42 छलम्

मूलम् - 2.3.2

यत्तत्कल्पितदूष्€यमसदुत्तरं तत् छलम्; वक्तुरविवक्षितमर्थमारोप्य तद्दूषणं छलमित्यर्थः । ननु साधनवाक्येपि छलं संभवति; तथा हि, भूतचतुष्टयैकद्रव्यत्ववादी जैनः प्राह-पाथः पार्थिवम्, पयस्त्वात्, यत् पयस्तत्पार्थिवम्, यथा क्षीरम्, इति । पशुः स्वर्गसाधनं न भवति, सत्त्वात्; यत् स्वर्गसाधनं तत् सत्त्वहीनम्, यथा हविरन्तरम्, इति । अत्र पयःशब्दसत्त्वशब्दयोः स्वयमेवार्थान्तरकल्पनाद्युक्तं छलत्वम् । यथा जातित्वं महाविद्यादौ साधनेपि कैश्€िचदुच्यते, तथा स्ववाक्यस्थशब्दस्यापि स्वयवेव वृत्त्यन्तरकल्पनेन प्रयोगाच्छलत्वं सिद्धम् । नचात्र पयःसत्त्वादिशब्दार्थविकल्पेनासिद्धिसाधनविकलत्वादिदूषणसंभवे किं छलत्वोक्त्येति वाच्यम्, नवकम्बलादिच्छलेपि नूतनत्वसंख्याविशेषविकल्पेन प्रत्यक्षविरोधप्रस्तुतासङ्गतत्वादिदूषणप्रसङ्गस्य तुल्यत्वादिति । सत्यम्; निरनुयोज्यानुयोगभेदभूतोत्तररूपच्छलविवक्षयात्र लक्षणमिति न विरोधः । अथवा संख्याविशेषरूपार्थस्य वक्तुर्विवक्षितत्वं प्रकाश्य तत्कथनद्वारैव प्रकृतासंगतिर्वाच्या । तत्र चाविवक्षितार्थविषयत्वं वचनस्वभावादेव व्यक्तम् । पयस्त्वादिहेतावुभयत्र विवक्षान्तरसद्भावे प्रमाणाभावाद् विकल्पमुखेनैव दूषणं साधीयः । पयःशब्दवाच्यत्वमात्रविवक्षयां च छलत्वम् । यदि तु वृत्तिद्वयविवक्षां स्वयमेवोद्भाव्य हेत्वसिद्धि साधनविकलतां च प€रिजिहीर्षति, तदापि साधकतयोपन्यस्तहेतोदृष्टान्तेनुदाहरणादुदाहृतस्य प्रकृतानुपयोगादर्थान्तरनिग्रहस्थानता । अथार्थद्वयविवक्षामात्रेणच्छलत्ववाचोयुक्तिमिच्छसि, इष्यतां स्वैरमिति ।
न्या. प. अ. 45
तत् त्रिधा-वाक्छलम्, उपचारच्छलं, सामान्यच्छलमिति । तत्र नानार्थेषु शब्देष्वभिधेयान्तरारोपणेन तद्दूशणं वाक्छलम्; यथा-नूतनकम्बलवत्त्€वविवक्षया नवकम्बलोयमित्युक्ते संख्याविशेषमर्थमारोप्य कुतोस्य नव कम्बलाः ? एक एव हि कम्बलो दृश्यते इति । एवं दूषयतो वादिविवक्षिताप्रतिपत्तेस्तदुत्तराप्रतिपत्तेपश्चाप्रतिपत्तिः; अदूषणे दूषणबुद्धेश्चान्यथा प्रतिपत्तिरिति ॥
न्या. प. अ. 46
अभिधोपचारविपर्ययारोपणेन तद्दूषण मुपचारच्छलम्; यथा–गङ्गायां घोष इत्यादौ कथं प्रवाहे घोषवासः ?
इति । अग्निर्माणवक इत्यत्र कथमनुष्णो ज्वलनः ? इति । उभयथा लोकवदेयोः प्रयोगात् तत्प्रतिपत्त्यभावादेव चात्र निग्रहः । उपचारप्रयोगे मुख्यार्थासंभवाद्बाध उपचारच्छलमित्यन्ये; तन्न, मुख्यप्रयोगेपि कस्यचिदौपचारिकार्थासंभवेन प्रत्यवस्थानोपपत्तेः । अस्य चौपचारिकार्थे मुख्यार्थताभ्रमेण वा, गत्यन्तराभावादेवमपि किमयं व्याकुलीभवेदिति वा प्रयोगसंभवः; यथा-पर्वतोग्निमानित्युक्ते, अग्निर्माणवक इति प्रसिद्धम्; न चात्रेदानीं माणवकः, इति कालात्ययापदिष्टो हेतुरिति । न चैतद्दूषणान्तरान्तर्गतम् । तस्माद्यथोक्तमेव लक्षणम् ॥
न्या. प. अ. 47
तात्पर्यान्तरारोपणेन तद्दूषणं सामान्यच्छलम्; यथा- ‘अयमहो ब्राह्मणोनूचानः’ इत्यत्र सुक्षेत्रे शालिसंपत्तिवत् संभावितत्वविवक्षया ‘किमाश्चर्यम्’ इत्युक्ते, ब्राह्मणत्वसामान्ये व्याप्यत्वमारोप्य अनूचानत्वे च व्यापकत्वमविवक्षितमारोप्य अनूचानत्वे च व्यापकत्वमविवक्षितमारोप्य ब्राह्मणत्वहेतोर्व्रात्यैरनैकान्तिकत्वकथनमिति । अत्र सामान्यच्छलमित्युपलक्षणसंज्ञा । अन्वर्थसंज्ञा तु तात्पर्यच्छलमित्येवेति ॥