मूलम् - 2.3.6
तदिह “अनभ्युपेतयुक्ताङ्गेन प्रतिप्रमाणेन प्रतिरोधः प्रतिधर्मसमः” इति परैः कल्पितम् । तत्र प्रतिरोधसम इति लक्ष्यसंज्ञाकल्पनमुचितम्, अन्वर्थसमाख्यासिद्धावुपलक्षणसंज्ञानिवेशस्य निष्फलत्वात्, असूत्रितत्वेन सूत्रानुविधानव्यसनाभावाच्च । तादृशेनैव बोधो बाधसमः । तत्रापि “प्रकरणसमः” इति समाख्या यौगिकी प्रक्रियमाणार्थसिद्ध्यंभिमानद्वारा कथचिन्निवेशिता । अनयोस्तत्तत्प्रतिरोधकबाधकमर्यादालङ्घनाभ्युपगमपूर्वकत्वादसदुत्तरप्रकरणसमातीतकालोद्भावनाभ्यां केवलनिरनुयोज्यानुयोगाच्च व्यवच्छेदः । तादृशेनैवासिद्ध्यापादनमसिद्धिसमः । एवमनेकान्तसमादयोपि ग्राह्याः । एषां सामान्यसंग्रहस्तु प्रागुक्तप्रक्रिययानभ्युपेतमर्यादेन प्रतिप्रमाणेनानिष्टापादनं प्रतिप्रमाणसम इत्येव । अत्र साधर्म्यसमादिसूत्रे असिद्धिसमादयोप्युपलक्षिताः । न च तासामसंभवोन्यत्र वानुप्रवेशः, पृथगुदाहरिष्यमाणत्वात् । तत्र प्रतिरोधसमे तावत् सरूपं विरूपं चेति द्विविधं प्रत्यवस्थानम् । वादिना प्रत्यक्षादियज्जातीयेनार्थः साधितः, तज्जातीयेन प्रत्यवस्थानं सरूपम् । तत् त्रिधा-प्रत्यक्षे प्रत्यक्षेण, अनुमाने अनुमानेन, शब्दे शब्देनेति । अतज्जातीयेन तु विरूपम् । तत्तु षोढा-यथा प्रत्यक्षे तदन्याभ्यां तथानुमाने शब्दे चेति । एवं बाधसमादिष्वपि विभागो भाव्यः ॥
न्या. प. अ. 58
तत्र सरूपं यथा-प्रत्यक्षबलादेकश्चन्द्र इत्युक्ते अङ्गुल्यवष्टम्भादिसहकृतप्रत्यक्षेण अनेकः किं न स्यात्; न ह्येकं प्रत्यक्षं स्वार्थसाधकं, प्रत्यक्षान्तरं तु नेति राजाज्ञा । न च सहकारिभेदो दोषः, प्रतिप्रत्यक्षं सहकारिवौचित्र्यात् । घृतादिष्वतीन्द्रियेषु च गन्धादिग्रहणयोगादिसहकारिवैचित्र्याभ्युपगमात्, इति ॥
न्या. प. अ. 59
अनुमाने तु साधर्म्येण वादिनोपसंहारे साधर्म्येण वैधर्म्येण द्वाभ्यां वा, तथा वैधर्म्येण द्वाभ्यां वोपसंहारे तथैव
त्रिधा त्रिधेति नवधा भेदः । तत्र त्रिधोपसंहारेपि साधर्म्येण प्रत्यवस्थानं साधर्म्यसमः । वैधर्म्येणतु वैधर्म्यसमः । द्वाभ्यां तु साधर्म्यवैधर्म्यसम इति । आद्यो यथा-स्थावरशरीरं भोक्त्रधिष्ठितम्, जीवनिद्रा प्रबोधादियोगित्वात्, मनुष्यादिशरीरवत् इति साधर्म्येण वा, यन्न भोक्त्रधिष्ठितं न तन्निद्रादियोगि, यथा घटः इति वैधर्म्येण वा, द्वाभ्यां वा, वादिना साध्योपसंहारे कृते जातिवाद्याह-यदि मनुष्यादिशरीरसाधर्म्याद् घटादिवैधर्म्यादुभाभ्यां वा स्थावरशरीरं भोक्रधिष्ठितमुच्येत, तदा घटादिसाधर्म्यात् पाणिपादादिरहितत्वात् तन्निरात्मकं किं न स्यादिति । एवं तत्रैव मनुष्यशरीरवैधर्म्यादित्युक्ते वैधर्म्यसमः । समुच्चये तु साधर्म्यवैधर्म्यसमः, इति॥
न्या. प. अ. 60
आगमे यथा-अवैदिकहिंसा न धर्मः, निषेधशास्त्रं हि तथाह, इति नैगमिकेनोक्ते बाह्मो ज्वलति-नैवं नियन्तव्यम्, आगमान्तरं हि तामपि धर्मयति, श्रेयःसाधनतया तेन तद्विधानात् । न चागमत्वे विशेषं पश्यामः । परिग्रहस्त्वार्थैः कस्यचित्, कस्यचित् पाषण्डिभिरिति को विशेषः ? यथारुचि सर्वत्र परिग्रहात्, इति ॥
न्या. प. अ. 61
विरूपं यथा-स्फटिकादीनामबाधितप्रत्यभिज्ञया स्थैर्येवैनाशिकः प्रतिवक्ति-यत् सत् तत् क्षणिकम्; यथा-उभयवादिसिद्धः क्षणोपाधिः । सन्तश्चामी भावाः । न हि प्रत्यक्षं प्रत्यक्षमित्येवानुमानेन न बाध्यते, ज्वालाभेदानुमानेन तदैक्यप्रत्यक्षस्याप्यबाधप्रसङ्गात् । अविशिष्टा हि तत्र चात्र च प्रत्यभिज्ञा; अनुमानं च भेदगोचरमविशिष्टमिति । एवमुदाहरणान्तराण्यपि पञ्च स्वयमेवोहनीयानि । असद्विषयाया अपि जातेरुक्तैव प्रक्रिया । तत्र जादिवादिनः पर्यनुयोज्योपेक्षणमपि स्यादिति विशेषः ॥
न्या. प. अ. 62
एवमनादृतप्रयोजकाकारतौल्येन प्रतिरोधे प्रतिरोधसमउदाहृतः । अथाङ्गीकृततुल्यभावेन तु बाधे बाधितसम उदाह्रियते-परशरीरमात्माधिष्ठितम्, वाक्यप्रयोगादिमत्त्वात्, स्वशरीरवत्, इत्युक्ते प्रत्याह-स्वशरीरव्यतिरिक्तत्वात् तृणादिवदनधिष्ठितमेव स्यात्; न ह्यनुमानरूपेषु तस्य चास्य च विशेषं पश्यामः । तुल्यत्वे च तदेव बाधकमिदं नेति को नियन्ता ? । ततश्चानेन स्वसाध्यसाधनात् पूर्वबाध इति ॥