40 पर्यानुयोज्योपेक्षणम्

मूलम् - 2.2.28

॥ पर्यानुयोज्योपेक्षणम् ॥
अवश्योद्भाव्यस्य निग्रहस्थनस्यावसरेप्यनुद्भावनं पर्यनुयोज्योपेक्षणम् । एतत् सदस्योद्भाव्यमित्येके । एतत् परीक्षार्थमसदेव मयोक्तम्, तदप्यनेन मन्दमतिना न विदितमिति स्वेनापि सावष्टम्भेनोद्भाव्यमित्यपरे । सदस्यप्रतियोगिकपराजयाभावात्, वादिनश्च पाक्षिकापजयहेतौ बुद्धिपूर्वप्रवृत्त्ययोगात्, स्वदोषोद्भावनेन परनिरसनस्य च पतितं मामयं न जानातीति दोषास्पृष्ट्यन्तरोद्भावनवदपरिहास्यत्वादनिग्रहस्थानमेवेत्यन्ये । इदमत्र तत्त्वम्–जल्पवितण्डयोर्नैंतत् सर्वदा निग्रहस्थानम्; केवलं सभ्यानुविधेयानामुभयमतिमान्द्यनिरूपणायोपयुक्तम् । षट्पक्षीसहनसमनन्तरोद्भावनं तु निग्रहस्थानान्तरस्यापि तुल्यम् । वादे तु सभ्यैः स्वेन च यथाज्ञानमुद्भावनीयम्, उभयथापि तत्त्वनिर्णयोपयोगात्, तादर्थ्येन च स्वदोषोद्भावनस्याप्यदोषत्वात् । अस्य चानेकनिग्रहस्थानसंनिपातेन्यतममुद्भावयतोन्यतमानुद्भावनेपि न दोषत्वम् ।
सर्वोद्भावनियमे त्वन्यतमोद्भावनेपि नियमभङ्गेन्तर्भावः । तदा तु जल्पवितण्डयोः स्वेनाप्युद्भावनीयम्, परस्य निग्रहस्थानद्वयापत्तेः, तदनुद्भावनेन नियमभङ्गाभियोगस्याशक्यत्वाच्च । एवमन्यत्रापि परस्य निग्रहस्थानद्वयापत्तिदशायां स्वस्यावष्टम्भविजयावहत्वान्निग्रहस्थानान्तरोपसर्जनतयेदमुद्भाव्यमस्तु । पिहितस्वच्छिद्रोपि परच्छिद्रं नोपेक्षेतेति नीतिरिति । क्षुद्रस्खलितत्वभ्रमादेरुपेक्षासंभवः ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ अनुमानाध्याये द्वितीयं प्रयोगाद्याह्निकम् ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥