मूलम् - 2.3.7
असिद्धिसमादीनां पुनरेवमुत्थानम्-अनित्यः शब्दः, कृतकत्वात्, इत्युक्ते प्रतिब्रूते–स्वयं सिद्धो हि हेतुः स्वसाध्यं साधयेत्; न चासौ सिद्धः, प्रत्यभिज्ञयैक्यसिद्धेः । सा चेदैक्यं न साधयेत्, भेदमपि कः साधयिष्यति ? प्रमाणत्वप्रत्यक्षत्वादेरविशेषात् इति । एवमनेकान्तो विरुद्धो वायं हेतुरित्युक्त्वाह-अनित्यत्वसाधकप्रमेयत्वहेतुः प्रमेयत्वप्रस्तुतहेत्वन्यान्यानैकान्तिकान्यः, प्रमेयत्वात् इति । एवमनैकान्तिकपदस्थाने विरुद्धपदप्रक्षेपे विरुद्धता । तथान्यदन्यदपि । यद्यनेन हेतुनानैकान्तिकविरुद्धत्वादिकं न सिध्येत्, वादिहेतुनापि कथं साध्यं सिध्येत् ? न हि वाद्युक्त एव हेतुः स्वसाध्यं साधयिष्यति, प्रतिवाद्युक्तस्तु नेति प्रथमं नियमकल्पनम्, इति । तत्रापि प्रतिरोधबाधसमयोरिव मर्यादालङ्घनाशयगर्भतया केवलनिरनुयोज्यानुयोगाद्विशेषः प्रतिसन्धानीय इति । अत्र सर्वत्र युक्ताङ्गहीनप्रतिकूलप्रमाणोपलम्भ उत्थान हेतुः । दुष्टत्वमूलं च साधारणं व्याप्त्यादियुक्ताङ्गान्यतमहानिः । साधारणदुष्टत्वमूलप्रदर्शनोपयुक्तं त्वेवं पातनम्; वादिसाधनमसाधकम्, युक्ताङ्गहीनप्रतिप्रमाणापादितदोषत्वात्, इति हि जातिवाक्यार्थः; स एव स्वात्मानमपि व्याहन्ति, यथोक्तप्रक्रियया जातिवादिसाधनेपि येन केनापि युक्ताङ्गहीनप्रमाणेन तत्तद्दोषाणां तथा तथा दर्शयितुं शक्यत्वात्, इति । न च व्याप्त्यादि युक्ताङ्गमेव न भवतीति वक्तुं शक्यम्, प्रागेव तत्समर्थनात्, अन्यथा जातिवाक्यस्य दूषणव्याप्त्यनभ्युपगमे तत्प्रयोगनैष्फल्यप्रसङ्गात् । अतो नियमरहितस्यापि दूषणत्वनियममिच्छन् प्रतिक्षिपति, स्वीकरोति च नियममिति सोयं वृषलविवाहमन्त्रन्यायः ॥