43 जातिः

मूलम् - 2.3.3

यत् सिद्धमपि दूषणव्याप्तिरहितमसदुत्तरं तज्जातिः । व्याप्तिपक्षधर्मताविशिष्टेनैव हि हेतुना स्थानं दूषणं वा । तयोरन्यतराभावे प्रतिष्€ोधहेतुरपि दुष्यत्येव । तत्र यथा छलस्य केवलनिरनुयोज्यानुयोगस्य वा पक्षीकृते वादिवाक्ये स्वयमसिद्धस्य पक्षधर्मत्वविरहान्न दूषकत्वसिद्धिः, एवं पक्षधर्मस्यापि जात्युत्तरान्तर्गतस्य हेतोर्दूषणव्याप्तिविरहान्न दूषकत्वम्; तथा हि-नेदं स्वसाध्यसाधकम्, युक्ताङ्गानपेक्षप्रतिप्रमाणादिप्रतिरुद्धत्वात्, इत्यादिषु जातिप्रयोगेषु प्रतिषेधहेतोः पक्षधर्मत्वे सत्यप्यसाधकत्वेन व्याप्तिर्नास्ति, अन्ततः स्वस्मिन्नेव व्यभिचारात् । तदेतदीदृशमसामर्थ्यविशेषं विवक्षित्वा प्रतिषेधासामर्थ्यं जातिलक्षणमुक्तं न्यायवार्तिके । तादृशासामर्थ्यमूलभूतं स्वव्याघातकत्वमेव न्यायाचार्येण लक्षणीकृतम् । तच्च युक्ततमम्, साधारणस्य दूषणविशेषस्य स्फटप्रतीतेः । किंच सूत्रकारस्य “साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः” इति जातिसामान्यलक्षणं ब्रुवाणस्€य न तदेव लक्षणं विवक्षितम्, सर्वजातिसंग्राहकत्वाभावात् । सदुत्तरप्रकरणसमातीतकालोद्भावनयोरतिव्याप्तेश्च । अतो जातिविभागसूत्रे निग्रहस्थानवत् परस्परनिरपेक्षास्वपि जातिषु प्रयोगलाघवाय द्वन्द्वात् परतया सर्वजात्यन्वितं समशब्दं प्रयुञ्जानस्य तदेव लक्षणतया विवक्षितमिति भाष्यकारादिभिः सर्वैरास्थितम् । तत्र यथा त्वदुक्तं साधर्म्यं वैधर्न्यं सहचरितं वा, तथास्मदुक्तमपीत्यादिनाकारेण जातिवादिनाभिधीयमाने, स्वपरसाधनयोर्विशेषहेत्वभावे समशब्दार्थतया विवक्षिते, वस्तुतो विशेषहेतुसद्भावान् न समशब्दार्थसिद्धिः । आरोपितं तु साम्यमस्तीति गत्यन्तराभावे स्वीकार्यम्, सत्यसति वीत्तरे प्रत्यवस्थानस्वरूपदोषमात्रे तु भाष्योक्तोपयोगात् । वार्तिकोक्तं प्रतिघेधासामर्थ्यं न साक्षात् समशब्दार्थः । सममनुत्कृष्टमपकृष्टमुत्तरं जातिरिति वा, जातिवादिसमः साधारणो नोत्कृर्ष्टः-अपकृष्ट इत्€यर्थः, सच साधर्म्याद्युक्तिंद्वारेणैवोन्नीयत इति उत्तरमेव सममपकृष्टमित्यर्थ इति वा क्रमेणापकर्षविशेषे लक्षणीयेपि क्लिष्टा गतिः । कुशकाशावलम्बेन तु लक्षणसिद्धिः स्यात् । स्वस्य प्रतिवादिनश्च समीकरणाभिप्रायपूर्वकत्वात् समीकरणार्थत्वाद्वा जात्युत्तरं सममित्युच्यत इति टीकापक्षोपि तथैव । न च तावता लक्षणसिद्धिः, छलादेरपि समीकरणाभिप्रायपूर्वकत्वादिसंभवात् । तथा सूदत्तरमपि कश्चिन्मन्दः समीकरणाभिप्रायेण प्रयुञ्जीत । समीकरणार्थत्वं च वास्तवं न व्यापकम्, तत्साधने जातिवादिनो वास्तवसमीकरणस्य दुर्लभत्वात् । अपि च कश्चिज्जातौ सदुत्तरत्वभ्रान्त्या स्वोत्कर्षाभिप्रायेणापि जातिं गृह्णीयात्; अतोस्मिन्नर्थेपि न लक्षणसिद्धिः । बुद्धिपूर्वता तु जातिकार्येत्युच्यते । प्रतिषेधरूपस्य जात्युत्तरस्य स्वपरसाम्ये समशब्दार्थे येनाकारेण परस्य प्रतिषेधकं तेनाकारेण स्वस्यापि प्रतिषेधकं भवतीति स्वव्याघातकत्वमेव विवक्षितं स्यात् । न चात्रातिव्याप्तिरव्याप्तिर्वा । ततश्च लक्षणसिद्धिः, साधारणदुष्टत्वमूलसूचनं चेति लाभोप्यधिकः ॥
न्या. प. अ. 49
ननु छलेपि व्याघातकत्वं संभवति । तथा हि-आढ्योयं नवकम्बलत्वादिति नूतनकम्बलत्व€विवक्षयोक्ते कुतोस्य नव कम्बलाः इति प्रत्युक्ते वादिना च पुनश्छलत्वोद्भावने यदि छलवाद्याह- “विवक्षितमविवक्षितं वेति
किमनेन विभागेन ? त्वदुक्तशब्दप्रतिपन्नं तावत् दूषितम्” इति-तदा तस्य सिद्धः स्वव्याघातः । अविवक्षितार्थदूषणेनापि परस्य भङ्गे छलवादि वाक्येप्यविवक्षितयत्किंचिदर्थदूषणेन भङ्गप्रसङ्गस्य दुर्वारत्वात् । अतः स्वव्याघातकत्व€मतिव्याप्तमिति । मैवम्; कुतोस्नय नव कम्बलाः इत्यस्यां काक्ष्यायामविवक्षितदूषणाभिमानस्यानभिव्यक्तेः, तथाविधानुयोगस्य तदर्थविवक्षाभ्रमादपि संभवात् । यस्यां तु कक्ष्यायामविवक्षितदूषणेनापि परपराजयाभिमानो व्यज्येत, तदा जातित्वमेव, अविव€क्षितस्य विवक्षितत्वारोपाभावेन छललक्षणासिद्धेः । एवं केवलनिरनुयोज्यानुयोगे जातिसंकरः परिहर्तव्यः । अतः सुश्ठूक्तं स्वव्याघातकत्वं जातिलक्षणम् ॥
न्या. प. अ. 50
ये तु साधनेष्वपि केषुचिज्जातित्वमिच्छन्ति तेषां स्वसमानन्यायप्रसञ्जनेन स्वव्याघातकं जातिरिति सामान्यतो लक्षणम् । तत्र स्वव्याघातकसाधनं जातिसाधनम्; यथा-महाविद्यादि । स्वव्याघातकमुत्तरं तु जात्युत्तरम्; यथा-तत्त्वोपप्लवखण्डनादिगतिरिति विभागः । स्वव्याघातिप्रसङ्गो जातिरिति वरदविष्णुमिश्रोक्तिरुत्तररूपजात्यभिप्रायेण । अक्षपादीयेषु च जातिविशेषलक्षणसूत्रेषु पुल्लिंङ्गान्तसमशब्दनिर्देशः स्वपक्षस्थापनपरपक्षप्रतिक्षेपरूपेण द्विभागे प्रत्यवस्थाने प्रतिषेधभागेनात्र जातित्वं विवक्षितमित्युत्तररूपजातिविशेषाभिप्राय इति ह्याहुः ॥
न्या. प. अ. 51
अथायमपरो जातिसंग्रहः-मर्यादालङ्घनाभ्युपगमपूर्वकमुत्तरंजातिः । मर्यादा च प्रतिष्ठिता प्रमाणसरणिः । स्वव्याघातकत्वमपि तल्लङ्घनाभ्युपगमादेव । स च द्विधा-परिकरनियमानभ्युपगमः विषयनियमानभ्युपगमश्चेति । प्रथमो द्विधा-युक्ताङ्गत्यागः, अयुक्ताङ्गपरिग्रहश्चेति । अयुक्ताङ्गपरिग्रहेपि ह्यन्यूनानतिरिक्तविषयपरिकरनियमानभ्युपगम एव । द्वितीयो द्विधा-प्राप्तविषयत्वत्यागः, तदन्यविषयत्वाभ्युपगमश्चेति । एतेन “लक्ष्यं लक्ष्णमुत्थितिरवसरो मूलं फलं पातनम्” इति पठितेषु सदुत्तरेण जातीनामुद्धाराय प्रतिजातिप्रतिसंधाने सदुत्तरापरिस्फूर्तौ जातिप्रसङ्गे चोपयोक्ष्यमाणेषु जातीनां सप्तस्वङ्गेषु साधारणमसाधारणं च दुष्टत्वमूलं दर्शितं भवति । विशेषतश्च जातीनां लक्ष्यलक्षणे वक्ष्येते ॥ “प्रमादः प्रतिभाहानिर्वा सामवसरः स्मृतः” इति पूर्वे । सभ्यानुमतिपूर्वकपरपरीचिक्षिषापीत्यवष्टम्€भविजयाभिलाषिणः । एवंचवादिसाधने जातेरुदय इति न नियमः, उभयत्रापि प्रमादादिसंभवात् । अत एव हि जात्यादेरुत्तरतया जात्यन्तराद्युदयः । फलं च प्रायशः परव्यामोहनं, पाक्षिकविजयः, साम्यं वा । तत्त्वाज्ञानं साधारणमुत्थानबीजम् । तत्तदवान्तरस्वभावाज्ञानं, तद्विपरीतज्ञानं चासाधारणमुत्थानकारणमिति च विभाव्यम् । वादिवाक्यस्य कस्मिंश्चिद्दूषणविशेषे निपातनमेव पातनम् । तच्चासाधारणदुष्टत्वमूलपुरस्कारेण साधारणस्वव्€याघातप्रदर्शनौपयिकमिति भाव्यम् । व्याघातपर्यवसितं हि सर्वं दूषणम् । उपलम्भपर्यवसितं च सर्वं साधनमिति रहस्यम् ॥