मूलम् - 2.3.4
ननु यत्पर्यवसायीनि जातीनां दूषणानि, क एष स्वव्याघातः ? । न तावत् स्वेनैव स्वस्य विरोधः, तस्य भेदापेक्षया आत्माश्रयप्रशङ्गात् । स्वस्य सिद्धत्वे विरोधस्यानवकाशात् । असिद्धौ कस्य केन वा विरोधः । एतेन यथा परं व्याहन्ति तथा स्वात्मानमपीति निरस्तम् । किं च परव्याहतिसिद्धौ समीकरणाकाङ्क्षी जातिवादी तावतैव चरितार्थः । तदसिद्धौ तु कथं तन्निदर्शनेन यथेत्युच्यते । एतेन परस्य स्वेनेव स्वस्यान्येन व्याघाताक्षेपकत्वं स्वव्याघातकत्वमिति च प्रत्युक्तम् । आक्षेपकत्वं चात्र किमभिप्रेतम्-किमुत्पादकत्वम्, उत ज्ञापकत्वम्, यद्वान्यकर्तृकव्याघातप्रतियोगित्वेनावस्थानमात्रमिति ? न प्रथमः, असंभवात् । न द्वितीयः, परव्याहतिमात्रबोध्ानपरत्वात् । न तृतीयः, असदुत्तरान्तराणामपि जातित्वप्रसङ्गादिति । अत्रोच्यते-या परपक्षप्रतिक्षेपार्था युक्तिः प्रसज्यते, तस्याः प्रयोजकाकारेण तत्सजातीयस्वविषययुक्त्यन्तरक्रोडीकारः स्वव्याद्यातः । तथा च सति तया युक्त्या परपक्षस्य न दोषप्रसङ्गः; स्वयमेव तथाविधयुक्त्या दुष्यतीति न परपक्षस्य दोषमापादयितुं शक्नोति । यदि च तथाविधयुक्तिदुष्टमेवाभिमतसाधकमित्यभ्युपगभ्यते, तथापि
परपक्षस्याभिभतसाधकत्वानन काचित् क्षतिरिति जात्युत्तरस्य दूषकत्वं न स्यात् । स्वयमपि दुष्टं परस्यापि दूषकं भवत्विति चेत्, तथा सति सर्वं सर्वस्य दूषकं भवेत्, अविशेषात् । ततश्च मौनं वा नित्यकलहो वा शरणं कथकानाम् । जात्युत्तरबाधकयुक्तेरपि युक्त्यन्तरबाधितत्वात् प्रथमं निरुपद्रवमिति चेन्न, परस्तादपि प्रसङ्गेन द्वितीयस्यापि निरुपद्रवत्वात् । कुतस्तर्ह्यनवस्थानिवृत्तिरितिचेत्, प्रथमस्य परित्यागेन, यदभ्युपगममूलोयं प्रवाहः इति
भाव्यम्; अन्यथा सर्वत्रानवस्थाप्रसङ्गे प्रथमसंरक्षणप्रसङ्गात् । समवायादिवादिभिरिष्यत एवायमर्थ इति चेत्, किं तदिष्टत्वमात्रेण तथैव वस्तुस्थितिः; अतिप्रसङ्गात् । सूत्रितं च वैशेषिकाधिकरणे अनवस्थापकसर्वदूषणोपलक्षणतया समवायकल्पनेनवस्थानम् “समवायाभ्युपगमाच्च साम्यादनवस्थितेः” इति । अतः साधने दूषणे वा वदभ्युपगमे तथाविधः प्रवाहः प्रसजति, तदेवादौ त्याज्यम् । न चात्रकारणानवस्थावद्गुणत्वम्; तद्वैषम्यस्य स्वस्थाने वक्ष्यमाणत्वादिति ॥