48 उत्कर्षसमः

मूलम् - 2.3.8

अपि च हेतुसाध्ययोरन्यतरबलात् कस्य चिदनिष्टस्याव्याप्तधर्मस्य दृष्टान्तात् पक्ष्€ो, पक्षाद् दृष्टान्ते वा समुत्कर्षप्रसञ्जनम् उत्कर्षसमः । तत्र हेतुबलेन दृष्टान्तात् पक्षे समुत्कर्षो यथा–यदि कृतकत्वाद् घटवदनित्यः शब्दः, तद्वदेव तत एव सावयवोपि किं न स्यात् ? इति । साध्यबलेन यथा-यदि घटवदनित्यत्वं शब्दस्येष्यते, अनित्यत्वसहचरितं सावयवत्वमप्यस्य स्यादिति । न च साधनशक्त्यैवोत्कर्ष इति राजाज्ञा, साध्यशक्त्यापि तदविरोधात्, अनिष्टत्वाद्यविशेषाच्च । एवमेव पक्षाद्दृष्टान्ते समुत्कर्षस्याप्यसंभवशङ्का निरस्ता । यथा हि कृतकत्वाच्छब्दोनित्यश्चेत्, तद्वदेव तत एव सावयवोपि स्यादित्युत्कृष्यते, तथा शब्दवदेव तेनैव घटोपि निरवयवः स्यादित्युत्कर्षः शक्यः; समं चोभयत्रानिष्टत्वम्, अनतिप्रसक्तप्रसञ्जकविशेषयोगश्च, शब्दघटयोः साधनाङ्गशक्त्योत्कर्ष इति लक्षणव्यवस्थितेश्च । शब्दाद्घटे निरवयत्वोत्€कर्षे शब्दानित्यत्वस्य किमायातमिति चेत्, घटाच्छब्दे सावयवत्वोत्कर्षेशब्दानित्यत्वस्य किमायातमिति चेत्, घटाच्छब्दे सावयवत्वोत्कर्षेपि तस्य किमायातमिति तुल्यम् । तत्र निरवयवत्वे सत्यनित्यत्वमभिमतं सावयवत्वेन व्याहन्यत इति
हेतुदूषणपर्यवसायिविशेषविरोधश्चेदितः स्यादिति चेत्, तथापि साध्यमानस्यानित्यत्वमात्रस्य न किंचिद्धीनम् । प्रतिबन्द्यभिप्रायेणोपाध्यभिप्रायेण वा तदुत्कर्ष इति चेत्, तुल्यम् । घटस्य निरवयवत्वप्रसङ्गे कथमुपाधिव्यञ्जनमिति चेत्, शब्दस्य सावयवत्वे कथम् ? । सावयवत्वमनित्यत्वप्रयोजकम्; ततश्च सावयवत्वप्रसङ्गो विपर्यये पर्यवस्यन् प्रयोजकाभावं व्यनक्तीति चेत्, तर्हि प्रयोजकं सावयवत्मन्तरेण यदि प्रयोज्यं शब्दे स्यात्, घटेपि तथैव स्यात्, इति प्रसङ्गे तात्पर्यात् तुल्यमुपाधिव्यञ्जनम् । अथ व्यापकसावयवत्वनिवृत्त्या व्याप्यानित्यत्वनिवृत्तिः पक्षेभिप्रेता, इह तु न तथेति; तदप्यसत्, अपकर्षसमादविशेषप्रसङ्गात् । अत्रापिव च घटे निरवयवत्वविपर्ययदर्शनेन पक्षेपि तत्समानयोगक्षेमतया साध्यनिवृत्तिसमर्थनाभिप्रायस्याविरोधात्, इति ॥
न्या. प. अ. 65
तिष्ठत्वेतत् । तदिह कस्यचित् साधनाङ्गस्य किं चिदनिष्टं प्रति व्याप्यत्वाभिमान उत्थानहेतुः । हेतुविपर्ययदूष्यप्रतिकूलतर्कयोगमुखेनाप्रयोजकत्वमारोप्यं, विशेषविरुद्धत्वं वा । तद्भ्रान्तिः फलम् । दुष्टत्वमूलं तु युक्ताङ्गहीनत्वम्, व्याप्तिलक्षणाङ्गस्य जातिसाधने हानेः; न हि यत् कृतकं, तत् सावयवमित्यादिप्रक्रियया तदभिमतेषु व्याप्तिर्ग्रहीतुं शक्या, शब्दादिष्वेव बाधदर्शनात् । अतो यद्यव्याप्यमव्यापकं न साधयेत्, कथं €तन्निदर्शनेन व्याप्यस्य व्यापकसाधनं €प्रतिरुध्येत ? व्याप्तं च कृतकत्वमनित्यत्वेन, अनित्यावस्थान्तरातिरिक्तस्य प्रध्वंसस्याभावात्; भावेपि भावत्वेन सतीति विशेषणेन वा, कृतकत्वलक्षणान्तरेण वा तद्व्यवच्छेदसिद्धेः, निवृत्तप्रतिबन्धस्वरूपप्राप्तमुक्तधीविकासे च तदतिरिक्तागन्तुकसाध्यत्वलक्षणकृतकत्वस्याभावात्, इति । अयुक्ताधिकत्वं वा, युक्ताङ्गहीनप्रतितर्कराहित्यस्यापि साधनाङ्गत्वेन स्वीकरणात्; अन्यथा जातिसाधनेपि तादृशाङ्गयोगस्य सत्त्वात् स्वव्याघातः; तथाहि-नेदं साध्यसाधकम्, अव्याप्तधर्मोत्कर्षमुखेन विरुद्धत्वात्, संप्रतिपन्नविरुद्धवत्, इति हि जातिवाक्यार्थः । इदमपि साधनं न दूष्यं दूषयेत्, तत्रापि तथाविधाव्याप्तधर्मोत्कर्षस्य सुशकत्वात् ; सन्ति हि धर्माः साध्यसाधनातिरेकिणस्तत्सहचरिताः संप्रतिपन्नविरुद्धवर्तिनः, अन्यथा पक्षदृष्टान्तवैषम्यासिद्धिप्रसङ्गात् । एवमुदाहरणान्तरेष्वपि प्रत्युत्तरं योज्यम् ॥
न्या. प. अ. 66
नन्वेवमस्त्वव्याप्तधर्मोत्कर्षे स्वव्याघातः, व्याप्तोत्कर्षे तु कथम् ? न कथंचित्, इष्टव्याप्तोत्कर्षे प्रकृतानुपमर्देनार्थान्तरनिग्रहस्थानत्वात्, अनिष्टव्याप्तापादने सत्तर्कत्वेन जातित्वाभावात् । अत एवेश्वरानुमानादिषु व्याप्तोत्कर्षस्याजातित्वं स्थितम् । उक्तं चानुमानिकैरपि “व्याप्तौ सत्यां नेदमनिष्टम्, असत्यां तु न प्रसङ्गः” इति । यद्यपि च कार्यत्वादिलक्षणहेत्वपेक्षया शरीरजन्यत्वादेर्व्यापकत्वं पक्षीकृतेष्वेव दूर्वादिषु बाधान्निरस्तम्; तथापि सिषाधयिषितसकर्तृकत्वाद्यपेक्षया तेषां व्यापकत्वस्य दुरपह्नवत्वात् साध्यमुखेनोत्कर्षे तस्य व्याप्यत्वान्न दोषः । वेदप्रणयनादिषु चेश्वरस्यापि सशरीरस्यैव कर्तृत्वं परेप्यनुजानते । तत्र चेद् व्याप्त्यैव शरीरपरिग्रहः, तुल्यमन्यत्रापि । अथ तन्निरपेक्षं क्वचित् कर्तृत्वम्, तदा त्वशरीर एव प्रणयतां वेदं समयकरणादिकं च, तस्याशक्याभावात्, इति ॥