51 अवर्ण्यसमः

मूलम् - 2.3.11

पक्षवृत्तिहेतुव्यक्तेर्दृष्टान्तापेक्षितसिद्धार्थत्वादिरूपविरहे हेत्वसिद्ध्यादिप्रसङ्गात् तादृग्रूपहेतुमत्त्वाभ्युपगमे पक्षस्य साध्यत्वाभावप्रसञ्जनम् अवर्ण्यसमः । वर्ण्यः-साध्यः, अवर्ण्यः-असाध्य इत्यर्थः; यथा-ब्रह्म शरीरित्वात्यन्ताभावरहितम्, आत्मत्वात्, अनीश्वरात्मवत्, इत्यत्र । यद्यप्यात्मत्वमात्रमनुवृत्तम्, तथापि तत्तद्विशेषणभेदेन विशिष्टताभेदात् पक्षदृष्टान्तयोर्भिद्येत । ततश्च दृष्टान्त इव पक्षेप्यसौ हेतुः सिद्धार्थत्वादिविशिष्टः, न वा ? न चेत्, व्याप्यतयानुसंहितविशिष्टहेत्वभावात् स्वरूपासिद्धिः; सकलसपक्षानुयायिस्वरूपवैकल्यात् सोपाधिकतादिश्च । तद्रूपविशिष्टश्चेत्, सिद्धसाधनत्वासाधकत्वनिर्णयसमानविषयत्वप्रसङ्गः । ततश्चासाध्यत्वं पक्षस्य, इति । अत्र पक्षनिष्ठहेतुव्यक्तेर्दृष्टान्तमात्रापेक्षितरूप वैपरित्येनोपलम्भः उत्थानहेतुः । पक्षहेतू दूष्यौ । सिद्धसाधनत्वादिकमारोप्यम् । तथाभिमानः फलम् । प्रातिस्विकं दुष्टत्वमूलं वर्ण्यसमवत् । व्यत्यासेन त्रितयमपि, पक्षस्थहेतुव्यक्तेरनङ्गानां सिद्धार्थत्वादीनामुररीकरणात्, अङ्गानामसिद्धार्थत्वीदानां त्यागात्, दृष्टान्तवर्तिन्यपेक्षितानां पक्षवर्तिनि संचरणाच्च, इति । तथा च स्वीकारे तथैव स्वव्याघातात् प्रतिक्रियाः; न हि पक्षादिकमपि सामान्यः प्रतिक्षेप्तुं शक्यम्, न कश्चित्पक्ष इति पक्षप्रतिक्षेपवाक्यस्यापि पक्षादिगर्भितत्वात् ।
सिद्धसाधनतानुयोगश्चात्र स्वदूषणं भवति । यदि हि प्रतिवादी असिद्धमपि साधयन्ननेनोपायेन सिद्धसाधनं पुरस्कृत्य निग्रह्येत, तदा स्वयमेव हि निगृहीतः, एतावन्तं कालं निगृहीतस्य परसाध्यस्येदानीमभ्युपगमात् । तथा चोक्तविरोधापसिद्धान्तादि । अपिच इदमसाधकम्, सिद्धसाधनत्वात्, इत्यत्र साधकत्वादसाधकमित्युक्तं स्यात् । न ह्यतः सिद्धमिदं साध्यत इत्युच्यते, किं त्वेतद्धेतुशक्त्यैवेति व्याघातः । अस्त्वेवम्, तथापि सिद्धसाधनतानुयोगमुखेनैव स्वव्याघातो दुर्वचः, इदमसाधकमिति जातिवादिसाध्यस्य सिद्धत्वाभ्युपगमे तदिष्टापादनात्, स्वोक्तस्वमतविरोधापाताच्चेति चेत्, तदेतदसमीक्षितवैषम्यं पिशाचभाषितम्; न ह्यत्र जातिवादिवाक्यार्थं सिद्धं कृत्वा वयं स्वव्याघातं ब्रूमः, अपि तर्हि यद्येवंविधेन सिद्धसाधनत्वेन वादिसाधानं दुष्टमिष्येत, तदा तथाविधपेनैव तेन जातिसाधन€मपि दुष्टं स्यात् । दुष्टस्य च न दूषकत्वमिति निर्बाधा स्थापना । तेच्चत् तेनापि न दुष्टम्, तदा तद्वदेव स्थपनापि निर्दोषेति निरर्थकः श्रमः । अतो न ब्रूमो वयं नेदं दूष्यदूषकं सिद्धसाधनत्वादिति, किं तु स्वव्यापिदूषणसमाधिग्रस्तत्वादिति ॥