम् । न च हेतुमति पक्षे साध्याभाववत्तया प्रमिते हेतोर्व्याप्यताग्रहणसंभवः । प्रकरणसमस्य तु प्रतिसाधनप्रतिरुद्धत्वलक्षणस्यानिर्णीतबलत्वाद् बलस्य च व्याप्तिपक्षधर्मतानतिरेकाद् व्याप्त्याद्यनिश्चयेन तयोरेवान्तर्भावः । स्वपक्षसिद्धाविव परपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः कैश्चिल्लक्ष्यते । यथा-नित्यः शब्दः, पक्षसपक्षयोरन्यतरत्वात्, आकाशवत् । अनित्यः शब्दः, पक्षसपक्षयोरन्यतरत्वात्, घटवदिति । तत्रेदं लक्षणमसंभवीत्येके, एकस्य पक्षद्वयेपि त्रैरूप्यासंभवात् । नित्यत्वे हि साध्ये शब्दाकाशयोरन्यतरत्वादिति हेत्वर्थः । अनित्यत्वे तु शब्दघटयोरन्यतरत्वादिति । न च शब्दसारूप्यमात्रेण हेतोरेकता, अतिप्रसङ्गात्, इति । तत्र यद्यप्येतस्मिन्नुदाहरणे लक्षणमसंभवि, तथापि महाविद्यादिप्रस्थानेषु केषांचिद्धेतूनां साध्यतदभावयोः समानाकारतया संभवं पश्यामः; यथा-शब्दः स्वस्वेतरवृत्तित्वानाक्रान्तानित्यनिष्ठाधिकरणम्, प्रमेयत्वात्, घटवदिति शब्दानित्यत्वसाधने प्रवृत्तः प्रमेयत्वहेतुरेक एव; शब्दः स्वस्वेतरवृत्तित्वानाक्रान्तनित्यनिष्ठाधिकरणम्, प्रमेयत्वात्, आकाशवदित्यपि शब्दनित्यत्वस्थापने पूर्ववृत्तिरूप उपलभ्यते । अतो “नोदाहरणमादरणीयम्” इति न्यायाल्लक्षणासंभवोद्यं हस्तालोचः । क्व तर्ह्यस्यान्तर्भावः ? अविनाभावादिसंभावनायामपक्षधर्मे, अन्यदा त्वव्याप्ते । यदि पक्षे व्यापकप्रतीत्यपर्यवसानबलादनित्€यत्वं साधयेत्, स एव हेतुः कथं न तद्विपरीतव्यापकप्रतीत्यपर्यवसानेन नित्यत्वमपि ? ततश्चाविशेषादुभयत्रापि व्याप्तिर्न स्वाभाविकीत्यव्याप्तकोटौ निक्षेपः । यथा च परपक्षवत् स्वपक्षस्यापि बाधकमुत्तरं जात्युत्तरमिति व्यवहरन्ति, तथा वाद्यभिमतसाध्यवत् तद्विपरीतप्रतिवाद्यभिमतसाध्यस्यापि साधकत्वप्रसङ्गादर्थत उभयासाधकान्येतानि जातिसाधानानीति च केचिदूचुः । अपि चैषां साध्यतदभावसाधने समानाकारत्वादेवानैकान्तिकवदव्याप्तत्वं सुव्यक्तम्, उभयत्र विपक्षे बाधाकाभावाच्च । न चोभयत्र तत्संभवः, व्याघातात्, एकस्मिन् विरुद्धयोरिव विरुद्धोभयप्रतिक्षेपयोरपि परस्परात्मनोरतिरिक्तयोर्वा समुच्चयासंभवात् । न च
शीतोष्णव्यतिरेकवत् कोट्यन्तरोपलम्भः, भावाभावात्मना विरोधे तत्तदन्यात्मना विभागे च तदसंभवात् । अत एव ह्यनिर्वचनीयानेकान्तवादयोरनवतारः । अस्त्वन्यतरद्विपक्षे बाधकमिति चेन्न; तथापि तादृशरीतेः कुटिलोन्नीतिकल्पिताया विपक्षे बाधकविरहादप्रयोजकत्वं सिद्धम् । प्रमाणान्तरबलात्तु सिध्यतः साध्यविशेषस्य विपर्यये बाधकमप्यस्तु; न पुनर्महाविद्यादिहेतुभिरप्रयोजकैः सिध्यतः । अप्रयोजकोन्यथासिद्धः, उपाधिमान् व्याप्यत्वासिद्ध इति वानर्थान्तरमित्यतोपि न द्वितीयबहिर्भावः; तथाहि-
विपक्षे बाधकाभावादुपाधेर्वापि संभवात् ।
हेत्वाभासोन्यथासिद्ध्यन्न प्रयोजक इष्यते ॥
पञ्चभ्यः पृथगेवैनं कति चित् संप्रचक्षते ।
व्याप्यत्वासिद्धभेदोयमिति त्वाहुर्मनीषिणः ॥
विपक्षे न हि निर्बाधे व्याप्तिः कापि प्रसिध्यति ।
प्रतिकूलेषु तर्केषु सत्सु धात्राप्यनिश्€चयात् ।
व्याप्तिस्वरूपवैकल्यकल्पितोपाधिकेषु नः ।
अप्रयोजकतावादः प्राचां प्रागेव दर्शितः ॥
न्या. प. अ. 76
अन्येप्याहुः-
“समासमाविनाभावावेकत्र स्तो यदा तदा ।
समेन यदि नो व्याप्तस्तयोर्हीनोप्रयोजकः ॥” इति ।
शाबरवार्तिककारश्च-
“व्याप्तेश्च दृश्यमानायाः कश्चिद्धर्मः प्रयोजकः ।
अस्मिन् सत्यमुना भाव्यमिति शक्त्या निरूप्यते ।
अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः ।
दृष्टैरपि न तैरिष्टा व्यापकांशावधारणा ॥” इति
एनमेव संदिग्धव्याप्तिकं बाह्याः पठन्ति-
“साध्यादन्येन धर्मेण सपक्षेष्वनुयायिना ।
विनापक्षे स्थितो धर्मः संदिग्धव्याप्तिको मतः ॥” इति ।
इति ॥ तस्मादव्याप्तभेद एवायमप्रयोजकः, तत्स्वभावानतिलङ्घनाच्च । श्रीमहाविद्यामानमनोहरप्रमाणमञ्जर्यादिपठितवक्रानुमानस्यापि तथात्वम् । एवं पक्षदृष्टान्ताभासानामपि हेत्वाभासेष्वेवान्ततो निवेशः । तेषां च तयोरितरत्रैव विश्रमः, सर्वेष्वपिपक्षाभासेषु हेतोरपक्षधर्मत्वात् । न हि पक्षाभासधर्मस्य पक्षधर्मता । न हि साध्यसाधनोभयविकलाश्रयहीनेषु दृष्टान्ताभासेषु हेतोर्व्याप्तिग्रहः शक्यः, सर्वेषु च
दृष्टान्ताभासेष्वव्याप्तत्वात् । सिद्धसाधनेपि हि पक्षधर्मत्वं न सिध्यति, सिद्धधर्मविशिष्टत्यापक्षत्वात् । यदि पक्षीकृतेष्€वेकत्र साध्यं प्रसिद्धं, तदा अंशे सिद्धसाधनादंशतोपक्षधर्मत्वम् । यदा तु सिद्धमसिद्धं च साध्यद्वयं प्रयुञ्जीत, तदापि सिषाधयिषितस्य सर्वस्य साध्यत्वाभावादंशतः सिद्धसाधनादंशतोपक्षधर्मत्वम् । अतोतिपीडायां द्वावेव हेत्वाभासौ । पूर्वेषां तु पक्षाभासादिपृथगुदाहरणवत् स्फुटतया पृथगुद्भाव्यत्वायाधिकपरिगणनम् । तदनुसारेण ब्रूमः-
तत्र न्यायतत्त्वोक्तास्त्रयः । तदभिप्रेतौ कालात्ययापदिष्टप्रकरणसमाविति पञ्च हेत्वाभासाः ।