मूलम् - 2.3.5
जातिर्द्विधा-प्रतिप्रमाणसमा, प्रतितर्कसमा चेति । तत्रानयुपेतमर्यादेन प्रतिप्रमाणेनानिष्टापादनं प्रतिप्रामणसमा । यथा चापकर्षसमादिष्वेकैकस्यां वा जातिविधायामसिद्ध्याद्यनेकदोषसंग्रहं व्याचख्युः, तथा प्रतिप्रमाणसमायामपि सर्वानिष्टसंग्रहे न कश्चिद्दोषः । तादृशेन प्रतितर्केणनिष्टापादनं प्रतितर्कसमा । न चायं विभागोनादेशिक इति वाच्यम्, यथा परैः सूत्राकारानुपदिष्टापि साधर्म्यवैधर्म्यसमादिसंग्राहिका प्रतिधर्मसमोन्नीता, तद्वत् सर्वसंग्राहकविभागस्यात्यन्तोचितत्वात् । न च सूत्रोपदिष्टायां चतुर्विंशतौ सर्वजात्युदाहरणान्तर्भावः शक्यः, परैरपि कल्पितेनैव प्रतिधर्मसमेन प्रत्यक्षाभासादिमूलस्य प्रतिरोधस्य संग्रहोपलक्षणात्, तेनाप्यसंगृहीतस्य उदाहरणान्तरस्यास्माभिः प्रदर्शयिष्यमाणत्वाच्च । उक्तं च तत्त्वरत्नाकरे- “अमूषां जातीनामानन्त्याच्चतुर्विंशतिरसौ प्रदर्शनार्था ‘अन्यदन्यस्मात्’ इत्यादिना जात्यन्तरसूचनात्” इति । प्रज्ञापरित्राणेप्युक्तम्-
“आनन्त्येपि च जातीनां जातयस्तु चतुर्दश ।
उक्तास्तदपृथग्भूता वर्ण्यावर्ण्यसमादयः ॥” इति ।
अत्र “चतुर्दश” इति स्वग्रन्थोदाहृतकतिपयजातिमात्रपरिसंख्यानम्; न तु वस्तुतो न्यूनाधिकसंख्याव्यवच्छेदार्थम् । न्यायभूषणमतानुसारेणापि चतुर्विंशतेः प्रदर्शनार्थत्वमेवाभिमतम् । अस्मदुक्तं तु द्वैविध्यं सर्वजातिसंग्राहकम् । तयोरेव ह्यापाद्यापादकभेदभिन्नयोरवान्तरभेदाः सर्वजातयः । तथा हि-द्वे अपि द्विविधे-सामान्यतो विशेषतश्चेति । अत्र प्रतिप्रमाणसमायां सामान्यतो यथा-त्वत्पक्षवदस्मत्पक्षेपि किंचित् प्रमाणं सं भवेत्, पक्षत्वाद्यविशेषादिति । सेयमुपपत्तिसमेति सूत्रिता । विशेषतो यथा-यं कंचित् प्रमाणाभासमुपक्षिप्य यथा त्वदुक्तं विवक्षितसाधकम्, तथेदमपि; न चेदेवम्, त्वदुक्तमप्यसाधकं स्यात्, अविशेषादिति । एतन्मुखभेदा एव प्रतिधर्मप्रतिदृष्टान्तप्रकरणसमादयः । प्रतिप्रसङ्गसमायां सामान्यतो यथा-यथा पक्षान्तरेनिष्टप्रसङ्गः, तथा त्वत्पक्षेप्यनिष्टप्रसङ्गः कश्चित् स्यात्, निपुणाभ्यूहने सर्वत्र दूषणसंभवात्, आपातरमणीयत्वस्य सर्वत्राविषेषादिति । विशेषतो यथा-एवं चेदनेन त्वयेदं साध्यते दूष्यते वा; तथा सति मदुक्तेनानेन तर्केण त्वदुक्तविपरीतं किं न स्यात्, अविशेषादित्यादि । एतदवान्तरविशेषा उत्कर्षसमादयः । तत्रापि स्वरूपस्पर्शिन्यः काश्चित् । प्रदिबन्दीव्यवहितास्त्वविशेषसमादय इति भिदा ॥
न्या. प. अ. 54
एवं विभागे शक्येपि विशेषानवधारणात् ।
विविच्य सूत्रयामास गौतमो जातिसंततिम् ।
व्याघातमुखभेदादेरुत्थानादेश्च दर्शयन् ।
वैचित्र्यमन्तेवसतां तदानन्त्यं न्यदर्शयत् ।
न चानन्त्येपि जातीनां दुर्विवेचविशेषता ।
स्वस्यापि दूषणं जातिरिति सामान्यसंग्रहात् ।
अवान्तरविधाभेदस्यानन्त्येपि च गृह्यते ।
अशेषसंग्रहादेकमप्पृथिव्यादिलक्षणम् ।
विशोधयिष्यमाणेषु विभागेषु च तत्त्वतः ।
विशेषलक्ष्ाणैस्तैस्तैः संग्रहोपि भविष्यति ॥
न्या. प. अ. 55
वरदविष्णुमिश्रैस्तु- “स्वव्याघातिप्रसङ्गो जातिः । सा च चतुर्विशतिविधा” इत्युक्त्वा साधर्म्यादिसूत्रमुपादाय यथोदयनं प्रायो लक्ष्यलक्षणादिकमुक्तम् । एवमन्यैरपि । वयंतु तदेवेदानीं प्रतिसंस्कारमदूरविप्रकर्षेण प्रब्रूमः ॥
न्या. प. अ. 56
तत्र यदिदं सूत्रम् “साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः” इति; अत्र द्वन्द्वात् परत्वात् समशब्दः प्रत्येकमन्वेतव्यः । सर्वानुगतस्तदर्थ एव च सामान्यलक्षणमिति प्रदर्शितम् । अत्र सूत्रकारोक्तयोः साधर्म्यवैधर्म्यसमयोरसूत्रितप्रतिधर्मसमावान्तरभेदतामन्ये व्याचख्युः । तत् कस्य हेतोः ? । तथाविधमानाभासमुखेन प्रतिरोधोदाहरणान्तराणां दर्शनादन्यत्र तु छलादौ जात्यनतरे वा तेषामनन्तर्भावाच्च जात्यन्तरस्य कल्पनीयत्वे सत्युक्तेनोपलक्षणस्योचितत्वादवान्तरभेदकथनस्य सर्वत्रावान्तरभेदसद्भावज्ञापनेन सप्रयोजनत्वाच्चेति चेत्, एवं यद्यनुक्तोदाहरणान्तराणि बृहन्ति, तदा जात्यन्तरं वा, तत्संग्रहलक्षणं वा कल्पनीयमेव ॥