मूलम् - 2.3.12
स्वोत्प्रेक्षितसाधनदूषणादिप्रतिक्षेपः उत्प्रेक्षासमः; यथा- शब्दानित्यत्वे वादिना प्रतिज्ञाते भण्डः प्रतिवाद्याह-अलमेतावता, शब्दानित्यत्वे प्रतयक्षत्वं हि त्वया हेतुरभिधित्सितः, स च सामान्यादिभिरनैकान्तिक इति साधनोत्प्रेक्षया प्रतिक्षेपः । एवं शब्दोनित्यः कृतकत्वादिति हेतुं प्रयुज्य वादी स्वयमेवाह-असिद्धत्वमिह दूषणं त्वया विवक्षितम्, तच्चात्र नास्ति, प्रत्यक्षत एव कृतकत्वसिद्धेरिति । निर्मर्यादाये तु लक्षयन्ति-
“असिद्धातां वादिहेतोरुक्त्वा तां साधयेत् स्वयम् ।
तद्दूषणानमूलहेतुभङ्गः कार्यसमो मतः ॥” इति,
अयमपि अस्मदुक्तोत्प्रेक्षासामावान्तरभेद एव । न चैतदेव लक्षणं युक्तम्, उदाहृतोदाहरणान्तरासंग्रहात् । न च कार्यसमसमाख्यैव सर्वत्रोचिता, अवाचकत्वात्युक्तस्त्ववान्तरविशेषमुदाहरतः सूत्रकृतस्तत्र तन्निवेशः । एवं दृष्टान्ततर्कोत्प्रेक्षादयोपि द्रष्टव्याः । न चात्र स्वोत्प्रेक्षतदूषणमात्राच्छलत्वं शक्यं वक्तुम् शब्दार्थारोपणाभावात्, पाक्षिकपराभिमतिसंभवाच्च । यत्तु सौगतैरुक्तम्-
“साध्येनानुगमात् कार्यसामान्येनापि साधने ।
संबन्धिभेदाद् भेदोक्तिदोषः कार्यसमो मतः ॥” इति,
अत्रापि यदि कार्यत्वहेतोः पक्षदृष्टान्तयोस्ताल्वादिपूर्वकत्वमृद्दण्डादिपूर्वकत्वलक्षणविशेषप्रदर्शनमात्रे विश्रमः, तदा जातित्वमेव नास्ति; कुतस्तद्विशेषता ? । अनुपयुक्तवादी त्वयमर्थान्तरेण निग्राह्यः । अथ दृष्टान्तस्थविशेषस्य व्यापकत्वाभिमानेन साध्यापकर्षविवक्षा, तदा अपकर्षसमभेदोयम्; यदा तु साधनवैकल्यहेत्वसिद्ध्यादिष्वभिप्रायः, तदापि वर्ण्यावर्ण्यसमयोरनुप्रवेश इति न पृथग्जातिता । अतोस्मदुक्तप्रक्रियैवात्र साधीयसीति ॥
न्या. प. अ. 72
अत्र परमतपारीणत्वाभिमानो वा स्वोत्प्रेक्षितातिरिक्तासंभवाभिमानो वा संभवेपि तुल्यन्यायत्वाभिमानो वा प्रतिवादिनस्तथाविधाभिमानजननमनोरथो वा स्यादुत्थानहेतुः । यथायथं सर्वं दूषणमारोप्यम् । तत्तद्भ्रमः फलम् । दूष्टत्वमूलं त्वसाधारणमविषयवर्तित्वम् । प्रतिवाद्युक्तमेव हि दूषणस्य विषयः, न तु तदभिप्रेतमप्यनुक्तम्; अनभिप्रेतं तु किं पुनः ? अन्यथा उपर्युपरि साधनदूषणपरम्परोत्प्रक्षेणेनोपन्यासप्रक्रियया प्रतिवादिनोनवसरप्रसङ्गः; कथायाश्च विश्रमः कदा चिदपि न स्यात् । किं च, यदि सम्यञ्चं हेतुमन्यं प्रतिवाद्यभिप्रैति, स्वयं तु सम्यञ्चमसम्यञ्चं वा कंचिदन्यमुत्प्रेक्ष्य दूषयति, तदा प्रतिवाद्यभिप्रेतस्य हेतोः किमायातम् ? । न च तस्य तुल्यन्यायता निश्चेतुं शक्यते, सामन्यतो विदिते प्रतिक्रियान्तरसंभवात्, विशेषतो विदिते तस्यैव दूषयितुं युक्तत्वात् । न च तस्य विशेषतो वेदनं शक्यम्, पराभिप्रायस्याप्रत्यक्षत्वात्, विशेषनिर्णायकस्य लिङ्गादेश्चासंभवात् । न च सिद्धान्तकोशलिखितमेवासौ वदिष्यतीति नियमः, प्रज्ञावतां स्वोत्प्रेक्षिकयान्यकथनस्याप्यविरोधात् । अतस्तदभिप्रेतमेवोत्प्रेक्षापदमित्यपि दुर्वदम् । अस्तु वा लोकोत्तरप्रज्ञेन तदभिप्रेतमेव विदितम्, तथापि न तदनुक्तं दूष्यम्, इदं ममानभिप्रेतमित्यपह्ववाने प्रतिवादिनि सभ्यानामपि तत्र साक्षित्वासंभवात्, विश्वसाक्षिणां च मौनावष्टम्भात्, शपथस्य चात्र दृष्टप्रत्यवायहेतोरनुपदेशात्,
अदृष्टप्रत्यवायहेतोरनुपयोगात् । अपि च यदासौ निष्प्रतिभः स्यात्, तदानायाससिद्धे विजये किं तदभिप्रेततया कस्यचित् पुरस्कारेण ? । सप्रतिभश्च यदासावभिप्रेतं स्वयमेव वाचि निवेशयति, तदा पुरोभाविषु वचनदोषादिषु संभविष्यत्सु किं विगीयमानव्याप्त्यादिपरामर्शसापेक्षार्थानुवादतद्दूषणवृथाश्रमेण ? । वचनदोषानपि संभविष्यतो विदित्वा दूषयत्विति चेत्, हन्त ! तर्हि प्रतिवाद्यपि वैयात्यादेवमपशब्दादिस्त्वया विवक्षित इत्युक्त्वा यदि निगृह्णाति, तदासौ कथमपसरिष्यति ? । एतेन साधारणः स्वव्याघातोपि सुस्थः ; न ह्यन्यतर उत्प्रेक्षितमपि दूषयिष्यति नेतर इति राजाज्ञा; न च तथादौ नियमः कृतः । अपि च निरपारधस्य तावन्न निग्रहः; अत्र च केनापराधेन प्रतिवादी निगृह्यते ? । परोत्प्रेक्षणीयदुष्टार्थाभिप्रायवत्त्वादिति चेत्, संदिग्धं तावदिदम् । तथाविधाभिप्रायसंभावनाविषयत्वादिति चेत्, स्वस्यापि समानमित्येवमपि स्वव्याघातः । इदमसमीचीनम्, मदुत्प्रेक्षितासमीचीनव्यवस्थापकत्वात्, इति वाक्यार्थविश्रमेप्येवं विपरिवर्तो वाच्यः । इयं तु जातिर्यद्यप्यादिमामपि कक्ष्यामास्कन्दति, आदावेव वादिनं विनिवार्य त्वदभिप्रेतमेव दुष्टमिति वक्तुं शक्यत्वात्; तथाप्यर्थतो जात्यन्तरवद् द्वितीयैवेयं कक्ष्या, तदभिप्रेततया प्रथमस्यापि पर्वणः स्वयमेव पुरस्कारात् । साधनेष्वपि केषु चिज्जातित्वमिच्छतामपि दूषणरूपा जातयो द्वितीयादिकक्ष्याभाविन्य एवेति नियम इति ॥
न्या. प. अ. 73
एवं सप्ताङ्गसंपन्नजातितत्त्वावलोकिनाम् ।
सदुत्तरैस्तदुत्थानात् तत्त्वधीजयसंभवः ।
अन्यथा षण्डरतवद् भवेयुरफलाः कथाः ।
इति प्रख्यापनायात्र कथाभास उदाहृतः ।
अर्थिप्रत्यर्थिनोस्तावन्न द्वयोर्जयसंभवः ।
एकस्य विजयेपि स्यात् सफला सत्कथैव सा ।
यत्र द्वयोर्न विजयो न वा तत्त्वविनिश्चयः ।
कुकथां कथयन्त्येनामसदुक्तिपरंपराम् ।
तां द्विकक्ष्यादिकामेके षट्कक्ष्यावधिकां विदुः ।
पूर्वत्रासंभवात् सभ्यैरुत्तरत्र निवारणात् ।
असदप्रतिभादौ तु पक्षैकत्वमपि क्वचित् ।
सभ्येष्वसत्स्वदक्षेष्वप्युपर्यपि च धावति ॥
तथाहि-कथामभ्युपगम्य यदि वादी सभ्येषु दत्तावधानेषु प्रतिवाद्यनुयुक्तोपि तूष्णीमास्ते, प्रतिवादी च तदा मन्दचित्तवृत्तिरवश्योद्भाव्यमपि तादात्विकं निग्रहस्थानं न व्यनक्ति, तदा कस्यचिदपि पक्षस्यानुत्थानमेव । निग्रहव्यञ्जनेपि तावति समाप्तिः । यदा तु वादी सद्वा असद्वा ब्रूयात्, अनाहितप्रतिभस्तु प्रतिवादी न किंचिद्वक्तिं, वादी च यदि तदा निग्रहमूढः, तदा एकपक्षाकथा । द्वयोश्च न विजयः, वस्तुतः सद्वादिनोपि प्राप्तकालनिग्रहानुद्भावनात् । वादिना प्रतिवादिनिग्रहे तु तेनैव विजयिता स्यात् । यदा त्वसत्साधनोपक्रमायां कथायां प्रतिवादी यदुत्तरेण निगृह्णाति, तावति च सभ्याः प्रमाणीकृताः, तदा प्रतिवादिनो विजयः । असदुत्तरेण निग्रहे सभ्येषु भरन्यासे द्विपक्षी कुकथा । एवं तदुपरि वादिप्रतिवादिनोः सप्रतिभयोरसदुत्तरपरम्परायां पञ्चपक्षीपर्यन्ता कुकथाप्रवृत्तिः । सत्साधनोपक्रमायां तु षट्पक्षीपर्यन्ता; तत्र हि प्रथमः पक्षस्तावदनुपप्लवः प्रादुःष्यात् । प्रतिवादिनस्तु निरनुयोज्यानुयोगभेदचतुष्कावतरणाद् द्वितीयपक्षप्रवृत्तिः । तत्र सभ्याः स्वयं कथायामनधिकृतत्वाज्जानन्तोपि वाद्यनुयोगमपेक्षमाणास्तूष्णीमासते । तदा वादी सदुत्तराप्रतिभानात् तत्प्रतिभानेपि वा जडीकरणदुरभिलाषेण तज्जातीयमन्यद्वा किंचिदसदुत्तरं प्रयुञ्जीत, तथापि प्रतिवाद्यनुयोगमपेक्षमाणेषु प्रतिवादिनस्तथैव चतुर्थपक्षावतारः । तथाप्यवसरप्रप्तायोभयास्तम्भरूपायानुविधेयप्रश्नाय दत्तक्षणेषु वादिनः पञ्चमः पक्षः । अनुविधेयेपि देवानांप्रिये स्वयमानृशंस्यात् कथंकरणयोरप्रतिभया कथाविच्छेदकाङ्क्षिषु षष्ठः । ततः परं स्वदोषपरिहारायोभौ निर्वाय कुकथात्वप्रकाशनेनापक्षपातेन द्वावपि निगृह्णन्ति । सभ्याभावे मन्दमतिव्यवहारेषु वा सभ्येषु मार्जारकलहवदेवानिवारणमिति ॥
इति
श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
न्यायपरिशूद्धौ अनुमानाध्याये तृतीयं
निरनुयोज्यानुयोगाह्निकम् ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥