मूलम् - 2.2.27
॥ मतानुज्ञा ॥
स्वदोषमभ्युपेत्य परदोषप्रसञ्जनं मतानुज्ञा । यथा त्वद्वचनं दुष्टमित्युक्ते तवापि वचनं दुष्टमित्यादि, त्वं चोर इत्युक्ते त्वमपि चोर इतिवत् । अत्र परदोषे सत्यपि स्वदोषाभ्युपगमोनुचित एवेति तेनांशेन निग्रहावहत्वम्; न तु परदोषाभिधानांशेन । तर्हि तस्यांशस्य किमर्थं लक्षणे निवेश इति चेन्न, स्वदोषमभ्युपेत्य तूष्णीकस्याप्रतिभाग्रस्ततया निग्रहान्तरकृत्याभावात्; अतूष्णीकस्य तु प्रतिभावतोप्यनेनैव निर्वर्तनीयत्वादिति प्रतिबन्द्यभिप्रायेण समीकरणाय मतानुज्ञोदयः । परापादितदोषानभ्युपगमेनतदुद्धारेणैव वा परपक्षे दोषं ब्रूयादिति शासनम् ॥