49 अपकर्षसमः

मूलम् - 2.3.9

व्यापकाभासनिवृत्त्या कुतश्चित् कस्यचिद् व्याप्याभासस्यापकर्षणम् अपकर्षसमः । स चानेकधा-पक्षात्, सपक्षात्, उभयतः, विपक्षाच्चेति । पक्षादपि हेतुसाध्ययोरन्यतरस्य, द्वयोर्वा । तथा सपक्षात्, उभयतोपि । विपक्षात्तु व्यतिरेकदृष्टान्ताद्धेत्वभावसाध्याभावयोरन्यतरस्योभयोर्वा, विपक्षमात्राद्धेत्वभावस्य, इति विशेषः । तत्र पक्षादपकर्षो यथा– यदि घटादिवत् कार्यत्वात् क्षित्यादि सकर्तृकं साध्यते, तदा आत्मादिवन्मनुष्याशक्यक्रियत्वात् कार्यत्वम्, सकर्तृकत्वम्, उभयं वा किं न बाध्येत । तच्चेत् साधयेत्, इदमपि बाधेत । न चेदिदम्, न तदपि, अविशेषात्, इति । अत्र हेत्वपकर्षे स्वरूपासिद्धिः, साध्यापकर्षे बाधः, उभयापकर्षे त्भयम् इति । असमीक्षितोदाहरणान्तरास्त्वेतावति विश्रान्ताः । सपक्षादपि हि तयोरपकर्षे साध्यविकलत्वसाधनविकलत्वोभयविकलत्वानि । व्यतिरेकदृष्टान्तीकृताद् विपक्षाद्धेत्वभावसाध्याभावयोरपकर्षे साधनाव्यावृत्तत्वसाध्याव्यावृत्तत्वोभयाव्यावृत्तत्वानि । तत्रापि हेतुदोषचिन्तायामप्रयोजकत्वानैकान्€त्यादि । अदृष्टान्तीकृताद् विपक्षमात्रद्धेत्वभावस्यापकर्षे तु विरोधः, साधारण्यं वा । न चैवमपकर्षाणामसंभवः,
उत्थानहेत्वाद्यविशेषात् । नापि जात्यन्तरेन्तर्भावः, तल्लक्षणानन्वयात्, अविशेषप्रसङ्गमात्राद्यविश्रान्तेश्€च । नाप्यजातित्वम्, युक्ताङ्गहान्याद्यविशेषात् । अपकर्षसमसमाख्यानिरुक्तिमात्रेण संग्रहे संभवत्यनुक्तसमाख्यान्तरोन्नीतिश्चायुक्ता । न चापाद्यदोषभेदाज्जात्यन्तरता, पक्षाद्धेतुसाध्ययोरपकर्षेप्यसिद्धिबाधलक्षणापाद्यभेदेन तत्प्रसङ्गात् । तत्र सपक्षादपकर्षणं यथा-विगीतम् ईश्वरशरीरम्, ईश्वरतज्ज्ञानेतरद्रव्यत्वात्, संप्रतिपन्नरामकृष्णादिशरीरवत्, इत्यत्रेश्वरेतरत्वं रामादिशरीरे दुर्वचम्, ईश्वरस्यैव सर्वत्र सच्छब्दार्थत्वात् । तद्व्यतिरेकव्यापकतया शशश्रृङ्गादिषु दृष्टस्यासत्त्वस्य संप्रतिपन्नशरीरे निवृत्तेरिति हेत्वपकर्षात् साधनविकलो दृष्टान्त इति । साध्यापकर्षणं यथा-रामकृष्णादिशरीरस्येश्वरशरीरत्वं नास्ति; ईश्वरो ह्यशरीरः; यत् शरीरम्, तत् शरीरिणः कर्मफलभोगायतनम्, यथा क्षैत्रज्ञशरीरम् । इदमपि चेदीश्वरशरीरं स्यात्, तत्कर्मफलभोगार्थत्वप्रसङ्गः । न च तदस्ति । अतो न तच्छरीरम्, इति । उभयतोप्यपकर्षणमप्येतेनैवोदाहर्तव्यम् । विपक्षाद्धेत्वभावापकर्षणं यथा-धूमानुमाने कश्चिदाह, यदि महानससाधर्म्यात् पर्वतो महानससाधर्म्यान्तरवान्, तर्हि निर्धूमत्वव्यापकतया खपुष्पादिषु दृष्टस्यासत्त्वस्य व्यावृत्तौ निर्धूमत्वमपि व्यावर्तेतः; न हि, व्याप्याद्व्यापकं सिध्येत्, व्यापकनिवृत्त्या तु व्याप्यभूतया व्यापिका व्याप्यनिवृत्तिर्न सिध्यतीति सुवचम् । ततश्च निरग्नौ महाह्नदे निर्धूमत्वनिवृत्त्या हेतुवृत्तेरनेकान्तः । एवं महाह्वदे व्यतिरेकदृष्टान्ततया निदर्शितेप्यसत्त्वनिवृत्त्या साधनाभावं साध्याभावमुभयाभावं वा व्यावर्त्य व्यतिरेकग्रहणं बाध्यमिति । अत्र व्यापकनिवृत्तिवद् व्यापकाभासनिवृत्तेरपि व्याप्यत्वाभिमान उत्थानहेतुः । यथायथं पक्षहेत्वादिसाधनाङ्गं दूष्यम् । बाधादिकमारोप्यम् । तद्भ्रूमः फलम् । दुष्टत्वमूलं त्वसाधारणं युक्ताङ्गहानिः, व्यापकत्वमनादृत्य सहचरितमात्रनिवृत्या व्याप्येतरनिवृत्त्युपन्यासात्; व्याप्तिभङ्गश्च यथायथं तत्र तत्र प्रत्यक्षानुमानागमैर्ग्राह्यः । अयुक्ताङ्गाधिकत्वं वा, वस्तुसिद्धेः सहचरितसमस्तवस्त्वन्तरनिवृत्त्यभावापेक्षाङ्गीकारात् । अविषयवृत्तित्वं वा, व्याप्यनिवर्तनानुगुणव्यापकनिवृत्तिशक्तेः सहचरितनिवृत्तावपि संचरणात्, इति । एवमपि चेत् किंचिद् बाध्येत, तदा बाधिताबाधितव्यवस्थैव न स्यात्, सर्वत्र यत्किंचित्सहचरितनिवृत्तेः सुलभत्वात् । अत एव साधारणः स्वव्याघातः, जातिवादिसाध्यादिष्वप्यसाधकत्वादिषु सहचरितधर्मान्तरविरहस्यावश्यंभावात्, अन्यथा जातिसाधनेपि पक्षहेत्वादिविभागस्य दुर्वचत्वप्रसङ्गात्; वादिसाधनं स्वसाध्यसाधकं न भवति, सहचरितनिवृत्त्यपहृतविषयत्वात्, निषिद्धत्वनिवृत्तिलुण्ठितसाध्यनैगमिकालम्भाधर्मत्वसाधनवत्, इत्यादिप्रक्रियया ह्यत्रजातिवाक्यविश्रान्तिः । अत्रासाधकत्वादिसहचरितदोषान्तरादिनिवृत्तेस्तद्बाधोपि दुर्वारः । न च, अस्तु सर्वं बाधितमिति शक्यं वक्तुम्, बाधस्याबाधे कस्यचिदबाधेन सर्वाबाधात्, तस्यापि बाधे बाधस्यैव बाधेन सर्वाबाधादिति । न चात्र प्रक्रियासमाख्यबाधसमेन संकरः, तुल्यबलत्वाभ्युपगमपूर्वकत्वात् तत्र प्रत्यवस्थानस्य, इह तु तदभावात्, हेतुबाधादिष्वसंकीर्णोदाहरणान्तरसंभवाच्च । प्रतिप्रमाणसमभेदतामात्रं तु भवतु वा मा वा । उक्तप्रमारेण विवेकस्तावदुपपन्नः इति ॥
न्या. प. अ. 68
अ€थ वर्ण्यसमादेरुत्थानहेत्वादिव्यञ्जनायेदं तावद् ब्रूमः-पक्षदृष्टान्तौ प्रागेव लक्षितस्वरूपौ । हेतोश्च व्यक्तिभेदेपि सामान्याकारसंगृहीततया व्याप्तिश्च स्थापिता । तत्र पक्षवर्तिन्या हेतुव्यक्तेरसिद्धार्थत्वम्, साध्यज्ञापनाय प्रवृत्तत्वम्, व्याप्तिग्राहकप्रमाणेन विशेषतोनास्कन्दितत्वम्, संदेहसमानविषयत्वम्, स्वरूपभेदश्चेति पञ्च रूपाणि; सिद्धार्थत्वे पक्षस्वरूपव्याघातात्, साधननैरर्थक्याच्च; साध्यज्ञापनप्रवृत्त्यभावे हेतोरफलत्वात्, हेतुत्वव्याघाताच्च; व्याप्तिग्राहकप्रमाणेन विशेषतो विषयीकृतत्वे विप्रतिपत्त्यभावप्रसङ्गात्, प्रयोगनैष्फल्याच्च; संदेहाभावस्त्वनुल्लेखेन निश्चयेन वा ? पूर्वत्र किं साध्येत ? उत्तरत्र सिद्धं किमर्थं साध्येत ? । तथा सैव चेद्धेतुव्यक्तिः, तदा सिद्धार्थत्वादेरवश्यंभावादुक्तदोषाननिवृत्तिः; कृत्तिकारोहिण्यादिषु चक्रप्रवाहवात्याविक्षेपादिवशात्तत्तदुदयादिव्यक्तिभेदा
व्यवस्थिताः, अन्यथा तत्राप्यनुमेयपरिशेषाभावात् । एवं दृष्टान्तवर्तिहेतुव्यक्तेरुक्तरूपविपर्ययेण सिद्धार्थत्वादिरूपपञ्चकं शाश्वतिकम्, साध्यासिद्धौ सपक्षस्वरूपव्याघातात्, संप्रतिपत्त्यर्थं व्याप्त्युदाहरणासंभवाच्च । अत एव रूपान्तराणामपि विपर्ययः सिद्धः । अपि च स्वयं चेत् तत्र साध्यज्ञापनाय प्रवर्तेत, ततो दृष्टान्तान्तरमन्वेषणीयम्; तत्रापि तथेत्यनवस्था । अतस्तत्र साध्यमन्यतो वेदितव्यम् । व्याप्तिग्राहकप्रमाणाविषयत्वे
संदिग्धार्थत्वे च पक्षदृष्टान्तयोरविशेषः, स्वरूपाभेदे च पूर्वोक्ता दोषाः न च पक्षो नास्तीति प्रतिज्ञातुं शक्यम्, एतत्प्रतिज्ञावाक्यार्थाभ्युपगमे पक्षाभ्युपगमात्, तदनभ्युपगमे पक्षप्रतिषेधासिद्धेः । एवं हेतुमात्रनिषेधोपि न शक्यः, कारकनिषेधे स्वकीयसर्वप्रवृत्तिविरोधात्, ज्ञापकनिषेधेपि परवाक्यतः स्वस्यार्थबोधमभ्युपगम्य परबोधार्थवाक्यप्रयोगायोगात्, हेतुनिषेधे च सहेतुके व्याघातात्, अहेतुके तथैव हेतुसिद्धेरपि विरोधाभावात् । एवं दृष्टान्तोपि सामान्यतो निषेद्धुं न शक्यः, लौकिकपरीक्षकसर्वपुरुषसंमतत्वात्, तत्रापि च वाङ्मात्रेण निषेधे तावतैव तत्साधनस्याप्यविरोधात्, हेतुतो निषेधे अन्वयरूपस्य व्यतिरेकरूपस्य वा कस्यचिद् दृष्टान्तस्य दुस्त्यजत्वात्, इति प्रतिष्ठितैव पक्षहेतुदृष्टान्तमर्यादा ॥