मूलम् - 2.3.10
एवं स्थिते दृष्टान्तवर्तिहेतुव्यक्तेः पक्षधर्मत्वापेक्षितासिद्धार्थत्वादिरूपविरहे साधनविकलत्वादिप्रसङ्गाद् दृष्टान्तस्यापि तादृग्रूपहेतुमत्तया वर्ण्यत्वेन प्रत्यवस्थानं वर्ण्यसमः; यथा-ब्रह्म सविशेषम्, पदार्थत्वात्; यः पदार्थः स सविशेषः, यथा घटः, इत्युक्ते, जातिवाद्याह-पक्षे साधकतया प्रयुक्तस्य हि हेतोर्व्याप्तिर्दृष्टान्ते प्रदर्श्यते; नान्यस्य, अनन्वयादिप्रसङ्गात् । स च यादृग्रूपविशिष्टः पक्षे दृष्टः, तादृग्रूपविशिष्ट एव दृष्टान्तेप्युदाहरणीयः, अन्यथा सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वादिति विशिष्टहेतुप्रयोगे सामान्यवत्त्वादिमात्रस्य व्याप्त्युदाहरणप्रसङ्गात्, एवमेकदेशव्यतिरेकेण व्यतिरेकोदाहरणप्रसङ्गात् । ततश्च पक्षवर्तिंनो हेतोरसिद्धार्थत्वादयो रूपविशेषास्तद्धेतुकरूपभेदश्च दृष्टान्तेस्ति वा न वा ? अस्ति चेत्, असिद्धार्थत्वादिभिः साध्यविकलत्वादिकमनिवार्यम्; न चेत्, प्रकृतसाधनविकलत्वाद् दृष्टान्त एव तादृशहेतुमत्तया वर्ण्यः, अलं पक्षे साध्यवर्णनेन, इति । अत्र सपक्षवर्तिहेतुव्यक्तेः पक्षमात्रविवक्षितरूपवैपरीत्येनोपलम्भ उत्थानहेतुः । दृष्टान्तादिकं दूष्यम् । साधनविकलत्वादिकमारोप्यम् । फलं तद्भ्रान्तिः । असाधारणं दुष्टत्वमूलं चायुक्ताङ्गाधिक्यम्; न हि दृष्टान्तवर्तिन्या हेतुव्यक्तेरसिद्धार्थत्वादिकं युक्तम्, तथा सति दृष्टान्तत्वभङ्गप्रसङ्गात् । व्याप्तिसंप्रतिपत्तिस्थानं हि दृष्टान्तं ब्रूमः । न चासिद्धार्थत्वादिसंभवे तद्भावसिद्धिः । अत एव युक्ताङ्गहानिरपि, दृष्टान्तवर्तिहेत्वङ्गस्य सिद्धार्थत्वादेस्त्यागात् । अविषयवृत्तित्वं वा, पक्षवृत्तिहेत्वङ्गानां दृष्टान्तवर्तिनि संचरणात् । एवमपि चेत् साधनविकलत्वादिः प्रसज्येत, तथा सत्यनुमानजातीयमेवोच्छिन्नं स्यात् । न चैवमस्त्विति वाच्यम्, तत्र व्याघातादेः प्रागेवोक्तत्वात् । अपि च, एवं पर्यनुयुञ्जानश्च जातिवादी किं दृष्टान्तवर्तिहेतुव्यक्तेः स्वभाववैषम्यमात्रं प्रकाशयति, उत तन्मुखेन वादिहेतोरसाधकत्वंव साधयति ? नाद्यः, अर्थस्थित्युपन्यासे विरोधाभावात्, अर्थान्तरनिग्रहस्थानप्रसङ्गाच्च । न द्वितीयः, वादिसाधनमसाधकम्, साधनविकलत्वादिदोषदूषितत्वात्, संप्रतिपन्नहेत्वाभासवत्, इत्यत्रापि पक्षसपक्षवर्तिहेतुव्यक्तिभेदस्य तद्रूपवैचित्र्यस्य च दुर्वारत्वात्, तदनभ्युपगमे स्वप्रयोगानुत्थानात्, तदभ्युपगमे च स्वोक्तपर्यनुनयोगसाम्यात्, इति ॥