53 अवतारिका

मूलम् - 2.4.1

॥ चतुर्थमाह्निकम् ॥
अथ प्रमाणाभासाः-अप्रमाणत्वे सति प्रमाणव्यवहारविषयास्ते । प्रमाणचातुर्विध्यात् तदाभासा अपि चतुर्विंधाः । प्रत्यक्षानुमानागमस्मृत्याभासभेदात् । एषामवान्तरलक्षणं सामान्यलक्षणच्छाययैव सुगमम् । तत्र प्रत्यक्षाभासो यथा-द्वौ चन्द्रमसौ, पीतः शङ्क्षः, इत्यादिः । विषयेन्द्रियादिदोषादस्योद्भवः । इमं च प्रमाणतयोपन्यस्यतोस्य हेत्वाभासवन्निग्रहो भवत्येव । अक्षपादसूत्रेपि हेत्वाभासग्रहणमुपलक्षणम्; च शब्दाद्वा अनुक्तसमस्तसंग्रहः । अनुमानाभासो यथा-बाष्पादिषु धूमत्वाद्यारोपेण धूमवत्त्वात् पर्वतोग्निमानित्यादिः ॥