मूलम् - 2.3.1
॥ अथानुमानाध्याये तृतीयमाह्निकम् ॥
तन्निग्रहस्थानाभावे तन्निग्रहस्थानाभियोगो-निरनुयोज्यानुयोगः । एतदेव सर्वमसदुत्तरम् । उत्तररूपतया, सर्वस्य च निरनुयोज्यानुयोगभेदस्य द्वितीयादिकक्ष्यास्ववसरः । तदनन्तरकक्ष्यायामेवोद्भावनम् । तद्द्विविधम्-दूषणव्याप्तमप्यसिद्धम्, सिद्धमपि दूषणव्याप्तिरहितं चेति । पूर्वमपि द्विविधम्-सिद्धदूष्यं कल्पितदूष्यं चेति । सिद्धदूष्यमपि द्विधा-अनवसरग्रहणं निग्रहस्थानाभासवचनं चेति ॥
न्या. प. अ. 42
तत्रनवसरग्रहणं यथा-चतुर्थकक्ष्यायां स्थितः प्रतिवादी वदति-“प्रथमकक्ष्यायां त्वयापशब्दितम्” इति । यद्वा सन्तमसन्तं वा कंचिदनैकान्त्यादिदोषमुद्भाव्य स्वयमेवाह-यदि हेतुं विशेषयिष्यसि, तदा हेत्वन्तरेण निगृहीतोसि । यदि त्यक्ष्यसि, तदोक्तहान्यैव; इत्यादि । वादे तु हेत्वा भासादिकं तत्त्वनिर्णयपरिपन्थित्वादतिक्रान्तकालमप्युद्भाव्यम्, अन्यथा तन्मूलचिन्तासन्ततेर्निष्फलपरिश्रमतवप्रसङ्गादिति । न चानवसरग्रहणस्य विपर्ययेन्तर्भावः शङ्क्य, अवश्यंभाविनियतक्रमविषयत्वाद्विपर्यासस्य, अनवसरे क्रियमाणस्य ग्रहणस्य त्ववश्यंभावित्वाभावात्, तस्य तत्पूर्ववाक्यस्य चाकाङ्क्षादिक्रमानियामकाभावाच्च । यदा चासतो दोषस्यानवसरे प्रतिपादनं, तदा तु व्यक्त एवास्यावश्यंभावित्वाभावः । नन्वसिद्धत्वे सति दूषणव्याप्तस्यासदुत्तरस्य विभागोयमुदाह्रियते; अत्र सतो दोषस्यानवसरोद्भाव ने तस्य स्वपर्वणि सिद्धत्वात् कथमसिद्धत्वम् ? । उच्यते–अतिक्रान्तस्यैष्यतो वा पर्वणस्तदानीमदूष्यत्वात्, स्वपर्वणि सिद्धस्यापि दूष्यतया संनिहिते तदानीन्तने पर्वण्यसिद्धत्वाद्युक्त एवायं विभागः । असतस्तु दोषस्यानवसरोद्भावितस्य स्वपर्वण्यप्यसिद्धिर्विशेष इति ॥
न्या. प. अ. 43
निग्रहस्थानाभासवचनमपि बहुविधम्–तन्निग्रहस्थानाभावेतदारोपणं, निग्रहस्थानान्तरे तदन्यनिग्रहस्थानवचनम्, स्वसमये निग्रहस्थानत्वेनापरिसंख्यातस्य निग्रहस्थानतया प्रसञ्जनम्, क्षन्तव्यतयाभ्युपगतस्योद्भावनमित्यादि । तत्राद्यं यथा-संभावितानेककल्पसाधारणोक्तौ विकल्पितायां विवक्षितविकल्पत्यागेनोक्तहानिः; प्रकरणाद्यापन्नस्य स्वयमेव पूर्वोक्तस्य वा विशेषणस्य प्रकाशनेनोक्तविशेषणम्; पार्श्वस्थाद्युक्तस्यारोपितस्यावनभ्युपगमेनोक्तापलापः । एवमुत्तरेष्वपि भाव्यम् । द्वितीयं यथा- हान्यादावपलापादि, छले जातिः, जातौ छलम्, तदवान्तरविशेषेष्वपि विशेषान्तरवचनमित्यादि । तृतीयं यथा-कण्डूयनकेशविरचनताम्बूलचर्वणादिभिर्निगृहीतोसीति । चतुर्थं यथा- तत्त्वनिर्णयाविरोधिनामुक्तविशेषणमतानुज्ञादीनां वादे प्रकाशनम् । जल्पवितण्डयोश्च नियमविशेषवशादनुद्भावनीयानामुद्भावनं तत्र नियमभङ्गसध्रीचीनमिति विशेष इति ॥